________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् 313 न्यायकन्दली भेदेन व्याप्तत्वाद्विरुद्ध इति वाच्यम्, आभिमानिकस्य सहभावस्य हेतुविशेषणत्वेनोपादानात् दृष्टान्ते द्विचन्द्रे आभिमानिकः सहभावो न तात्त्विकः, चन्द्रस्यैकत्वात् / सार्वज्यवित्तक्षणः स्वेनात्मना सह सर्वान् प्राणिनो युगप'दुपलभते / न च तेषां 'सर्वज्ञादभेद इत्यनैकान्तिकत्वमिति चेत् ? न, अनियमात् / क्षणाभिप्रायेण तावद्ययोः सहोपलम्भस्तयोरसौ नियत एव, 'क्षणिकयोः प्रत्येकं 'पुनरनुपलम्भात् / किन्तु स न विवक्षितः सन्तानाभिप्रायेण 'सहोपलम्भनियमो हेत्वर्थः / न च सर्वज्ञसन्तानस्य चित्तान्तरसन्तानेन सह युगपदुपलम्भोऽस्ति, सर्वज्ञस्य कदाचित् स्वात्ममात्रप्रतिष्ठस्यापि सम्भवात् / न च तदानीमयम सर्वज्ञः, सर्वज्ञानसामर्थ्यसम्भवात् / [टि०] लब्धिः / 'व्यापकानुपलब्धिमेव] स्फुटयति भेदस्य हि इत्यादि। प्रतिषेधस्य ज्ञानार्थयोर्भेदस्य "व्यापकः सहोपलम्भानियम: "[तस्य विरुद्धः सहोपलम्भनियमः] तस्योपलब्धिः, तया / सहशब्दस्य इति :-सहाथों हि तुल्ययोगो विद्यमानता च। तत्र "तुल्ययोगे यत्रैकस्य प्राधान्यमपरस्य गौणत्वं तत्र साहाय्यं यथा देवदत्तेन सहागतः। यत्र तु द्वयोरपि प्राधान्यं तत्र यौगपद्यं यथा चत्रमैत्री"सहायातौ। सर्वान प्राणिन इति अस्मदादिविज्ञानक्षणान् / "क्षणिक्योः [पं०] व्यापकानुपलब्धिः / तामेव स्फुटयति भेदस्य होत्यादि (कं. 125.23) गद्येन / प्रतिषेध्यस्य ज्ञानार्थयोर्भेदस्य व्यापक: सहोपलम्भानियमः, "तस्य विरुद्धः सहोपलम्भानियमः, तस्य विरुद्धः सहोपलम्भनियमः, तस्योपलब्धिः तयोः / शेषं गद्यं सुगमम् / "न वरं प्रतिबन्धसिद्धिरिति (कं. 125.26) अन्वयसिद्धिः सहशब्दस्य साहाय्यं योगपद्यं वार्थः (कं. 125.26) इति / साहाय्यं यथा पुत्रेण सहागतः / यौगपद्यं यथा चैत्रमैत्री सहायातौ / आभिमानिकस्येति (कं. 126.1) यतो न पारमाथिकोऽस्ति अर्थः किन्तु ज्ञानमेवकम / अतः सहभावस्यानकस्मितिष् ? त्वादेकस्मिन्नसो .आभिमानिक एवेति भावना। सार्वज्ञयश्चित्तक्षण स्वेनात्मना सह सर्वान प्राणिनो युगपदपलभते इति (कं. 126.3) सार्वज्ञयश्चित्तक्षणः इति ज्ञानक्षण: कर्ता / स्वेनात्मना सहेति स्वरूपेण सह / सर्वान अपि इति अस्मदादिज्ञानक्ष [कु०] "तथा चेति (क. 125.22) / व्यतिरेकसाधकस्य सहोपलम्भस्य व्याप्ति साधयति भेदस्य हीति (कं. 125.23) / सह शब्दस्येति (कं. 125.26) साहाय्ये 'सह' शब्दो यथा महानद्या सह कुल्या समुद्रमुपसर्पतीति योगपद्ये सह शब्दे यथा पुत्रेण सह भक्त इति / 1 दुपलभ्यते-कं. 1; कं. 2 / 2 सार्वज्ञज्ञानाभेद-कं. 1, कं. 2 / 3 क्षणयोः - कं. 1, कं. 2 / 4 पुनरनुपलम्भाभावात् -जे. 1: जे.२। 5 सहोपलम्भनियमः-कं. 1; कं.२। 6 तदानीमसर्वज्ञः-कं.१; कं. 2 / 7 सर्वज्ञात् - कं, 1; कं. 2 / 8 [ ] एतच्चिह्नान्तर्गतः पाठः अपुस्तके नास्ति / 9 'हि' अपुस्तके नास्ति - जे. 1, जे. 3 इत्यत्रास्ति / 10 व्यापक-अ, ब, क; 11 [ ] एतचिह्नान्तर्गतः पाठः अब पुस्तकयोन 12 तु-अ; 13 तुल्ययोगे-अ, ब, 14 सहायतो-अ, ब; 15 क्षणयो:-म, किन्तु क्षणिकयोः इति -जे. 1, जे. 3, इत्यत्र; 16 तस्य विरुद्धः सहोपलम्भानियमः - इति पुनरावृत्तं भाति - सं। 17 'न वरं' इति मुद्रितकन्दल्या नास्ति - सं। 18 तथा च-कं / 19 हि कन्दल्यां नास्ति / 40