________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् 315 ___ न्यायकन्दली ननु बाह्याभावे येयं 'नीलाद्याकारा बुद्धिरुदेति तस्याः किं कारणम् ? यथोक्तम् अर्थबुद्धिस्तदाकारा सा त्वाकारविशेषणा। सा बाह्यादन्यतो वेति विचारमिममर्हति // अत्रापि वदन्ति-बाह्य'सद्भावे तस्याः किं कारणम् ? नीलादिरर्थ इति चेत् ? न तावदयं दृश्यतेऽर्थस्य सदातीन्द्रियत्वात् / कार्यवैचित्र्येण कल्पनीयश्चेत् ? दृश्यस्य समनन्तरप्रत्ययस्यैव शक्तिवैचित्र्यं कल्प्यताम्, येन स्वप्नज्ञानेऽप्यारवैचित्र्यं घटते, नहि [टि०] विज्ञानवाद्येवानुमानान्तरमाह 'यद्येन वेदनेन इतिः-यदिति ग्राह्यम् / विपक्षे बाधकमाह भेदे हि ज्ञानेन इति / वेद्यत्वाभावमेव स्पष्टयति तादात्म्यस्य इत्यादि / भेदाभ्युपगमे हि तादात्म्यासम्भवात् एवं मेवे सति सम्बग्धाभावेन वेद्यत्वाभावं प्रासाध्य वेद्यत्वाभेदयोर्व्याप्ति दृढयति भेदे नियमहेतोः इति / इदमस्य ग्राहकमिदमस्य ग्राह्यमिति नियमकारेण सम्बन्धेन वेद्यत्वं व्याप्तम् / ततो ग्राह्यगाहकयोर्भेदाभ्युपगमे सति स '[सम्बन्धो निराकृत इति व्यापकस्य] सम्बन्धस्यानपलब्ध्या वेद्यत्वं व्याप्यमपि भेदाद व्याबत्त्याऽभेदेऽवतिष्ठत इत्यर्थः / ननु घटमहं गलामीत्यत्र वेद्यवेदकविसीनां भेदस्य प्रत्यक्षेणोप लम्भादभेदसाधनं कालात्ययापदिष्ट मित्याह यश्चायं ग्राह्यग्राहकेति :- भ्रान्तत्व चेदानीमेव बाह्यार्थस्य युक्त्या बाधितत्वात् / नन विचनाविज्ञाने तिमिरादिदोषाद् भ्रान्तत्वं, नीलादिशाने तु कथमित्याह 'तत्राप्यनादिः इति / अद्वये इति-म विद्यते द्वयं द्वित्वं यत्र सत्यचन्ने / अत्रापि वदन्ति इति - "योगाचाराः सौत्रान्तिकान् प्रति वदन्तीति / "दृष्टस्य इति :-"दृष्टः स्वसंवेद्यस्वात् / नन्वेकमेवानेकाकारं किंवाऽनेकमेका कारम ? तत्राद्ये प्राह ज्ञानस्यकत्वे इति / द्वितीये प्राह "प्रत्याकारं च इति / [पं०] ग्राह्यब्राहकसमितीनामिति (कं. 126.15) घटमहं गृह्णामीत्येवंरूपाणां ज्ञानानाम् / तत्रापीति (कं. 126.16) नौलादिज्ञाने। "अद्वये इति (कं. 126.16) द्वित्वरहिते सत्ये [क] इत्यर्थः / अर्थबुद्धिरिति (कं. 126.18) नौलादिज्ञानम् / तदाकारेति (कं. 126.18) सदाकारा सती / “स्वाकारविशेषिणीति (कं. 126.18) स्वाकारात् [चं] द्रानाकाम् व्यतिरेकिणा। बाह्यादिति (कं. 126.19) घटादेः / अग्यत इति (कं. 126.19) समनन्तरप्रत्ययात् / [क०] कदाचित्सहोपलम्भदर्शनात्तद्--व्यवच्छित्तये नियमपदोपादानम् / तथा च कादाचित्कस्य सहोपलम्भस्य हेत्वाच्च व्यर्थविशेषणं स्यादित्यत आह तयोरसौ नियत एवेति (कं. 126.5) व्यभिचारे हि विशेषणमर्थवन्नाचकारकादाचित्कत्वयोः सोस्तीत्यर्थः / तदेतदाह "तयोः प्रत्येकमिति (कं. 126.5) / मुख्यवृत्त्याऽनिष्टमाशङ्कय गौणवृत्त्या परिहरति न चेति (कं. 126.7) / सामर्थ्यसम्भवादिति (कं. 126.9) सामध्यं वासनाविशेषः / एवं ज्ञानस्य स्वयं 1 नीलाद्याकारवती-कं. 1; कं. 2 / 2 चाकार-जे. 3 / 3 सद्भावेऽपि-कं. 1; कं. 2 / 4 येन वेदमेन-म् / 5 सम्बन्धत्वाभावेन-अ, ब, क; 6 [ ] एतच्चिह्नान्तर्गतः पाठः उपुस्तके नास्ति / 7 लम्भादसाधनं-भ, ब; 8 मित्याह तत्राप्यनादिरिति यश्चायं - अ; 9 तथाऽत्राप्यनादि:- म. (1) पा. टि.। 10 योचाराः-भ; 11 दृश्यस्य - मु. 12 दृष्टि - अ, ब; 13 काकार:- अ, ब, क। 14 प्राकारं - अ, ब; 15 द्वये - कं / 16 सा त्वाकारविशेषणा-कं। 17 क्षणयोः-कं /