________________ 312 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली न तत्स्वयमप्रकाशमानमप्रकाशस्वभावं विषयमपि प्रकाशयेत् / यदव्यक्तप्रकाशं तदव्यक्तम्, यथा कुड्यादिव्यवहितं वस्तु, अव्यक्तप्रकाशश्च परस्य बाह्योऽर्थः। तथा यत्परस्य प्रकाशकं तत्स्वप्रकाशे सजातीयपरानपेक्षम्, यथा प्रदीपः, प्रकाशकं च परस्य ज्ञानमिति / अतः प्रकाशमानस्यैव बोधस्य विषयप्रकाशकत्वमिति न्यायादनपेतम् / तथा सति सहोपलम्भनियमात् 'सच्चन्द्रासच्चन्द्रयोरिव वेद्यवेदकयोरभेदः, भेदस्य हि सहोपलम्भानियमो व्यापको नीलपीतयोर्युगपदुपलम्भनियमाभावात् / सहोपलम्भानियमविरुद्धश्च सहोपलम्भनियम इति व्यापकविरुद्धोपलब्ध्या भेदादनियमव्याप्त्या व्यावर्तमानो नियमोऽभेदे व्यवतिष्ठत इति प्रतिबन्धसिद्धिः / न च 'सह' शब्दस्य साहाय्यं योगपद्यं वार्थः, तयोश्च [ठि०] एवं विज्ञप्तिसिद्धौ बाह्य ('वस्त्वभाव)वादी केवलविज्ञानवादी योगाचारः प्रथमं विषयं ततो ज्ञानं पक्षीकृत्या'नुमानयति यदव्यक्तप्रकाशम् इत्यादिः / अव्यक्तोऽस्वसंवेदनरूप: प्रकाशो ज्ञानं यस्य ग्राह्यस्य / यद्विषयं ज्ञानं स्वसंवेदनं न भवति सोऽर्थोऽप्रत्यक्ष इति भावः / 'कुड्यादिव्यवहिते वस्तुनि प्रतिभासस्यैवाभावादव्यक्तप्रकाशत्वम् / परस्य इति ज्ञानासंवेदनतावादिनो वैशेषिकस्य इत्यर्थः / "वैभाषिकादीनां तु स्वसंवेदनस्य सिद्धत्वात् / एवं स्वसंवेदनासिद्धौ ‘बाह्यार्थेन ज्ञानस्याभेदं साधयति तथा सति इति - यद्येन सह नियमेनोपलभ्यते "तत्ततो न भिद्यते यथा सच्चन्द्रादसच्चन्द्रः / नियमेनोपलभ्यते "च ज्ञानेन सहार्थ इति व्यापकानुपलब्धिः / १४व्यापकानप [पं०] (कं. 125.17) घट इत्याकारस्य / प्रकाशकमिति (कं. 125.18) ज्ञानम् / न तत्स्वयमप्रकाशमानमप्रकाशस्वभावं विषयमपि प्रकाशयेदिति (कं. 125.18) वैशेषिकाणां ज्ञानस्यासंवेदितत्वात् न, तेन स्वयमप्रकाशमानेन स्विभावो विषयोऽपि प्रकाश्यते यथा जडरूपो घटो ब(ज)डरूपेण घटान्तरेणेत्यर्थः / यदव्यक्तप्रकाशं तदव्यक्तमिति (कं. 125.18) यस्य वस्तुनः स्वप्रकाशकाले प्रकाशकं ज्ञानं न प्रकाशते तदव्यक्तप्रकाशमित्यर्थः अव्यक्तोऽस्वसंवेदनरूपः प्रकाशो ज्ञानं यस्य ग्राह्यस्य / यद्विषय विज्ञानं स्वसंवेदनं न भवति सोऽर्थोऽप्रत्यक्ष इति भावः / यथा कुड्यादिव्यवहितं वस्त्विति (कं. 125.19) दृष्टान्तः / अत्र प्रकाशस्यैवाभावादव्यक्तप्रकाशत्वं परस्येति (कं. 125.19) वैशेषिकस्य यत्परस्य प्रकाशकं तत्स्वप्रकाशे सजातीयपरानपेक्षमिति (कं. 125.20) वैशेषिकाणां हि ईश्वरज्ञानादन्यदन्यज्ज्ञानं ज्ञानान्तरवेद्यमित्यभिप्रायः / परस्येति (कं. 125.21) ज्ञानास्वसवेदनतावत्र] दिनो वैशेषिकस्य / ज्ञानस्य स्वसंवेदनतासाधिता। अथ बाह्यार्थेन ज्ञानस्याभेदं साधयति तथा सतीत्यादिना (कं. 125.22) सन्दर्भण। यदयेन सह नियमेनोपलभ्यते तत्ततो न भिद्यते [य]था सच्चन्द्रादसच्चन्द्रः / नियमेनोपलभ्यते च सह अर्थ इति [कु.] ज्ञानस्य विषयविभवात्प्रकाशत इत्याशङ्कय दूषयति अथेति (कं. 125.17) / तत्रानुपलम्भप्रसङ्गमाह यदव्यक्तप्रकाशमिति (कं. 125.18) / प्रसङ्गविपर्ययमाह तथेति (कं. 125.20) / चक्षुराद्यपेक्षप्रकाशमानोऽपि विपक्षो माभूदित्युक्तं सजातीयेति (कं. 125.20) / अस्तु ज्ञान स्वयंप्रकाशे अर्थस्य तदव्यतिरेके किमायातमत आह 1 सर्वज्ञासर्वज्ञयोरिव- कं. 1; कं. 2 / 2 भेदस्य-कं. 1; कं. 2 / 3 वस्तुभाव-अ, ब, क; 4 मानयन्ति-ड; 5 विज्ञानं-ड; 6 कुडयादिहिते-अ, 7 वैभाक्षिकादौनां-ड; 8 एव-ड; 9 बाह्यर्थेन-अ, ब; 10 तत्तेन-अ; 11 'च' अबकपुस्तकेषु नास्ति / 12 [ ] एतचिह्नान्तर्गतः पाठः अपुस्तके नास्ति /