________________ न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली अपचन्नपि पाचको यथा, तथा यद्वद्यते येन वेदनेन तत्ततो न भिद्यते, यथात्मा ज्ञानस्य, वेद्यन्ते च नीलादयः। भेदे हि ज्ञानेनास्य वेद्यत्वं न स्यात, तादात्म्यस्य नियमहेतोरभावात्, तदुत्पत्तेरनियामकत्वात् / अन्येनान्यस्यासम्बद्धस्य वेद्यत्वे चातिप्रसङ्गादिति भेदे नियमहेतोः सम्बन्धस्य व्यापकस्यानुपलब्ध्या भेदाद्विपक्षाद् व्यावर्तमानं वेद्यत्वमभेदेन व्याप्यत इति हेतोः 'प्रतिबन्धसिद्धिरिति / एतेनाहमित्याकारस्यापि ज्ञानादभेदः सथितः / यश्चायं ग्राह्यग्राहकसंवित्तीनां पृथगवभासः स एकस्मिश्चन्द्रमसि द्वित्वावभास इव भ्रमः / तत्राप्यनादिरविच्छिन्नप्रवाहाभेदवासनव निमित्तम् / यथोक्तम् 'भेदश्चभ्रान्तविज्ञाने दृश्येतेन्दाविवाद्वये" इति / [टि०] इति :- सर्वज्ञ'ज्ञानक्षण उपलम्भकोऽस्मदादि ज्ञानक्षणश्च यो ग्राह्यस्तयोः सहोपलम्भानन्तरं विनाशानियतः सहापलम्भोऽस्त्येव / एवं नीलपीतादिक्षणेष्वपि समानम् / नन रूपेण सह द्रव्यस्य नियमेनोपलम्भो वैशेषिकैरभ्युपगम्यते "[न त्वभेद इति व्याप्तिरन्यतरा सिद्धा? नैवम् तरपि 'बुद्धेर्बुद्धयन्तरेण सहोत्पादानभ्युपगमात् द्रव्यगुणयोः सहोपलम्भानभ्युपगमात् ] / [पं०] युगपदुपलभते स्वसंविदितत्त्वात् सर्वज्ञज्ञानक्षणस्वरूपमिव सर्वानपि अस्मदादि ज्ञानक्षणात् युगपज्जानातीति अर्थः / "सार्वज्ञयादिति (कं. 126.4) सार्वज्ञाचित्तक्षणात् / अनियमादिति (कं. 126.4) नियमो हि तदा स्यात् यदेकदा सहोपलम्भो दृष्ट: पुनरन्यदा दृश्यते न चैवम्, क्षणिकत्वात् सर्व [ज्ञ] ज्ञानस्येतरज्ञानेन सह कथंचि [दभेदात् कथंचिद् भेदाच्च / एतदेवोपपादयन्नाह क्षणाभिप्रायेणेत्यादिना (कं. 126.5) / असौ इति (कं. 126.5) अभेदः / नियत एवेति (कं. 126.5) सर्वज्ञज्ञानक्षण उपलम्भको अस्मदादि[रि]ति ज्ञानक्षणश्च यो ग्राहस्तयोः सहोपलम्भानन्तरं विनाशानियतः सहोपलम्भोऽस्य ; एवं नीलपीतादिक्षणेष्वपि समानम् "क्षणयोरिति (कं. 126.5) ग्राह्यग्राहकक्षणयोः / "पुनरनुपलम्भादिति (कं. 126.6) विनष्टत्वेन / / ___ विज्ञानवाद्येवानुमानान्तरमाह तथा यद्वद्यते इत्यादि (कं. 126.9) / आत्मेति (कं. 126.10) स्वरूपम् / अस्येति (कं. 126.11) अर्थस्य / तादात्म्यस्य नियमहेतोरभावादिति (कं. 126.11) भेदाभ्युपगमे तादात्म्यासम्भवादित्याशयः। नियमहेतोरिति इदमस्य ग्राहकमिदमस्य ग्राह्यमिति नियमः / सम्बन्धस्येति (कं. 126 13) "तादात्म्यस्य / एतेनाहमित्याका[२] स्यापि ज्ञानादभेदः समर्थित इति (कं. 126.14) न पुनरात्माऽस्तीत्याशयः / [कु०] भाभिमानिकस्येति (कं. 126.1) प्रतीतिमात्रमेव साधनाङ्गं न प्रमितिरिति भावः / ननु च पक्षे सहभावस्याभिमानिकत्वे साधनविकलो दृष्टान्त इत्यत आह दृष्टान्त इति (कं. 126.2) / अन्यथा सर्वेषां सर्वज्ञत्वप्रसङ्गादिति भावः / ना नियमादिति (कं. 126.4) अनियमो नाम कादाचिस्कपृथगुपलम्भनिषेधाय इत्यर्थः / ननु कादाचित्कत्वसहोपलम्भ एब हेत्वर्थः अस्माद्विवक्षित इत्यत आह क्षणाभिप्रायेणेति ( कं. 126.5 ) / इह नीलपीतयोरपि 1 प्रतिबन्धसिद्धि:-जे. 1 जे. 2 / 2 अनाद्यविच्छिन्न-जे. 3 / ' 3 भेदश्चाभ्रान्तिविज्ञाने दश्येतेन्दाविव द्वये / 4, 5 ज्ञानलक्षण - अ, ब; 6 विनाशानियत:-अ, ब, क; 7[ एतच्चिह्नान्तर्गतः पाठः डपूस्तके नास्ति / 8 सिद्धि - अ, ब; 9 युद्धेर्बुद्धघन्तरेण-ब; 10 सार्वज्ञयज्ञानाभेदः - कं। 11 क्षणिक्योः -पं। 12 पुनरुपलम्भात् - पं। 13 एते तादात्म्पस्य इत्यधिक पञ्जिकायामत्र बायते निरर्थकत्वान्न स्थापितम /