________________ टिप्पणपञ्जिकाकुसुमोगमाविटीकात्रयोपेतम् न्यायकन्दली स्वरूपविप्रकर्षणाप्युपपत्तेः / ग्रहण योग्यत्वे सत्यग्रहणादभावसिद्धिरिति चेत् ? कथं पुनरस्य योग्यता संप्रधारिता ? नहि तस्य ग्रहणं 'क्वचिदवगतम्, अवगतं चेन्न ग्राह्यलक्षणायोगः / किञ्च, ग्राहकाधीनं ग्रहणम्, ग्राहकं च ज्ञानं स्वात्ममात्रनियतमित्येतावतैव तदन्यस्याग्राह्यता, ग्राह्याभावादेव चेदमग्रहणमिति साध्याविशिष्टम् / अपि चेदं भवान् पृष्टो व्याचष्टा का. ज्ञानाकारस्य ग्राह्यता ? नहि तस्यास्ति ज्ञानहेतुत्वं तदव्यतिरेकात् / नाप्याकाराधायकत्वम्, आकारद्वयाननुभवात् / न च 'ज्ञानात्मकत्वमेव [टि०] प्रामाणिकाप्रामाणिकत्वाविवेकेन प्रतीतिसिद्धस्यैव पक्षस्य बौद्धैरभ्युपगमात् / अन्तस्तस्य ग्राह्यलक्षणत्वादिति हेतोः सन्दिग्धानकान्तिकत्वमाषादयन्नाह तदर्थामाव'साधनमिति / वैशेषिकाणामन्यथासिद्धिरियं स्वभावविप्रकर्षेणाप्यग्राह्यत्वस्य सिद्धत्वात् / न ह्यग्राह्यत्वमात्र हेतुः किन्तु ग्रहणयोग्यत्वे सति 'अग्राह्यत्वमित्याह 'ग्रहणयोग्यत्वे इति / [पं०] स्येत्यर्थः / साध्याविशिष्टमिति (कं. 127.27) यथा नित्यः शब्दोऽनित्यत्वादित्यत्र पक्षवत् हेतुरप्यस्तिस्तद्वदत्रापि / यथा ग्राहभावाख्यापक्षोऽसिद्धस्तथा हेतुरप्यसिद्धः तस्मात् सादृश्या विशिष्टाख्यं साधनाभासमेतदित्यर्थः / स (त्) दव्यतिरेकादिति (कं. 128.1) ज्ञानाव्यतिरेकात् / नाप्याकाराधायकत्वमिति (कं. 128.2) आकारेणाप्यपरो जाने आकार आधीयते इत्यपि नास्तीत्यर्थः / आकारद्वयाननुभवादिति (कं. 128.2) आकारद्वयमाधाराधेयकलक्षणम् / [कु०] [133] कृता च ज्ञानं निविषयमिति प्रतिज्ञा मम माता वद्वेति (वन्ध्येति) बद्धान्मानसविसंवादादुपेक्षणीया / तथाहि विषय विशेषज्ञानमुत्पिपादयिषुर्वाच्यमुपाददीति, विषयाभावे तदुपादानं निरुपपत्तिकम्, न च निविषयत्वज्ञानस्योत्पादनाय वाक्यविशेषोमिति साम्प्रतं ज्ञानस्य स्वगत-विशेषाभावेन ज्ञानं निविषयमिति च ज्ञानं सविषयमित्यस्यापि वाक्यस्य ज्ञानमात्रोत्पादनप्रसङ्गात् / किं च न वाक्यं सत्तया ज्ञानकारणं अ(न्य)थेतो ज्ञानुत्पत्तेः तस्माच्छेात्रजन्यं ज्ञानं स विषयमित्यस्यापि ज्ञदु (या) पादत्ते यद्यपि तथापि हेतुदूषणमपि वक्तव्यमित्याह यत्तावदिति (कं. 127.21) / इह ग्राह्यलक्षणायोगो ग्रहणाभावाद्वा सम्बन्धाभावाद्वा ? नाद्य इत्याह न तदर्थाभावेति (कं. 127.22) / अथ साध्याभावे साध्ये अनुपलब्धिमात्रमप्रयोजकमित्यर्थः / विशेषणमाशङ्कते "ग्रहणयोग्ये सतीति (कं. 127.23) / इह हि योग्यता कार्योपहितं स्वरूपं वा स [ह] कारिसाकल्यं वा ? तदुभयमपि कार्येणवंकोंनेय तदभावेन सिद्धयति / 1 योग्ये - कं.१; क.२। 2 क्वचिदभत, भूतं - कं. 1, कं. 2 / 3 ज्ञानात्मत्वमेव-जे. 1, जे. 2 / '4 साधनसमर्घम् मु. साधनं-जे. 1, जे. 3 / 5 अग्राह्य चं-अ; 6 ग्रहणयोग्ये - अ, ब, मु. ग्रहणयोग्यत्वे -जे. 1, जे 3 / 7 ग्रहणायोग्यत्वे -ह. लि.।