________________ टिप्पणपञ्जिकाकुसुमोदगमादिटीकात्रयोपेतम् 317 न्यायकन्दली 'चित्रस्यैकस्य चित्रस्वभाव 'आकारः। तस्मिश्चात्मभूते 'ज्ञानं प्रवर्तमानं कृत्स्त्र एव प्रवर्तते, यदि वा न प्रवर्तत एव / न तु भागेन 'प्रवर्तते, तस्य निर्भागत्वात् / ये त्वमी भागाः परस्परविविक्ताः प्रतिभान्ति, न ते चित्रं रूपमिति न काचिदनुपपत्तिः / स्थूलाकारोऽप्यनयैव दिशा समर्थनीयः / अवयवो त्वेकः स्थूलो वा नोपपद्यते, नानावयववृत्तित्वेन तस्य नानात्वापातात् / ज्ञानाकारस्त्वेकस्मिन ज्ञाने वर्तमान एकः स्थलो भवत्येव / कम्पाकम्पादिविरोधस्तु 'संविद्विरोधात् पर्युदसनीय इति केचित् / अपरे तु ज्ञानाकारस्याप्यनादिवासनावशेन प्रतिभासमानस्य विचाराक्षमत्वमलोकत्वमेव तत्त्वमाहुः / तथा च यः प्रत्ययः स बाह्यानालम्बनो यथा स्वप्नादिप्रत्ययः, 'प्रत्ययश्चायं जाग्रतः स्तम्भादिप्रत्ययः, निरालम्बनता हि प्रत्ययस्य तन्मात्रानुबन्धिनी [टि०] ननु संवृत्तिमात्रेणापारमाथिकेन ‘कथं पारमाथिकस्यार्थस्य सिद्धिरित्याह दृष्टा हि इति बाह्यार्थवाद्याह 'रेखादयोऽपि इति / माध्यमिकः परिहरति सत्यं "[सत्या इति / [पं०] नानावयववृत्तित्वेन तस्य नानात्वापातात्; ज्ञानाकारस्त्वेकस्मिन् ज्ञाने वर्तमान एकः स्थूलो भवतीति (कं. 127.8) चोद्यते तदकम्पकम्पादिभिविरोधः / अवयवी हि द(द)शात् कम्पते न तु ज्ञानं कम्पते / अवयवी च जलहरण वाहदोहादिक्रियायामुपयुज्यते न तु ज्ञानम् इति परोत्पादितविरोधमाशङ्कयाह "कम्पादिविरोधस्तु संविद्विरोधाव्युदसनीय इति केचिदित्यादि (कं. 127.10) / संविद् विरोधादिति यदानेकमृत्ति तदाऽनेक यथानेकभाजनगतं कु०] "ये त्वमी इति (कं. 127.6) एवं चाकाराश्चित्रप्रत्ययोत्तरभाविज्ञानानामित्यनुसन्धेयम् / अनयैव दिशा ज्ञानाकारतया बाह्यवादिभिरप्येवमेव स्थूलाकारः समर्थनीयः / रूपादिस्वलक्षणान्तं परमसूक्ष्मत्वादित्याह अवयवीति (कं. 127.8) / संविद्विरोधात्-कम्पते, न कम्पत इत्यादि प्रत्ययानां परस्परं भेदादित्यर्थः / साकारविज्ञानवादिमतेन बाह्याभावं प्रसाध्य माध्यमिकमतेन ज्ञानाकारस्याप्यलीकत्वमाह अपरे त्विति (कं. * 127.10) / स बाह्यालम्बन इति (कं. 127.12) विचाराक्षमालम्बन इत्यर्थः / दृष्टान्तेऽप्योलम्बनं विचारं 1 वैचित्र्यस्य-कं. 1, कं. 2 / 2 एकाकार:-कं. 1, कं. 2 / 3 ज्ञानं कृत्स्न एव-जे. 1; जे.२। 4 वर्तते -जे. 1, जे.२। 5 संविद्विरोधो व्युदसनीय-कं. 1, कं. 2 / 6 प्रत्ययश्च -जे. 1, जे.२। 7 प्रत्ययत्वमात्रा -कं. 1, कं. 2 / 8 द्वयं -ड; 9 रेखाद्वयो-अ; 10 [ ] एतच्चिह्नान्तर्गतः पाठः अबपुस्तकयो स्ति / 11 कम्पाकम्पादिविरोधस्तु संविद्विरोधो व्युदयनीय इति केचित्-कं। 12 एत्त्वमा इति-ह. लि. पुस्तके /