________________ न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् प्रशस्तपादभाष्यम् [129 to 134] वध्यघातकपक्षेऽपि समानो दोष इति चेत् ? स्यान्मतम्-'ननु वध्यघातकपक्षेऽपि तहि 'द्रव्यज्ञानानुत्पत्तिप्रसङ्गः ? कथम् ? 'सामान्यबुद्धिसमकालं संस्कारादपेक्षाबुद्धि विनाशादिति / न्यायकन्दली इदं त्विह वक्तव्यम्-द्वे द्रव्ये इति ज्ञाने यथा द्रव्यं प्रतिभाति तथोपसर्जनीभूतं द्वित्वमपि, न 'चाविद्यमानस्य द्वित्वस्य प्रतिभासो युक्तः / तस्मादेतदविनष्टमेव तदानीं विशेष्यज्ञानस्यालम्बनं स्यात्, तदवभासमानतालक्षणत्वात् तदालम्बनताया इत्यत आहनाशूत्पत्तेरिति / द्रव्यज्ञानकाले द्वित्वं न विनष्टमित्येतन्न, आशूत्पत्तैद्वित्वगुणज्ञानस्य द्रव्यज्ञानस्य च शीघ्रमुत्पादात् क्रमस्याग्रहणे द्वित्वद्रव्ययोरेकस्मिन्नेव ज्ञाने प्रतिभास इत्यभिमानः / वस्तुवृत्त्या तु पूर्व द्वित्वस्य प्रतिभासस्तदनु द्रव्यस्येत्यर्थः / अत्र प्रकृतानुरूपं दृष्टान्तमाह-यथेति / शब्दवदाकाशमित्यत्र शब्दज्ञानमाकाशज्ञानं शब्दविशिष्टाकाशज्ञानं च त्रीणि ज्ञानान्याशत्पद्यन्ते यथा, तथा द्वे इत्यादि विज्ञानोत्पत्तावपि / किमक्तं स्यात् ? यथा शब्दाविज्ञानेष्वाशुभावितया क्रमस्याग्रहणे युगपत्प्रतिभासाभिमानस्तथा द्वित्वद्रव्यज्ञानयोरपीति / [129] वध्यघातकपक्षेऽपि द्रव्यज्ञानानुत्पत्तिप्रसङ्ग इति केनचिदुक्तं तदाशते - वध्यघातकपक्षेऽपीति / अस्याथं विवृणोति स्यान्मतमित्यादिना। यदि गुणबुद्धिसमकालं [पं०] इदं रिवह वक्तव्यमिति (कं. 121.15) अत्र परेणेति शेषः / एतविति (कं. 121 17) द्वित्वम् / विशेष्यज्ञानस्येति (कं. 121.17) द्रव्ये इति ज्ञानस्य / तरषभासमानतालक्षणत्त्वात्तवालम्बनताया इति (कं. 121.18) यद्यस्मिन् ज्ञानेऽवभा[सते] तत्तस्यालम्बनमित्यर्थः / शब्दवयिति (कं. 121.22) अत्र वतुप्रत्ययः / द्वित्वविनाशे द्रव्यज्ञानं नोत्पद्यते इवाति [म] हानवस्थानपक्षे / [129] अत्रोपपत्तिमाहेति (कं. 122.3) परः कर्ता / सा[मान्यबुद्धिसमकालमिति (कं. 122.3) [10] पूर्वक्षणव] विशेषणं कारणमित्यर्थः / प्रकृतस्य सिद्धान्त उद्भाष्य [व्य] निवर्तनीयामाशङ्कयाह इदं त्विति (कं. 121.15) / वस्तुवृत्त्येति (कं. 121-21) नाशकारणपर्यालोचनया स्वभावपर्यालोचनया वेत्यर्थः / शब्दज्ञानमिति (कं. 121.23) अभिहितान्वयनये पदार्थप्रतीतिपूर्वकत्वात्तत्संसर्गप्रतीते [ए] वमुच्यते / उपपादितमर्थ प्रश्नपूर्वकं मम्पिण्डयन् दर्शयति 'किमुक्तमिति (कं. 121.24) / 1 बध्यघातकक्षेऽपि तहि-दे। 2 ज्ञानानुत्पत्तिप्रसङ्गः-कि. भा.। 3 द्वित्वसामान्य - कं. भा. किं. भा. / 4 चाविद्यमानस्य प्रतिभासो-ने. 1, ने. 2 / 5 द्वित्वादि-कं. 1, कं. 2 / 6 न किमुक्तमित्पतति-ह. पु. /