________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् न्यायकन्दली कारणे पृष्टे तदेवोत्तरमुच्यत इति सर्वोत्तरधि'यामिदं परिस्फुरति / 'नियतार्थग्राहितापि ज्ञानस्य स्वभाव इति चेत् ? स पुनरस्य स्वभावो यदि निर्हेतुको नियमो न प्राप्नोति / अथ 'कारणवशात् ? तदेवोच्यतां किं स्वभावपरिघोषणया, न च तत्तदुत्पत्तेरन्यत् / पश्यामः / अथोच्यते यदुत्पादयति सरूपयति च ज्ञानम्, तदस्य ग्राह्यं नेतरत् / अवश्यं चार्याकारो 'ज्ञानेऽपर्येषितव्यः, अन्यथा निराकारस्य बोधमात्रस्य सर्वार्थं प्रत्यविशेषाद नोलस्येदं पोतस्येदमिति व्यवस्थानुपपत्तौ ततोऽर्थविशेषप्रतीत्यभावात् / अत एव विषयाकारं प्रमाणमाहुः / स 'चासाधारणो ज्ञानमर्थविशेषेण सह घटयति, न साधारणमिन्द्रियादिकम् / तदुक्तम्-- [पं०] ज्ञानं नियमेदित्यर्थः (नियमयेद्)। अर्थजत्वाघटनां दर्शयति न चातीतानागतयोरित्यादि (कं. 123.10) / योगि प्रमुखाणां ह्यतीतानागतार्थदर्शनस्याङ्गीकृतत्वादिति वाक्यतात्पर्यार्थः / प्रतिनियम इति (कं. 123.13) “[प्रतिनियमविषय[:] / सर्वोत्तरधियामिति (कं. 123.14) सर्वेभ्य उत्तरा प्रकृष्टा धीर्येषामितित्युपहसति नियम इति (कं. 123.15)1 प्रतिनियतत्वम् / तदेवेति (कं. 123.15) कारणमेव / न च तदुत्पत्तेरन्यत्पश्याम इति (कं. 123.16) ज्ञानस्यार्थादुत्पन्नत्वमेव नियतार्थग्राहितास्वभावहेतुर्नान्य इत्यर्थः / ... एवं वैभाषिकमत योगाचारेण दूषयित्वा विषयाप्रत्यक्षतावादिनं ग्राह्याका [र] ज्ञानप्रत्यक्षतावादिनं सौत्रान्तिकं योगाचारादूषयिष्यन्नाशङ्कयति अथोच्यत (कं. 123.16) / यदुत्पादयति सरूपयति च ज्ञानं तदस्य ग्राह्यं नेतरदिति (कं. 123.17) यद्वस्तु घटादिकर्तृज्ञानं कर्मतापन्नमुत्पादयति स्वसमानरूपं च करोति तद् घटादि अस्य ज्ञानस्य ग्राचं नान्यत् / यदुत्पादकं तदाकाराप्र्पकं च तद्ग्राह्यमित्यर्थः / येन ग्राह्येण ज्ञानं स्वरूपं स्वाकारसहितमुत्पद्यते तदस्य ज्ञा स्य 'ग्राह्यमिति यावत् / इह च क्षणभेदाभावादुत्पादनं सरूपीकरणं च एकक्षण एव ज्ञेयम् / तत इति (कं. 123 :9) बोधमात्रात् / स इति (कं. 123.20) आकारः / साधारणमिति (कं. 123.21) नीलपीतयोः साम' यम् / इन्द्रियादिकमिति (क. 123.21) = कर्तृभूतम् / [कु०] किञ्च अपोहस्यापि ग्राह्यलक्षणं वक्तव्यं तदभावे विकल्पस्य तद्विषयतापि न स्यात्तदभावेऽनुमानप्र तरपि न स्यादित्याशयेनाह न चातीतानागतयोरिति (कं. 123.10) / नियतार्थेति (कं. 123.13) न च यं या ग्राहक भावनियमहेतुतया विषयविषयिभावं ब्रमहे (तु) किन्तु स्वभावतया नोक्तदूषणावसर इति भावः / नियमो नाप्नोति (कं 123.15) [इति] अस्यैव ग्राहकमित्यसाधारण्यं प्राप्नोति अहेतुकस्य वयष्णत्वादेः सर्वसाधारणत्वदर्शनादित्यर्थः / 1 धियां परिस्फुरति - कं. 1: कं. 2 / 2 नियतार्थावग्राहिताऽपि - कं. 1; कं.२। 3 कारणवात्-जे. 1; जे. 2 / 4 तदुत्पत्ते-कं. 1; कं. 2 / 5 सरूपयति ज्ञानम्-कं.१; कं.२। 6 ज्ञानेऽप्येषितव्य:-कं. 1; कं.२। 7 सह्यासाधारणो- जे. 1, जे. 2 / 8 [ ] एतच्चिह्नान्तर्गतो पाठः बपुस्तके नास्ति / 9 क्षणभेदाभावाद्द्विरावृत्तं लेखकप्रमादवशात् -सं /