________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटोकात्रयोपेतम् 309 न्यायकन्दली संवेद्यते, नेन्द्रियादिकमित्यकारणमाकारः / नहि छिदिक्रिया वृक्षाकारवती येनेयं 'वृक्षण सह सम्बद्धयते न कुठारेण, किन्त्वस्या वृक्षस्य च तादृशः स्वभावो यदियमत्रैव नियम्यत नान्यत्र। अस्येदं संवेदनमिति च 'व्यवस्था तत्रास्य तदवभासमात्रनिबन्धनैवेति तदर्थमायाकारो न मृग्यः। ____ अथ साकारेण ज्ञानेनार्थो न संवेद्यत एव, किन्तु स्वाकारमात्रम् / तदर्थसद्भावो निष्प्रमाणको न तावदर्थस्य ग्रहणम्, न चाध्यवसायः विकल्पो 'ह्यध्यवस्यति, स चोत्प्रेक्षामात्रव्यापारो भवन्नपि प्रत्यक्षपृष्ठभावित्वाद्यत्र प्रत्यक्षं प्रवृत्तं तत्र स्वव्यापारं परित्यज्य कारणव्यापारमुपाददानो वस्तु साक्षात्करोति / यत्र तु प्रत्यक्षमेवाप्रवृत्तं तत्र [टि०] त्वात्सोऽपि ग्राह्यः स्यादिति भावः / एतावता ग्रन्थेन किमर्थो गृह्येत किमुतोभयमिति विकल्पद्वयं निराकृत्य किं वा आकार इति तृतीयं विकल्पं योगाचारो निराचष्टे अथ साकारेण इति / विकल्पो ह्यध्यवस्यति इति :-अध्यवसायरूपो भवतीत्यर्थः / स च इति शब्दार्थयोरविद्यमान'वाच्यवाचकभावपरिकल्पनमत्प्रेक्षा। स्वव्यापारमत्प्रेक्षारूपं कारणव्यापारदर्शनरूपम् / स्थूलाकारस्य बाह्यस्याभ्युपगमे दोषमाह का गतिरस्य वचनस्य इति :- अस्येति वक्ष्यमाणस्य / पिं०] तयोर्ग्राह्यत्वापत्तिरित्याशयः / समानविषयस्य समनन्तरप्रत्ययस्य ग्रहणप्रसङ्गादिति (कं. 124.17) यथा उत्तरो नीलक्षणविषय उत्तरज्ञाने असा धारणं स्वं नीलाकारं समर्पयन ग्राह्यः स्यात्तथा पूर्वज्ञानस्वरूप: समनन्तरप्रत्ययोऽपि असाधारणस्वाकारसमर्पकत्वाद् ग्राह्यः स्यादित्यर्थः / परवाक्यं यो विज्ञान (कं. 124.18) इत्यादि। य इति घटादिः / तदुत्त्पत्ताविति (कं. 124.20) ज्ञाने नीलाद्याकारोत्पत्तौ / बोधाकारोत्पत्तावेवेति (कं. 124.21) न नीलाद्याकारोत्पत्ताविति भावः / नीलाद्याकारसमर्पको ग्राह्य इति (कं. 124.21) अर्थ एव ज्ञानस्य ग्राह्य इत्यर्थः / परवाक्यं नान्यस्ये(कं. १२४.२२)त्यादि / तस्यैवेति (कं. 124.22) नीलादिकस्यैव / श्रीधरः योगाचारमुखेन प्राह = एवं चेत् 'स्वभावनियमोऽस्तिति (स्वभावनियमादेव नियमोऽस्त्विति) (कं. 124.23) किं तदाकारतयेति भावः / नेन्द्रियादिकमिति (कं. 124.25) अत्रादिशब्दा[त्] समनन्तरप्रत्ययो गृह्यते / न च वाच्यं तदाकारता मन्तरेण प्रतिनियमो न स्यादिति यतश्छिदिक्रिया तदाकारतां . विनापि वक्षेणैव सह सम्बध्यते न कुठारेण / ततो यथाऽत्र प्रतिनियमस्तथा ज्ञानेऽपि स्वभावादेवासी भविष्यतीत्याह न हि छिदिक्रियेत्यादिना (कं. 124.25) तदवभासमात्रनिबन्धनैवेति (कं. 124.28) यस्यार्थस्यावभासो भवति तस्येदमिति संवेदनमित्यर्थः / ___. ज्ञानेन स्वाकारोऽनुभूयत इति द्वितीयं विकल्पं प्रति [ब]न्धयन्नाह योगाचारमुखेन श्रीधरः अथ साकारेणेत्यादिना (कं. 124.28) / अर्थस्येति (कं. 125.2) रिगिरित्रायमाणपरमाणुलक्षणस्य / ग्रहणमिति (कं. 125.2) निर्विकल्पकेन / न चाध्यवसाय इति (कं. 125.2) विकल्पेनार्थस्य / उत्प्रेक्षामात्रव्यापार इति (कं, 125.2) 1 वृक्षण सम्बध्यत-जे. 1; जे. 2 / 2 व्यवस्था तदवभासमात्र-कं. 1; कं. 2 / 3 वशिष्यते- कं. 1; कं. 2 / 4 ह्यविशेष्यते-मु. ह्यध्यवसति-जे. 1, जे. 3 / 5 वास्य-अ, ब / 6 स्वभावनियमादेव नियमोऽस्तु-कं, अयमेव पाठः साधीयान् / 7 मन्तरेणमन्तरेण पञ्जिकायाम् ‘मन्तरेण' पुनरावृत्तं भाति /