________________ न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली विकल्पोऽप्यसमर्थं एव, कारणाभावात् / ज्ञानाकारः स्वसदृशं कारणं व्यवस्थापयन्नर्थसिद्धौ प्रमाणमिति चेत् ? तत्किमिदानी स्थूलाकारस्य समर्पकोऽप्यर्थो बहिरस्ति ? का गतिरस्य वचनस्य-- तस्मानार्थेन विज्ञाने स्थूलाभासस्तदात्मनः / एकत्र प्रतिषिद्धत्वाद्बहुष्वपि न सम्भवः // इति / अथायमनर्थजः ? कुतश्चिनिमित्तात् कदाचिद्भवति, असन्नेव वा प्रतीयते, तद्वदितराकारोऽपि भविष्यति, असन्नेव वा प्रत्येष्यते, न चाकारवादे ज्ञानाकाराणां भ्रान्ताभ्रान्तत्वविवेकः सुगम इति निरूपितप्रायम् / [टि०] तदेव दर्शयति तस्मान्नार्थेन इति / तस्मादिति अवयविवादोक्तदूषणोपसंहारः। उभयत्राप्याधारसप्तमी / एकत्र परमाणौ स्थूलात्मता तावन्नास्ति [ततो बहुष्वपि नास्ति / यथैकत्र नीले पीताकारप्रतिभासाभावे बहष्वपि नीलेषु न पीतप्रतिभासः / अथायम् इति :-अयं ज्ञानस्य स्थूलाकारः, 'इतराकारो नीलाद्याकारः / निरूपितप्रायम् इति - अस्यैव सङ्ख्याप्रकरणस्यादौ निरूपितम्, अर्थस्य परोक्षत्वात् / हेतुत्वसादृश्ययोः इति :- यदा वह्निधूमयोर्द्वयोरपि ग्रहणं भवति तदैवायमस्य कारणमयमस्य सदृश इति ज्ञायते, ततश्चानुमानं प्रवर्तते, न चैवं प्रकृते अर्थस्याप्रत्यक्षत्वात् / [पं०] शब्दार्थयोरविद्यमानत्वाद्वाच्यवाचकभावपरिकल्पनमुत्प्रेक्षा। स्वव्यापारमिति (कं. 125.3) निर्विकल्पकव्यापारम् / कारणाभावादिति (कं. 125.5) विकल्पस्य हि प्रत्यक्षप्रवृत्तिकारणम् / तत्किमिदानी स्थूलाकारस्य समर्पकोऽप्यर्थो बहिरस्तीति (कं. 125.6) [बा] ह्यो? ऽर्थः न च "भवताऽपीष्येते स्वलक्षणमात्राङ्गीकारादित्यर्थः / बहिरस्तीत्यस्माच्च पुरो यद्यस्ति त_त्यध्याहार्यम् / अस्य वचनस्येति (कं. 125.7) अग्रेतनकारिकारूपस्य धर्मकीर्तिवचस: तदात्मन इति / एकत्र प्रतिषिद्धत्वादिति (कं. 125.8) अनेन सम्बन्धः / तदात्मन इति स्थूलात्मकतायाः / एकत्रेति परमाणौ / / बहुष्वपोति(क. 125.8) परमाणुषु / परवाक्यम्-अथायमित्यादि (कं. 125.8) अत्र ज्ञानस्य स्थूलाकारः / कुतश्चिन्निमित्तादिति (कं. 125.8) वासनामात्रात् / सूरिराह तद्वदितराकारोपीति (कं. 125.9) नीला ...... (नीलाद्याकारोपीति पाठः) / न चाकारवादे ज्ञानाकाराणां भ्रान्ताभ्रान्तत्वविवेका सुगम इति (कं. 125.10) स्थूलं भ्रान्तं नीलादि चाभ्रान्तमिति विवेको दुर्घट: स्यादुभयत्राप्याकारस्य भावादित्यर्थः / इति निरूपितप्रायमिति (कं. 125:11) सङ्खयाप्रकरणस्यादौ निरूपितम् / 'अर्थस्य परोक्षत्वादिति / कु०] किञ्चेति (कं. 125.11) इह कल्पनं तावदनुमानं तच्च सम्बन्धग्रहणाधीनम्, सम्बन्धग्रहणं चं 'सबन्धग्रहणाधीनमिति भावः / एवं परकीयस्य ग्राह्यलक्षणस्य दूषणमुपसंहरन् स्वमतं साधयितुमुपक्रमते तदेवमिति (कं. 125.14) / 1 तस्मान्नर्थेन -अ। 2 [ ] एतच्चिह्नान्तर्गत: पाठः अबपुस्तकयो स्ति। 3 इतराद्याकारो -अ, ब, क; 4 कारणमस्य - अ, ब, 5 भावतीपीप्यते-पञ्जिका-सं। 6 प्रतीकमिदं कं.१, कं. 2 पुस्तकयो स्ति / 7 पुनरावर्तितमिदं भाति-सं।