________________ 306 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली अर्थेन घटयत्येनां नहि मुक्त्वार्थरूपताम् / तस्मात् प्रमेयाधिगतेः प्रमाणं मेयरूपता // [131] 'अपरत्र चोक्तम्-नहि वित्तिसत्तैव तद्वेदना युक्ता, तस्याः सर्वत्राविशेषात् / तां तु सारूप्यमाविशत् सरूपयन्तं घटयेदिति / अत्रोच्यते-साकारेण ज्ञानेन किमर्थोऽनुभयते? किं वा स्वाकारः ? किमुतोभयम् ? न तावदुभयम्, नीलमेतदित्येकस्यैवाकारस्य सर्वदा संवेदनात् / अर्थस्य च ज्ञानेनानुभवो न युक्तः, तस्य स्वरूपसत्ताकाले ज्ञानानुत्पादाज्ज्ञानकाले चातीतस्य 'वर्तमानतयावभासायोगात् / ज्ञानसहभाविनः क्षणस्यायं वर्तमानतावभास इति स्वसिद्धान्तश्रद्धालुसेयम्, तस्य तदग्राह्यत्वात् / कश्चात्र [टि०] 'अर्थेन घटयति इति :- अर्थरूपतामर्थकारमुक्त्वा 'अन्यो नैनां बुद्धिमर्थेन संयोजयति किन्तु अर्थरूपतव योजयतीति भावः / ___ [131] नहि वित्तीति :- वित्तिसत्ता सद्रूपं ज्ञानमित्यर्थः। तस्याः सर्वत्र इति :- नीलादौ पीतादौ च वित्तेर्ज्ञानस्य तुल्यत्वात् नीलवेदनं पीतवेदनमित्यादि विशेषो न स्यादिति भावः / सारूप्येणार्थीकारेण 'पुनःस्तां [पं०] अर्थेन घटयत्येनमित्यादिकः श्लोक: (कं. 123.22) व्याख्या - अर्थरूपतामुक्त्वाऽर्थाकारं मुक्त्वाऽन्यः कश्चिदेना प्रमेयाधिगति -प्रमेयबद्धि नार्थेन संयोजयति कि त्वर्थरूपतवेति भावः / तस्मात्प्रमेयाधिगते: प्रमेयबुद्धेः प्रमाणम् / किम् ? सिद्धो मेर्थरूपताऽर्थाकार एव / अयमत्रभावः = यदाज्ञानमर्थाकारं भवति तदाऽर्थो मया ज्ञात इति निश्चयो भवति यथा घटाकारं ज्ञानम् / तस्माद् बहिर्घटेन भवितव्यमिति श्लोकार्थः / [131] वित्तिसत्तेति (कं. 123.25) “सद्रूपं ज्ञानम् / तदनेति (कं. 123.25) अर्थवेदना। सर्व [त्रा]विशेषाविति (कं. 123.26) नीलादौ पीतादौ च वित्तेः सर्वत्र तुल्यत्वादित्यर्थः / तां तु सारूप्यमादिशत् 'सरूपयन्तं घटयेदिति (कं. 123.26) सारूप्यं तु कर्तृभतं तां वित्तिसत्तां सरूपयन्तं स्वसदृशं ज्ञानं जनयन्तं घटादिकमर्थं [कु०] न च तदुत्पत्तेरिति (कं. 123.16) सा च दूषितेति भावः / सरूपयति ज्ञानमिति (कं. 123.17) ज्ञाने स्वाकारमर्पयतीत्यर्थः / ननु ज्ञानस्य स्वाकारत्वे किं प्रमाणं यदर्पको विषयः स्यादित्यत आह अवश्यं चेति (कं. 123.17) / विषयनियमान्यथानुपपत्त्या आकार: कल्पनीय इत्यर्थः / / एनां बुद्धिमर्थरूपतामर्थात्मकतां मुक्त्वा नह्यन्यदर्थेन घटयतीत्यर्थः। प्रमेयाधिगतेः प्रमाणं (कं. 123.23) कारणमित्यर्थः / किमर्थ इति (कं. 123.26) अर्थमात्र इत्यर्थः / [131] एकस्यैवाकारस्ये (कं. 124.1) त्युपलक्षणं द्वयोरसंवेदनादित्यर्थः / आनन्तर्याच्चरम दूषयित्वाऽऽद्यं दूषयति अर्थस्येति (कं. 124.1) / स्वसिद्धान्तेति (कं. 124.4) अतीतविषयस्य वस्त्वन्तरवर्तमानताग्रहणेऽति 1 अपरं चोक्तम - जे. 1, जे. 2 / 2 सरूपयितुं-कं. 1, कं. 2 / 3 वर्तमानता-कं. 1, कं. 2 / 4 अर्थत - अ, ड; 5 भन्येनैनां-अ, ब; 6 नीलवेदनमित्यादि विशेषो... अ; 7 पुनम्नां -अ, ब; 8 तद् - ब / 9 सरूपयितुं - कं; सरूपायत - पा. 1 पु.।