________________ 302 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली ज्ञानस्यानुत्पाद इति वध्यघातकपक्षेऽपि तुल्यो दोषः। समाधत्ते - न, समूहज्ञानस्य संस्कारहेतुत्वादिति / 'संस्कारावपेक्षाबुद्धेविनाश इत्येतन्न, कुतः समूहज्ञानस्य संस्कारहेतुत्वात् / एतदेव विवृणोति-समूह इत्यादिना / समूहज्ञानं द्वित्वगुणविशिष्टद्रव्यज्ञानमेव संस्कारं करोति, नालोचनज्ञानम्, न निर्विकल्पमपेक्षाज्ञानम्, अतो नास्य संस्काराद्विनाश इत्यर्थः / अपेक्षाज्ञानस्य संस्काराहेतुत्वे द्रव्यविवेकेनैकगुणयोः स्मरणं प्रमाणम्, गुणविशिष्टद्रव्यज्ञानस्य तद्धेतुत्वे 'च विशिष्टद्वग्यस्मरणं प्रमाणम् / यदि ज्ञानमुत्पद्य पूर्वोत्पन्नं ज्ञानं विनाशयति 'तदैकस्मिन क्षणे तयोः सहावस्थानं प्राप्नोति, ततश्च जौनायोगपद्यादिति सूत्रविरोध इति केनचिदुक्तं तदाशते - ज्ञानयोगपद्यप्रसङ्ग इति चेत् ? स्यान्मतमित्यादिना। अस्य विवरणं करोति-नन्वित्यादिना / समाधत्ते-नेति / एकस्मिन् क्षणे विनाश्यविनाशकज्ञानयोः सहावस्थानं न दोषाय, ज्ञानायौगपद्यादिति सूत्रेणाविनश्यतोरवस्थानप्रतिषेधात् / एतदेव दर्शयति - ज्ञानायौगपद्यवचनेन युगपदुत्पत्तिरविनश्यतोश्च युगपदवस्थानं प्रतिषिध्यत इति / वध्यघातकपक्ष [टि०] ज्ञानं संस्कारजनकं न भवति, कदाचिदपि स्मरणाजनकत्वात सम्प्रतिपन्ननिर्विकल्पकज्ञानवदिति / जनकत्वं च पार्यम्पर्येणेति 'नासिद्धता / 'यत्त स्मरणं तदेकगणविशिष्टद्रव्यज्ञान जमितसंस्कारकृतं द्रव्यम्यतिरिक्तस्यैकगुणस्यास्मरणात् / [पं०] नालोचनाज्ञानमिति (कं. 122.11) यदुक्तं तद्विवृणोति न निर्विकल्पकमपेक्षाज्ञानमिति (कं. 122.11) / अस्यायमर्थः - एकत्वसामान्यविशिष्टकगुणालम्बनत्वेन सविकल्पकमप्यपेक्षाज्ञानं संस्काराजनकरवेन निर्विकल्पकमच्यते / इदं च संस्कारं करोति, तत्कार्यस्य द्रव्यं विना केवलस्यैकगुणस्मरणस्थाभावात् / द्रध्यविवेकेनेति (फ. 122.13) 'द्रव्याद्वयतिरेकेण / एकगुणयोरिति (कं. 122.13) एकाख्यसङ्ख्ययोः / तद्धेतुत्वे इति (कं. 122.13) संस्कारहेतुत्वे / तयोः सहावस्थानं प्राप्नोतीति (कं. 122.15) सत एव विनश्यत्वात् / [कु०] स्मरणायोग्यार्थविषयमित्यर्थः / एतदेवाह अपेक्षाज्ञानस्येति (कं. 122.12) / द्वित्वोत्पत्तिसमानकालभाविन एकगुणविशिष्टद्रव्यज्ञानस्य चापेक्षाबुद्धिनाशकत्वं(रा) नाशङ्कनीयं द्वित्वाद्युत्पत्तिविरुद्धम्यैव एकगुणज्ञानस्य गुणिज्ञानहेतुत्वात् / अत्र च प्रमाणं द्वे द्रव्ये इति व्यवहारकाले एक द्रव्यमिति व्यवहाराभावादिति / एकादिव्यवहारस्य नीलादिव्यवहारसाम्येन सालम्बनतया सहृया प्रतिपाविता / -1 पाठोऽयं-कं. 1, कं. 2 पुस्तकयो स्ति। 2 चाविशिष्ट-कं.१; कं. 2 / 3 तदैतस्मिन्पक्षे-कं. 1; कं. 2 / '4 रविनश्यतोश्चावस्थानं-जे. 1; जे. 2 / 5 सिद्धिता-अ, क; 6 ये तु -अ 7 जनितं - अ, ब; 8 अत्र हस्तलिखितपुस्तके लेखकप्रमादात् द्रव्याद्वयतिरेकेणेति पुनरावृत्तं भाति-सं। 9 संख्यप्रेतिपादिता-ह. पु.।