________________ 304 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली मेवार्थस्य ग्राह्यतेति चेत् ? अन्यस्य स्वरूपसंवेदनमन्यस्य ग्राह्यतेत्यतिचित्रमेतत् / न चित्रम्, स्वभावस्यापर्यनुयोज्यत्वात् / अर्थावग्रहस्वभावं हि विज्ञानम् / तेनास्य स्वरूपसंवेदन'मेवार्थस्य ग्रहणं भवति / 'यदर्थ चेदं तस्यैवायमवग्रहो न सर्वस्येति नातिप्रसक्तिः। न, 'एकत्वात् / अर्थजत्वं नाम ज्ञानस्यार्थादुत्पत्तिः। 'सा चैका। न ज्ञानार्थयोरुभयोर्धर्मो भवतुिमर्हति / अनेकवृत्तित्वेन नानात्वापातात् यदि तु ज्ञानस्य धर्मो . नार्थ नियमयेत् / अथार्थस्य न ज्ञानम् अन्यधर्मत्वात्, उभयनियमाच्च तयोः 'परस्परग्राह्यग्राहकभावव्यवस्था नैकसम्बन्धिनियमात् / न चातीतानागतयोरर्थयोर्ज्ञानं प्रत्यस्ति 'कारकत्वम्, असत्त्वात् / विषयविषयिभावनियमाद् ग्राह्यग्राहक भावनियम इति चेन्न, अभेदात् / ग्राह्यत्वमेव विषयत्वम्, 'ग्राहकत्वं च विषयित्वम्, तयोः प्रतिनियमे एव. [टि०] एवं वैभाषिकमतं योगाचारेण दुषयित्वा विषयाप्रत्यक्षतावादिनं ग्राझाकारज्ञानप्रत्यक्षतावादिनं सौत्रान्तिकं योगाचाराद् दूषयिष्यन् आशङ्कयति अयोच्यते इत्यादि / येन ग्राह्येण ज्ञानं "स्वसरूपं स्वाकारसहितमुत्पाद्यते तदस्य ज्ञानस्य ग्राह्यमित्यर्थः, न तु पूर्वमेकत्रक्षणे ज्ञानमर्थे "नोत्पद्यते ततो द्वितीयक्षणे स्वरूपं क्रियते क्षणभेदाभावात् / "सह्यसाधारण इति :-आकारेण ह्यसाधारणेन ज्ञानमर्थ"विशेषेण योज्यते, न तु साधारणेनेन्द्रियादिकेनेत्यर्थः / [पं०] न साद्विषयः / अस्येति (कं. 123.3) अर्थस्य / अन्यस्य स्वरूपसंवेदनमन्यस्य [मिति] (कं 123.5) भन्यस्य पसंवेदनम न्यस्य] अर्थस्य ग्राह्यता। परः प्राह न चित्रमित्यादि (कं. 123.5) अस्य स्वरूपसंवेदन सेवार्थस्य ग्रहणं भवतीति ज्ञानस्य ह्येतदेव-स्वरूपं यदर्थग्रहणं ततो यदस्य स्वरूपसंवेदनं तदेवार्थग्रहणमिति भावः / यदर्थनमिति (कं. 123.7) यस्यासो अर्थ (स्य)(स्स)यदर्थो व(य)दर्थाज्जातं यदर्थन मिति समासः / मूलपक्षवादी सूरिराह "नैकत्वादि (कं. 123.8) त्यादि। "न ज्ञानार्थयोसमयोधर्मेति भवितुमर्हतीति (कं. 123.9) यस्योत्पत्तिस्तस्यैव सो धर्म इत्यर्थः / यदि तु ज्ञानस्य धर्म इत्यस्मात् "पुनस्तदेत्यध्याहार्यम् / अथार्थस्य न ज्ञानमिति यदि अर्थस्य धर्मस्तदा न [कु०] हेतुत्वमानं वा तदितरत् किमपि वेति चेव)वचनीयममिति भावः / तत्राद्यं दूषयति ज्ञानमिति (कं. 123.3) / द्वितीयमाशङ्कय दूषयति ज्ञानस्येति (कं. 123.4) / चित्रमिति (कं. 123.5) अतिप्रसङ्गादिति भावः / अथ विग्रहस्वभावं होति (कं. 123.6) अर्थनियतस्वरूपमित्यर्थः / यदर्थजं चेति (कं. 123.7) हेतुत्वेन नियतं तदीय ग्राह्यलक्षणमित्यर्थः / अनेकवृत्तित्वेनेति पदेन [ए] कवृत्तित्वं नाना यथानेकभाजनगतानि तालफलानीति भावः / 1 मेवान्यस्य - कं.१ कं. 2 / 2 संवेदनमर्थस्य -जे.१, जे. 2 / 3 यदर्थ त्वियं--जे. 2 / 4 नैकार्थत्वात -कं. 1; कं. 2 / 5 सा चैका न च ज्ञानार्थयोधर्म इति नार्थ-कं. 1; कं. 2 / 6 परस्परं-जे. 1, जे. 2 / 7 कारणत्वम् - कं. 1; कं. 2 / 8 ग्राह्य ग्राहकभाव इति-जे.१, जे.२। 9 ग्राहकत्वमेव - कं. 1, कं.२ / 10 स्वरूपं -अ, ब, 11 नोत्पाद्यते-अ. ब; 12 स चा-मु. सह्य-जे. 1, जे. 3; 13 विशेषण - अ, ब; 14 न एकार्थत्वात्-कं; नैकत्वात-पा. 2. पु.। 15 न च ज्ञानार्थयोद्धर्म-कं। 16 पुरस्तात्तत्-ब /