________________ 308 प्यायकन्दलीसंवलितप्रशस्तपावभाष्यम् न्यायकन्दली नील ने नीलाकारस्य संभवात् / यश्चासाधारणो धर्मः स एव नियामक इत्येतावता विशेण ज्ञानमथं गृह्णाति नेन्द्रियसमनन्तरप्रत्ययाविति / तदप्यसारम्, समानविषयस्य सम न्तरप्रत्ययस्य ग्रहणप्रसङ्गात् / / यो विज्ञाने नीलाद्याकारमर्पयति स एव तस्य ग्राह्यः, न च धारावाहिकविज्ञाने स नन्तरप्रत्ययान्नीलाद्याकारस्योत्पत्तिः, 'किन्त्वर्थादर्थस्यैव, तदुत्पत्तावन्वयव्यतिरेकाभ्यां सर्वत्र सामोपलब्धेोधाकारोत्पत्तावेव बोधस्य सामर्थ्यावगमादिति चेत् ? 'नीलाद्याकारसमर्पको ग्राह्य इति कस्येयमाज्ञा? नान्यस्य कस्यचित्, तस्यैव तु ग्राह्यत्वस्वभावनियमो नियामकः / एवं चेत् स्वभावनियमादेव नियमोऽस्तु, ज्ञानं हि 'स्वसामग्री प्रतिनियमात् प्रतिनियतार्थसंवेदनात्मकमेवोपजायते। अर्थोऽपि संवेद्यस्वभावनियमादेव [टि०] गृह्यते न पुनरिन्द्रियं समनन्तरप्रत्ययश्चेत्यर्थः / समान विषयस्य इति :-धारावाहिक विज्ञानेषु समनन्तरप्रत्ययस्य तत्कार्यस्योत्तरज्ञानस्य सन्तानाभिप्रायेण तदेकनीलविषयत्वात् समनन्तरप्रत्ययस्य कार्यज्ञानेन 'सह समान विषयत्वम् / यथा च 'पूर्वनीलक्षणेन उत्तरो नीलक्षणो जन्यते तथा तदाकारेण पूर्वज्ञानेनोत्तरो ज्ञानक्षणो जन्यते / ततश्च यथोत्तरो नीलो विषय उत्तरज्ञानेऽसाधारणं स्वं नीलमाकारमर्पयति तथा समनन्तरप्रत्ययोऽपि इत्यसाधारणस्वाकारसम्पर्क[पं०] न युक्त इत्यालोच्याह = तस्य तदग्राह्यत्वादिति (कं. 124.4) तस्य ज्ञानसहभाविनः क्षणस्य तेन ज्ञानेनाग्राह्यत्वादि अर्थः (दित्यर्थः) / न हि तयोरस्ति तादात्म्यमिति (कं 124.5) न खलु भिन्नकालभाविनोस्तादात्म्यमिति भावः / तदुत्पत्तिश्च न व्यवस्थाहेतुरित्युक्तमिति (कं. 124.5) विषयवत् इन्द्रियादेरपि तथाभावप्रसङ्गोऽतीतानागतार्थविषयस्य च योगिज्ञानस्योत्पादप्रसङ्ग इत्युक्तं तदाकारतेति (कं. 124.6) अर्थसारूप्यम् / नीलक्षण इति (कं. 124.7) बाह्यः / नीलान्तरमिति (कं. 124.7) बाह्यम् / सर्वेषामिति (कं. 124.8) देशकालान्तरभाविनाम। स्यादिति (कं. 124.9) प्राप्नोति / स्वोत्पादकस्येति (कं. 124.1) ज्ञानोत्पादकस्य / इन्द्रियसमनन्तरप्रत्यययोरिति (कं. 124.10) समो ज्ञानव्यवहितत्वेन चानन्तरः प्रत्यय उत्तरज्ञानोत्पादककारणं पूर्वक्षणः समनन्त रप्रत्ययः इन्द्रियसमनन्तरप्रत्ययश्च इन्द्रियसमनन्तरप्रत्ययौ तयोरिति विग्रहः / विषयग्रहणप्रतिनियममिति (कं. 124.11) इन्द्रियं प्रति / बोधात्मकत्वमिति (कं. 124.13) समनन्तरप्रत्ययं प्रति। सर्वज्ञानसाधारणमिति (कं. 124.14) नीले पीते च तुल्यम् / नेन्द्रियसमनन्तरप्रत्ययादिति (कं. 124.17) ज्ञानं "कर्तृ (कर्तृ)इन्द्रियसमनन्तरप्रत्ययो तयोरिति गृह्णाति / अतः [कु०] द्वितीयमुपत्यस्य दूषयति ("अंति) तत्र विकल्पोऽसमर्थ एवेति (कं. 125.5) / उत्प्रेक्षा विषयादन्यत्रेति शेषः / अर्थो ज्ञानेन मा ग्राहि गृहीतस्त्वाकार: कल्पयिष्यत इत्याशङ्कय दूषयति ज्ञानाकार इति (कं. 125.5) / किमिदानीमिति (कं. 125.6) आकारानुसारिवाक्यार्थकल्पने स्थलाकारस्यापि कल्पना प्रसज्यते तच्चानिष्टमित्यर्थः / बहुष्विति (कं. 125.8) अवयविनोऽनङ्गीकारादिति शेषः। 'सुनिरूपितप्रायम् इति (कं. 125.11) एकादिव्यवहारहेतुरिति भाष्यव्याख्यानावसर इति शेषः / 1 किन्त्वर्थादस्यैव-कं. 1; कं. 2 / 2 नीलाकारस्य-जे. 1; जे. 2 / 3 स्वसामग्री प्रतिनियतार्थ-कं. 1; कं. 2 / 4 विषयश्च-ड। 5 विज्ञानेप्यसम-अ, ब / 6 ज्ञानेन समविषय-अ; ज्ञानेन समविषयत्वं- / 7 पूर्वनीलक्षणो जन्यते-अ,ब,। 8 स्वनील-अ, ब / 9 स्वाकारमर्पकत्वात् -अ,ब। 10 'कर्त'पदं पुनरावृत्तमिव भाति-सं / 11 कम्दल्यां नास्ति / 12 निरूपितप्रायम्-कं /