________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् न्यायकन्दली किञ्च, तदानीं बोधाकारः सदृशमर्थं कारणं कल्पयति, यदि यादृशो बोधाकारस्तादश एवार्थस्तस्य कारणमित्यवगतम् / न चार्थस्यासंवेद्यत्वे तथा प्रतीतिः संभवति, हेतुत्वसादृश्ययोविनिश्चयस्योभयग्रहणाधीनत्वादिति नाकारादर्थसिद्धिः / तदेवं न हेतुत्वं ग्राह्यलक्षणं नाप्याकारार्पणक्षमस्य हेतुत्वम्, तस्माद् ग्राह्यलक्षणाभावाद् बुद्धेरन्योऽनुभाव्यो नास्तीति साधूक्तम् / इतोऽपि बद्धिव्यतिरिक्तोऽर्थो नास्ति, यद्यसौ जडो न स्वयं प्रकाशेत / 'न च तस्य प्रकाशकान्तरमुपलभामहे, सर्वदैवैकस्यैवाकारस्योपलम्भात् / अथास्ति प्रकाशम् , [टि०] एवमुभयमतं निराकृत्य योगाचारः स्वयं पूर्वोवतं ग्राह्यलक्षणाभावादित्येतत्क्रमेण वैभाषिकं सौत्रान्तिकं च प्रति व्यवस्थापयन्नुपसंहरति तदेवं न हेतुत्वम् इत्यादि। यो हेतूः स ग्राह्य इति-वैभाषिकप्रतिपादितग्राह्यलक्षणमतीतानागतार्थग्रहणादव्यापकम् / [इन्द्रियसमनन्तर प्रत्ययाभ्याम [ति ] व्यापकम् / ] सौत्रान्तिकाभिमतमाकारार्पणक्षणस्य सतो यद्हेतुत्वं तद्ग्राह्यलक्षणमित्येतदपि 'न, अर्थस्याप्रत्यक्षत्वेन ज्ञानार्थकारयोः कार्यकारणभावानवधारणादर्थस्याप्रामाण्यप्रसङ्गात् / सर्वदेवेकस्य इति एकस्य घट इत्याकारस्य / न तत्स्वयम् इति तेन स्वयमप्रकाशमानेनाप्रकाशस्वभावो 'विषयोऽपि न प्रकाश्येत यथा घटो जडरूपेण परान्तरेणेत्यर्थः / [40] कि च तदानीमित्यत्र (कं. 125.11) गद्ये काक्वाख्या / इत्यवगतमिति (कं. 125 12) अस्मात्पुरः स्यादिति क्रियाऽध्याहार्या / न चार्थस्यासंवेद्यत्वे तथाप्रतीतिः सम्भवतीति (कं. 125.12) यदि हि अर्थः संवेद्यः स्यात्तदा कल्प्येत यत् अयं बोधाकारोऽस्यार्थस्य सवशोऽयं वाऽनेन जनित इति, न चैवम् अर्थस्य प्रत्यक्षत्वादिति वाक्यार्थः / तथा प्रतीतिरिति कारणप्रतीतिः सदशप्रतीतिश्च / हेतत्बसादश्ययोविनिश्चयस्योभयग्रहणाधीनत्वादिति (कं. 125.13) यदा वह्निधूमयोर्द्वयोरपि ग्रहणं भवति तदैवायमस्य कारणम्, अयमस्य सदृश इति ज्ञायते ततश्चानु ना(मा) नं प्रवर्तते न चैवं प्रकृतेऽर्थे [त] स्याप्रत्यक्षत्वादित्यर्थः / अन्योनुभाव्यो नास्तीति साधूक्तमिति (कं. 125.15) नान्योनुभावो(व्यो) बुद्धयास्ति तस्यानानुभावो (व्यो)ऽपरः ग्राह्यग्राहकवैधुर्यात्स्वयं सैव प्रकाशते इत्येतत् सुष्ठुक्तमित्यर्थः / - इतोऽपीति (कं. 125.16 / वक्ष्यमाणादपि हेतोः / असौ इति (कं. 125.16) अर्थः / प्रकाशकान्तर (कं. 125.17) मिन्यस्य स्थाने प्रकाशान्तरमिति पाठः क्वचिदृश्यते तत्र ज्ञानान्तरमित्यर्थः / एकस्यैवाकारस्येति [कु०]बुद्धिव्यतिरेकोऽर्थस्य सदातनो वा कादाचित्को वा नाद्य इत्याह यद्यसावपि [इति] (कं. 125.16) / स्वयं प्रकाशे जडत्वव्याघातादिति भावः / न द्वितीय इत्याह न चेति (कं. 125.16) / सर्वदेति (कं. 125.17) प्रतीयमानप्रकाशात्मकत्वव्यतिरेकेण कादाचित्कत्वस्य जडत्त्वस्यानुपलम्भादित्यर्थः / ननु सर्वदा जडोऽपि प्रकाशात्मकस्य 1 एवाकारस्य - कं. 1; कं. 2 / 2 न चैतस्य-जे. 1; जे. 2 / 3 [ ] एतच्चिह्नान्तर्गतः पाठः डपुस्तके नास्ति / 4 प्रत्ययभ्योमभ्या एक-अ, प्रत्ययाभ्यामभ्या एकं-ब; 5 रपण-अ%; 6 'न' इति अबकपुस्तकेषु नास्ति / 7 सर्वदेतकस्येति - अ, ब; 8 न तश्चयमिति - अ; 9 विषयेत न-अ, ब;