________________ टिप्पणपञ्जिकाकुसुमोदगमादिटीकात्रयोपेतम् प्रशस्तपादभाष्यम् [128] 'न तु लैङ्गिक ज्ञानमभेदेनोत्पद्यते / तस्माद्विषमोऽयमुपन्यासः / न, आशूत्पत्तेः / यथा शब्दवदाकाशमित्यत्र त्रीणि ज्ञानान्याशूत्पद्यन्ते, तथा द्वित्वादिज्ञानोत्पत्तावित्यदोषः। न्यायकन्दली [128सम्प्रति लैङ्गिकज्ञानस्य विशेष्यज्ञानात् 'तु' शब्देन विशेषं सूचयन्नाह-न त्विति / लैङ्गिकं ज्ञानं लिङ्गाभेदेन लिङ्गिनो लिङ्गोपसर्जनताग्राहितया नोत्पद्यत / तस्माद्विषमोऽयमुपन्यासः / लैङ्गिकवदित्युपन्यासो विषमो द्वे द्रव्ये इति ज्ञानेन सह तुल्यो न भवतीत्यर्थः / द्वे 'द्रव्ये इति ज्ञानकाले द्वित्वमपि नास्ति कथं तद्विशिष्टमेव ग्रहणम् ? न, ज्ञानोत्पत्तेः पूर्वस्मिन् क्षणे यस्य सद्भावात् / सर्वत्र 'हि प्रत्यक्षज्ञानस्य पूर्वक्षणवयैवार्थोः विषयः, अस्ति च द्वे 'द्रव्ये इति ज्ञानोत्पादात् पूर्वस्मिन् क्षणे द्वित्वमिति तदुपसर्जनता प्रत्ययः भवत्येव / [रि०] [128] 'लैङ्गिकज्ञानम् इति :- लिङ्गाभेदेनेत्यस्य व्याख्यानं [लिङ्गोपसर्जनताग्राहितयेति / यदि तु] 'लिङ्गोपसर्जनताग्राहित येत्ययमर्थो न स्यात्तदा प्रस्तुते विशिष्टज्ञाने विशेषण"विशेष्ययोभिन्नयोरभेदावग्राहितया भ्रान्तत्वं "स्यादिति / द्वे द्रव्ये इति ज्ञानस्य "बहुपदार्थविषयत्वाभावात् समूहज्ञानमित्येतद् व्याख्यानयति द्वित्वगुणविशिष्टेत्यादि / [पं०] [128] लिङ्गिन्ते लिङ्गोपसर्जनता-"आहितयेति (कं. 121.10) लिङ्गाभेदेनेत्यस्य व्याख्यानमेतत् / द्वे द्रव्ये इति ज्ञानेन सह तुल्यो न भवतीति (कं. 121.11) एते द्विविशेष्ये स्वोपसर्जनता ग्राहिलिङ्गिकं न तथा लिङ्गिनो भिन्नत्वादिति भावः / परः प्राह द्वे द्रव्ये इत्यादि (कं. 121.12) / "तद्विशिष्टग्रहणमिति (कं. 121.13) द्वित्वविशिष्टग्रहणम् / सूरिवाक्यं नेत्यादि (कं. 121.13) / तस्येति (कं. 121.13) द्वित्वस्य / पूर्वक्षणव]वार्थों विषय इति (कं. 121.14) "तुल्यक्षणयोविषयिता[भा]वाभावात् / कु०] [128] लिङ्गोपसर्जनग्राहितेति (कं. 121.10) "प्रतिमानायवस्थिति समानाधिकरणलिङ्गविषयत्वेनेत्यर्थः / नहि भवति श्वेतं द्रव्यमिति व [त्] धूमवा[न् ] ग्निमा [न] नुमितिः क ... धूमवत्त्वात् अग्निमानिति विशेष्यज्ञानस्य केवलविशेष्यालम्बनत्वमुक्त विस्मृत्य कश्चिच्चोदयति द्वे द्रव्ये इति (कं. 121.11) वध्यघातकलक्षणेऽपि विरोध इति शेषः / विशेष्यज्ञानं चेति विशेषस्य कारणत्वमात्रमित्युक्तम् स्मारयत् परिहरति / सर्वत्र प्रत्यक्षेति विशेष्यज्ञानस्य 1 ननु-दे। 2. द्वे इति - जे. 1, जे. 2 / 3 तद्विशिष्टं ग्रहण ज्ञानोत्पत्तेः- जे. 1, जे. 2 / 4 द्वित्व - कं. 1, कं.२। 5 द्वे इति-ने.२। 6 तदुपसर्जनता- कं. 1; कं. 2 / 7 लिङ्गिकं -अ, ब। 8 [ ] एतच्चिह्नान्तर्गत: पाठः अबपुस्तकयो स्ति / 9 प्रस्तुत - अ, ब, क। 10 विशेष्ययोरभेदा ... अ। 11 स्यादिति लिङ्गोपसर्जनता-अ। 12 बहुपदार्थता-अ, ब / 13 ग्राहितया - कं। 14 तद्विशिष्टमेव - कं / * 15 तुल्यलक्षणयोविषयविषयभावा०-ब। 16 प्रतीयमानावस्थिति इति पाठः स्यात् - सं. /