________________ न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली ये तु ज्ञानाकारमप्यपह्नवाना 'अलीका एव नीलादयः प्रतिभासन्ते इत्याहुः, तेषां कारणनियमादुत्पत्तिनियमोऽर्थक्रियानियमश्च न प्राप्नोति, अर्थाभावेन किञ्चित् कस्यचित् कारणम्, सर्व वा सर्वस्य, नार्थक्रियासंवादो न वा 'विसंवाद इति विशेषाभावात् / यथोक्तं गुरुभिः-- आशामोदकतप्ता ये ये चोपाजितमोदकाः / रसवीर्यविपाकादि सेषां तुल्यं प्रसज्यते // इति / वासनाविशेषात तद्विशेषसिद्धिरिति चेत् ? सा यदि बाह्यार्थक्रियाविशेषहेतुः ? संज्ञाभेदमात्रम्, अर्थो वासनेति / अथ ज्ञानात्मिका ? अर्थाभावे हि तस्या विशेषो निनिबन्धनो बोधमात्रस्योपादानस्य सर्वत्राविशेषात्, 'बोधाकाराव्यतिरिक्तस्य च विशेषस्याभ्युपगमेऽर्थसद्भावाभ्युपगमप्रसङ्गादित्युक्तम् / न चास्मिन् पक्षे नीलादिप्रत्ययस्य कादाचित्कत्वं स्यात्, तज्जननसमर्थक्षणसन्तानस्य सर्वदानुवत्तेः, अननुवृत्तौ वा कालान्तरेऽपि तत्र प्रत्ययानुपपत्तिः, स्वव्यतिरिक्तस्याचापेक्षणीयस्याभावात् / कारणपरिपाकस्य कादाचित्कत्वात् तत्कार्यस्य कादाचित्कत्वमिति चेत् ? कारणस्य परिपाकः कार्यजननं प्रत्याभिमुख्यम्, सोऽपि स्वसंवेदनमात्राधीनो न कादाचित्को भवितुमर्हति / अस्ति चायं पिं० [इति] / बहिरारोपकारणस्य / ज्ञानस्य क्षणिकत्वादिति (कं. 129.25) अन्यत्वं हि भिन्नत्वं तच्च क्रमेणव भवति, बहिरारोपकारणे च ज्ञाने क्षणिकत्वाद्विनष्टे कृतः क्रमेण [इति भावः / नोकस्य क्रमो घटते इति भावना। तहि ज्ञानं बहिरारोपश्च युगपदेव भविष्यतः, नेत्याह न चैकस्येत्यादि (कं. 129.25) / तमिति (कं. 129.27) आकारम् / तमिति (कं. 129.28) नीलादि [क] मर्थम् / न पुरुषान्तरमिति (कं. 129.28) कर्तृपदमेतत् / गुरुभिरिति (कं. 130.5) कौमारिलमिश्रः / [कु०] येनेति येन प्रकारेण अन्यवं (अन्यत्व) ज्ञानाङ्गीकारे दूषणं तस्याप्यनङ्गीकारे का गतिरित्यत आह येत्विति (कं. 130.2) / "नाप्यर्थक्रियासंवाद इति (कं. 130.4) संवादाज्ज्ञानं प्रमाणं विसंवादादप्रमाण[मिति ] नियमश्च न प्राप्नोतीत्यर्थः। आशामोदकेति (कं. 130.6) उपाजितस्याप्यलीकस्वादाशामोदकां न विशिष्यते इत्यर्थः / 1 व्यलोका-कं.१। 2 विसंवादो-कं. 1, कं.२। 3 बोधाकारस्य च व्यतिरिक्तस्य - कं. 1, कं. 2 / 4 तत्-कं. 1, कं. 2 / 5 स्वम्यतिरिक्तस्या-कं.१, कं.२। 6 परिपाक: कार्यः कार्यजननं-प्रति. कं. 1, कं.२; कारणपरिपाकः कार्यजननं-प्रति. जे. 2 / 7 नार्थ- कं /