________________ टिप्पणपञ्जिकाकुसुमोद्गमाविटीकात्रयोपेतम् 303 न्यायकन्दली च न ज्ञानयोर्युगपदुत्पादोऽस्ति, नाप्यविनश्यतोः सहावस्थानमेकस्योत्पादे द्वितीयस्य विनश्यद्रूपत्वादित्याह-न होति / 'इति' शब्दः समाप्ति कथयति / [130] अयि भोः सर्वमिदमुत्पत्त्यादिनिरूपणं द्वित्वस्यानुपपन्नम्, तत्सद्भावे प्रमाणाभावात् / द्वे इति ज्ञानं प्रमाणमिति चेत् ? न, ग्राह्यलक्षणाभावात् / तथा ह्यर्थो ज्ञानग्राह्यो भवन्नु'त्पन्नो अनुत्पन्नो वा? उभयथाप्यनुपपत्तिरनुत्पन्नस्यासत्वात्, उत्पन्नस्य च स्थित्य भावात् / अतीत एवार्थो ज्ञानग्राह्यस्तज्जनकत्वादिति चेत् ? न, वर्तमानतावभासविरोधादिन्द्रियस्यापि ग्राह्यत्वप्रसङ्गाच्च / ईदृश एवार्थस्य स्वकारणसामग्री कृतः स्वभावो येा जनकत्वाविशेषेऽप्ययमेव ग्राह्यो नेन्द्रियादिकम्, तदनन्तरक्षणविषयश्च वर्तमानतावभास इति चेत् ? कि पुनरिदमस्य ग्राह्यत्वम् ? ज्ञानं प्रति हेतुत्वमिति चेत् ? पुनरपोन्द्रियस्य ग्राह्यत्वमापतितम्, हेतुत्वमात्रस्य तत्राप्यविशेषात् / ज्ञानस्य स्वसंवेदन[टि०] [13)] ग्रन्धकारो हि प्रथमं वैभाषिक मतं तत सौत्रान्तिकमतं योगाचारेण दूषयित्वा ततः स्वयं योगाचारमपि निराकरिष्यमाणः प्रथम बाह्यार्थप्रत्यक्षवादिनं वैभाषिकं निराकरिष्यन योगाचारमुत्थापयति अपि भोः सर्वम् इत्यादि / अर्थजत्वाघटनां च दर्शयति न चातीतानागतयोः इति :- योगिप्रमुखाणां ह्यतीता नागतार्थदर्शनस्याप्यङ्गी'कृतत्वात् / न च तदुत्पत्तेरन्यद् इति :- ज्ञानस्यार्थादुत्पन्नत्वमेव नियतार्थग्राहिता स्वभावहेतुर्नान्य इत्यर्थः / [पं०] [130] अथ ग्रंथकारः प्रथमं वैभाषिकमतं ततः सौत्रान्तिकमत योगाचारेण दूषयित्वा तत: स्वयं योगाचार. मपि निराकरिष्यमाणः प्रथमं बाह्यार्थप्रत्यक्षतावादिनं वैभाषिकं निराकरिष्यन योगाचारमत्थापयति अपि भो सर्वमिदमित्यादिः (कं. 122.23) स्थित्यभावाविति (कं. 122.26) क्षणिकत्वेन (व?) वर्तमानतावभासविरोधादिति (कं. 122.27) नीलं पश्यामीति यो ज्ञाने वर्तमानतावभासः स विरुध्यते / इन्द्रियस्यापि ग्राह्यत्वप्रसङ्गाच्चेति . (कं. 122.27.) तस्यापि ज्ञानजनकत्वादिति भावः / वैभाषिकमतमानिक्त वैशेषिको योगाचारं प्रत्याह ईदश एवेति (कं. 122.27) त्यादि / अयमेवेति (कं. 123.1) अर्थ एव / 'नेन्द्रियादिकमिति (कं. 123.2) / तदनन्तरक्षणविषय इति (कं. 123.2) तस्माद् व्यतीतात् ज्ञानजनकादर्थक्षणात् समनन्तरं योऽसावर्थक्षणो ज्ञानसमानकाली [कु.] [130] तत्र विज्ञानवादिनः साध्यविकलो दृष्टान्त इति प्रत्यवतिष्ठन्त इत्याह ‘अयि भो इति (कं. 122.23) / ननु ग्रहणेऽवभासमानत्वमेव ग्राह्यलक्षणं भवत्वित्यत आह तथाहीति (कं. 122.24) / इह तावत् सविकल्पकत्वं ? कल्पितविषयत्वं सम्प्रतिपन्नम् अतो निर्विकल्पकमवशिष्यते तत्र विकल्पयति अर्थो ज्ञानग्राह्य इति (कं. 122.24) / उत्पन्नस्येति (कं. 122.26) क्षणभङ्गीकारान् सहोत्पादमात्रेण विषयत्वेऽतिप्रसङ्गाच्चेति शेषः / अती[त][]ति (कं. 122.26) [त] त्रावभासमानत्वं तत्कालवतित्वमप्रयोजकत्वमिति भावः / तदनन्तरे समानकालवतिविषयतया वर्तमानावभासस्य क्वचिदभाव इति भावः / कि 'पुनरस्येति (कं. 123.2) अस्त्विदं स्वाभाविक ग्राह्यत्वं तत्कि 1 नृत्पन्नो भवति-कं. 1; कं.२। 2 वर्तमानावभास-जे. 2 / 3 तः-अ, 4 गाचारमपि-अ 5 नागतादर्शन-अ, ब; 6 कृतवात् -अ, ब, क; 7 प्रतीकमिदं पञ्जिकाकारेण म व्याख्यातं लेखकदोषवशादा म्याख्या भ्रष्टा तन्न ज्ञायते। 8 अपि-कं। 9 पुनरिदमस्य-कं /