________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् 307 न्यायकन्दली हेतुर्यद्विज्ञानं नियतमर्थ बोधयति न सर्वम् ? नहि तयोरस्ति तादात्म्यम्, तदुत्पत्तिश्च न व्यवस्थाहेतुरित्युक्तम् / तदाकारता नियमहेतुरिति चेत् ? किमित्येको नीलक्षणः समानाकारं नीलान्तरं न गृह्णाति ? ग्राहकत्वं ज्ञानस्यैव स्वभावो नार्थस्येति चेत् ? तथाप्येकं 'नीलविज्ञानं सर्वेषां नीलक्षणानां ग्राहकं स्यात्, तदाकारत्वाविशेषात् / तदुत्पत्तिसारूप्याभ्यां स्वोत्पादकस्यैवार्थक्षणस्य ग्राह्यता न सर्वेषामिति चेत् / इन्द्रियसमनन्तरप्रत्यययोरपि ग्राह्यतापत्तिः / ताभ्यामपि हि ज्ञानमुत्पद्यते, बिति च तयोर्यथास्वं विषयग्रहणप्रतिनियमं 'बोधात्मकत्वं च सारूप्यम् / अथ मतं यदेतद्विषयग्रहणप्रतिनियतत्वमिन्द्रियसारूप्यं विज्ञानस्य, यदपि समनन्तरप्रत्ययसारूप्यं बोधात्मकत्वम्, तदुभयमपि सर्वज्ञानसाधारणम्, असाधारणं तु विषयसारूप्यम्, 'विज्ञानस्य नीलजे एव [टि०] बुद्धिमनुप्रविशता सा बुद्धिः स्वरूपसम्पर्केणार्थेन संयोज्यत इत्यर्थः योगाचारेण सौत्रान्तिकं दूषयति :- अत्रोच्यते इत्यादि / तस्य तद्ग्राह्यत्वाद् इति :-तस्य ज्ञानसहभाबिनो नीलादिक्षणस्य तेन पूर्वनीलक्षणविषयिणा ज्ञानेनाग्राह्यत्वात / तत्पतिश्च न इति-विषयवदिन्द्रियादेरपि तथा भावप्रसङ्गोऽतीतानागतार्थविषयस्य च योगिज्ञानस्यानुत्पाद प्रसङ्ग इत्युक्तम् / / “अत्र सौत्रान्तिकपरिहारमाशयति अथ मतं यदेतद इत्यादि :- ज्ञानत्वेन समोऽव्यवधानादनन्तरः स चासो प्रत्ययश्च समनन्तर 'प्रत्ययय उत्तरज्ञानोत्पादकारणं पूर्वज्ञानक्षण उच्यते / एतावता विशेषेण इति :- ज्ञानेनार्थ एव [पं०] च घटयेत् संयोजयेदित्यर्थः / सारूप्येणार्थीकारेण पुनस्तां बुद्धिमनुप्रविशता सा बुद्धि: स्वरूप समर्पकेणार्थेन संयोज्यत इति यावत् / योगाचारेण सौत्रान्तिकं दूषयन्नाह अत्रोच्यते इति (कं. 123.26) / अल्पवक्तव्यत्वात् तृतीयं विकल्पं प्रागेव निराकृवंन्नाह न तावदभयमित्यादिना (कं. 123.27) / प्रथमं विकल्पं निराकूर्वन्नाह अर्थस्येत्यादिना (कं. 124.1) / तस्य स्वरूपसत्ताकाले "ज्ञानस्या[नुत्पादादिति (कं. 124.2) अर्थेन ज्ञानम् / यदा च ज्ञानमुत्पन्नं .तदार्थोनीतः कार्यकारणयोः पूर्वापरकालभावित्वादिति / भावना नाकारण विषय इति वचनात् ज्ञानकारणभूत _एवार्थो ज्ञानेऽवभावसते नान्यो ज्ञानसहभाविनश्वार्थक्षणस्य ज्ञानं प्रत्यकारणत्वात् / "ज्ञानेन (ज्ञानेन) अवभासो ? [कु०] प्रसङ्ग इति / तस्य तदग्राह्यत्वादिति (कं. 124.4) उत्पाद्यज्ञानं तत्र स्वाकारमर्पयतो ग्राह्यत्वाङ्गीकारात्सहभुवश्चानुत्पादकत्वादाकारानपं (प) कत्वाच्चेति भावः / साकारविज्ञानवादिनाप्याकारार्पकस्यैवोत्पादकस्य विज्ञानेन ग्रहणमित्यत्र नियमे स्वभाव एव कारणं वक्तव्यमिति परिशेषयितुं सम्भाविनः "पक्षानुमन्यस्य दूषयति कश्चात्रे (कं. 124.4) त्यादिना कस्येय"मीक्षे (कं. १२४.२१)त्यन्तेन / परिशेषिते पक्षे दूष[ण] माह एवं चेदिति (कं. 124.22) / अकारण]माकार इति (कं. 124.24) स्वभावादेव विषयविषयिभावसिद्धावाकारो निष्प्रमाणक इत्यथं दृष्टान्तेन दृढयति म हि छिदिक्रियेति (कं. 124.24) / 1 नीलज्ञानं-कं. 1, कं.२। 2 सर्वेषामिति -कं. 1, कं. 2 / 3 बोधात्मक-कं. 1; कं.२। 4 नीलजे एव नीलज्ञाने-कं. 1; कं. 2 / 5 नीलादिलक्षणस्य-क, नीलादिलक्षणस्थेन पूर्वनील-अ, ब; 6 च अबकपुस्तकेषु नास्ति / 7 प्रसङ्गात्-अ; 8 असौत्रान्तिक-अ; 9 प्रय-अ, ब; 10 अतःपराणि षट्पत्राणि बपुस्तके नष्टानि / 11 ज्ञानानुत्पादाद् - कं। 12 ज्ञानेन ज्ञाने न इति पुनरावृत्तं भाति - सं। 13 पक्षे हेतु-इति सम्भवेत् - सं. / 14 माज्ञा-कं।