________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् प्रशस्तपादभाष्यम् न समूहज्ञानस्य संस्कारहेतुत्वात् / समूहज्ञानमेव संस्कारकारणं नालोचनज्ञानमित्यदोषः। ज्ञानयोगपद्यप्रसङ्ग इति चेत् ? स्यान्मतम् ननु ज्ञानानां वध्यघातकविरोधे ज्ञानयोगपद्यप्रसङ्ग 'इति / न, अविनश्यतोरवस्थानप्रतिषेधात् / ज्ञानायौगपद्यवचनेन ज्ञानयोर्युगपदुत्पत्तिरविनश्यतोश्च युगपदवस्थानं प्रतिषिध्यते / नहि वध्यघातकविरोधे ज्ञानयोर्युगपदुत्पत्तिरविनश्यतोश्च युगपदवस्थानमस्तीति / न्यायकन्दली द्वित्वविनाशे द्रव्यज्ञानं नोत्पद्यते ? तहि वध्यघातकपक्षेऽपि तदनुत्पत्तिः / अत्रोपपत्तिमाह -सामान्यबुद्धिसमकालं संस्कारादपेक्षाबुद्धिविनाशादिति / यथापेक्षाबुद्धिरुत्पन्ना द्वित्वं जनयति तथा संस्कारमपि, स च तस्या विनाशकः / तेन संस्कारस्य द्वित्वस्य चोत्पादे द्वित्वसामान्यज्ञानस्य चोत्पद्यमानतापेक्षाबुद्धविनश्यत्तेत्येकः कालः / ततो द्वित्वसामान्यज्ञानस्य चोत्पादो गुणबुद्धश्चोत्पद्यमानतापेक्षा'बुद्धेविनाशो द्वित्वस्य विनश्यसेत्येकः कालः / ततो गुणबुद्धेरुत्पादो द्वित्वस्य विनाश इति क्षणान्तरे तदपेक्षस्य वे इति [टि०] [129] आलोचनाज्ञानं व्याख्यानयति निर्विकल्पकमपेक्षाज्ञानम् इति / एकत्वसामान्यविशिष्टैकगुणालम्बनत्वेन सविकल्पकमप्यपेक्षाज्ञानं 'संस्कारजनकत्वेन निविकल्पकतुल्यत्वानिर्विकल्पकमुच्यते / अस्माच्च संस्कारानुत्पत्तिः तत् कार्यस्य द्रव्यं विना केवलस्यैकगुणस्मरणस्याभावात् / अथवा अपेक्षाज्ञानेनैकत्व सामान्य विशेषणमेकगुणश्च विशेष्यं स्वरूपेणव गह्यते न त विकल्पे इति तनिर्विकल्पकमेवेति / अपेक्षाज्ञानस्य इति :-वाक्यं तु विवादा ध्यासितं [पं०] द्वित्वबुद्धिसमकालम् / 'संस्कारादपेक्षाबुद्धेविमाश "इत्यत्रेति कं. 122.3) यद्यपेक्षाबुद्धेः संस्कार उत्पद्येत तदा तेनापेक्षाबविनाशः क्रियेत कार्यभतस्य ज्ञानस्य कारणभतज्ञानविनाशकत्वात्ततोऽपेक्षाबद्धिविनाशे द्वित्वं नोत्पद्येत / सदभावे [ढे] द्रव्ये इति ज्ञानं कुतः स्यात् ? न चेद् संस्कार: समूहज्ञानादुत्पद्यते नापेक्षाबुद्धितः / ततः संस्कारेण नापेक्षाबुद्धिविनाश्यते / ततः कथं द्विस्वाभावो येन द्वे द्रव्ये इति ज्ञानं न भवेदिति भावः / "तयेवेति (122.10) कर्तृपदम् / [क०] [129] यदि गुणबुद्धिसमकालमिति (कं. 122.1) सहानवस्थानपक्षे इति प्रकरणादवसीयते / नन्वपेक्षाबुद्धिरप्येकत्वसामान्यविशिष्टानेकगुणविषयिणी समूहज्ञानमेवेत्यत आह समूहज्ञानं द्वित्वगुणविशिष्टद्रव्यज्ञानमेवेति (कं. 122.10) / स्मरणयोग्यार्थविषयज्ञानस्य समूहविषयत्वमिति भावः / "निर्विकल्पमिति (कं. 122.11) 1 चेत् - कि. भा.। 2 वचनेन-युगपदुत्पत्ति-दे। 3 गुणबुद्धेरुत्पद्यमानता - जे. 1; जे. 2 / 4 बुद्धिविनाशोजे. 1; जे. 2 / 5 संस्कारा... अ, ब, क। 6 नुत्पत्तिरुक्तार्थस्य - अ, ब / 7 सामान्यविशेषमेक-अ, सामान्य विशेषमेक -ब, ड। 8 ध्यासितुं- अ, ब। 9 संस्कारादपेक्षाबुद्धिविनाशादिति-कं। 10 - इत्येतन्नेति-ब / 11 एतदेव-कं। 12 निर्विकल्पकम्-कं।