________________ 316 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली तत्र देशकालव्यवहितानामर्थानां सामर्थ्यम्, अविद्यमानत्वात् / नन्वेवं 'चित्रप्रत्ययोऽपि न स्याज्जा नस्यैकत्वे तदव्यतिरेकिणामप्येकत्वप्रसङ्गात्, प्रत्याकारं च ज्ञानभेदे ज्ञानानां प्रत्येकं स्वाकारमात्रनियतत्वात्, तेभ्यो 'व्यतिरिक्तस्य च सर्वाकारग्राहकस्याभावात् / [132] अत्र ब्रूमः- न तावच्चित्रं रूपं न प्रकाशते ? संवित्तिविरोधात् / जडस्य च प्रकाशायोगः। तेनेदं 'ज्ञानात्मकमेकमेव रूपम्, न चाकार भेदाज ज्ञानभेदः, चित्ररूपस्यैकस्याकारभेदाभावात् / यथा 'नीलस्यैकस्यैको नीलस्वभाव आकार , तथा [टि०] [132] योगाचारः समाधत्ते अत्र ब्रूम इति / नन्वेकत्रव ज्ञाने स्थूले 'कम्पाकम्पादिविरोधः इत्याह कम्पाकम्पादीति / बाह्ये तु स्थूले नैवं कम्पाकम्पादिविरोधव्युदासः / तस्य सद्भावे यदनेकवृत्तीत्यादिबाधकोदयात् / केचिद् योगाचाराः अपरे तु माध्यमिकाः / येयमलीकता तदेव तत्त्वम् / [पं०] वदन्तीति (कं. 126.20) योगाचार: सौत्रान्तिकान् प्रति / तस्या इति / (कं. 126.29) अर्थबुद्धेः / तस्या इत्यस्माच्च पुरः साकारस्य इति शेषः / ततश्च तस्याः साकारत्वे किं कारणमिति वाक्यं सिद्धां तिनः / अर्थस्य (कं. 126.21) परमाणुरूपस्य / कार्यवैचित्र्येणेति (कं. 126.21) घटादि वैचित्र्येण / 'दृष्टस्येति (कं. 126.22) स्वासंवेद्यत्वात् / समनन्तरप्रत्ययस्येति (कं. 126.22) समो ज्ञानेन अव्यवहितत्वेन चानन्तर: प्रत्यय उत्तरज्ञानोत्पादकारणं पूर्वक्षणः समनन्तरप्रत्य समनन्तरप्रत्ययः, तस्य समनन्तरप्रत्ययस्य। एवमिति (कं. 126.24) समनन्तरप्रत्ययस्यैव शक्तिवैचित्र्यकल्पनायाम् / नत्वेकमेकाकारं किं वाऽनेकमेकाकारम् / तत्राद्येऽत्राह ज्ञानस्यैकत्वे इत्यादि (कं. 126.25) / द्वितीये प्रत्यादि (कं. 126.26) / [132] अत्र ब्रूम इति (कं. 127.1) वयं योगाचाराः / जडस्य चेति (कं. 127.2) रूपं हि सर्व जडम् / इदमिति (कं. 127.2) चित्रं रूपम् / तस्मिन्निति (कं. 127.4) चित्रे आकारे / “अवयवीत्वेकः स्थूलो वा नोपपद्यते [0] प्रकाशतामवल(म्ब्य) विज्ञानार्थयोरभेदे सहोपलम्भनियमो हेतुः उक्तः / इदानीं तामेवावलम्ब्याह (अ)"न्यतर(मिति) / अत्रवहि तथेति (कं. 126.9) / "वेद्यत्वमभेदेन व्याप्यत इति (कं. 126.13) एतेनेति (कं. 126.14) साकारविज्ञानवादिनो व्यासार्थसाधनमाशङ्कय परिहरति नन्वेवमिति (कं. 126.25) / किमयं "चित्र-प्रत्ययः प्रत्याकारं न भिद्यते वेति विकल्प्य क्रमेण दूषयति ज्ञानस्यैकत्व इति (कं. 126.25) / / [132] यदि वा न प्रवर्तत एवेति (कं. 127.5) नोत्पद्यत एवेत्यर्थः। न हि स्वयंप्रकाशवादे उत्पन्नस्य ज्ञानस्य आत्मभूते आकारे अप्रवृत्तिर्नाम / नन्वेवं तहि नीलपीतादय आकाराः चित्रप्रत्यये न सन्त्येत्याशङ्कयाङ्गीकारेण 1 विचित्र-कं. 1; कं. 2 / 2 स्यैकत्वेन -कं. 1, कं.२। 3 व्यतिरिक्तस्य सर्वाकार - कं. 1; कं. 2 / 4 ज्ञानात्मकमेव-कं. 1, कं. 2 / 5 भेदेन-कं. 1, कं. 2 / 6 नीलस्यैको-कं. 1, कं. 2 / 7 कम्पादिविरोध -अ%; 8 नैव - अ, ब, क; 9 दृश्यस्य - कं। 10 नमुयव्यवयवी एकः स्थूलो नेपपते न्यूनावयववृत्तित्वेन इति पञ्जिकायामशुद्धः पाठः - सं.। 11 पाठोऽयं कं. इत्यत्र नास्ति / 12 वेद्यस्य वदनसदित्याप्यदिति इति पाठः ह. लि. पुस्तके अशुद्धो भाति-सं। 13 विचित्र इति कंपुस्तके /