________________ 298 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली परिहारमाह-न, विशेष्यज्ञानत्वादिति / ज्ञानमात्रादेव 'द्वे द्रव्ये इति ज्ञानोत्पत्तिरित्येतन्न, कस्मात् ? विशेष्यज्ञानत्वात् / भवतु विशेष्यज्ञामं तथापि कुतो ज्ञानमात्रान्न भवति ? तत्राह-नहीति / विशेषणं विशेष्यस्य 'सरूपं विशेष्यस्यानुरञ्जकं विशेष्ये स्वोपसर्जनताप्रतीतिहेतुरिति यावत् / न चाविद्यमानस्यानुरञ्जकत्वं स्वोपसर्जनताप्रतीतिहेतुत्वं युक्तम्, अतो न विशेष्यज्ञानं विशेषणसम्बन्धमन्तरेण भवितुमर्हतीति विशेष्यज्ञानं सारूप्याद्विशेषणानुक्तत्वाद विशेषणसम्बन्धमन्तरेण भवितुं नाहतीत्यत्रार्थे। सूत्रकारानुमति दर्शयति-तथा चाहेति। समवायिनः समवेताच्छ्वैत्याच्छ्वेतगुणाच्छ'वैत्यबुद्धेः श्वेतगुणबुद्धेः श्वेते द्रव्ये बुद्धिर्भवति श्वेतं द्रव्यमिति / ते विशेषणविशेष्यबुद्धी कार्यकारणभूते कार्यकारणस्वभावे इति सूत्रेण 'विशेषणस्यानुरञ्जकत्वमुक्तम् / तच्चाविद्यमानस्य नास्तीति भावः। [पं०] विशेष्यज्ञानमिति (कं. 120.27) द्वे द्रव्ये इति ज्ञान (मिति द्वे द्रव्ये इति ज्ञान) विशेष्यम् / विशेषणसम्बन्धमिति (कं. 121.3) द्वित्वं विशेषणम् / सारूप्यादि [ति ] सारूप्यस्य सकाशात् / विशेषणानु(र)क्तत्वाविति हेतोः / समवायिन इति ब्याख्येयपदम् / समवेतादिति व्याख्यामपदम् / श्वत्यादिति (कं. 122.6) व्याख्येयं पदं श्वेतगुणादिति (कं. 121.6) व्याख्यानपदम् / विशेषणभूतान् श्वेतगुणादित्यर्थः / वैत्यबुद्धेरिति व्याख्येयपदं श्वेतगुणबुद्धेरिप्ति व्याख्यानपदम् / श्वेते द्रव्ये इति (कं. 121.6) विशेष्यभूते / कार्यकारणभूते इति (कं. 121.7) कार्यभूता विशेष्यबुद्धिः, कारणभूता विशेषणबुद्धिः / अविद्यमानस्येति (कं. 121.8) द्वित्वस्य / . कु0 हेतोरप्रयोजकत्वमाशङ्कय भाष्येण परिहार: भवत्त्विति (कं. 120.27) / स्वोपसर्जनता प्रतीतिहेतुरिति (कं. 121.1) स्वसामानाधिकरण्येन व्यावृत्तिप्रतीतिहेतुरित्यर्थः / तदयं प्राणार्थः द्वे द्रव्ये इति ज्ञानं विशेष [ण] सम्बन्धकार्य विशिष्टज्ञानत्वाद्दण्डोति ज्ञानवत् / समवायिनः समवेता (कं. १२०.५)दित्यनेन सम्बन्धस्य कारणत्वमुक्तम् / श्वेत्यादित्यमेन विशेषणस्य / श्वत्यबद्धरिति (कं. 120.6) [श्वेतज्ञानस्य / विशेषणविशेष्यबुद्धी इति (कं. 121.7) विशेषणं च विशेष्यबुद्धिश्चेति विग्रहः / 1 द्वे इति - जे. 1, जे. 2 / 2 स्वरूपविशेष्या-कं. 1, कं. 2 / 3 श्वेतबुद्धेः श्वेतगुणबद्धेः - जे. 1, वैत्यबुद्धेः श्वेते द्रव्ये - कं. 1 / 4 विशेषणमसुरजकम् - जे. 1, जे. 2 / 5 पुनरावृत्तमिवाभाति - सं.।।