________________ 296 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली इह खलु द्वित्वोत्पत्तिप्रक्रमे पूर्वपूर्वज्ञालस्योत्तरोत्तरज्ञानाद्विनाशो दर्शितः। स 'चायं ज्ञानानां विरोधे सत्युपपद्यते / विरोधं च तेषां बध्यघातकस्वभावं केचिदिच्छन्ति, सहानवस्थानं चापरे। तत्राचार्यो वध्यघातकपक्षपरिग्रहं कुर्वन्नाह-शोभममेतद्विधानमिति / एतद्विधानमेष 'द्वित्वोत्पत्तिप्रकारः / वध्यघातकपक्षे द्वितीयं ज्ञानभुत्पद्य क्षणान्तरे पूर्वविज्ञानं नाशयतीति पक्षे शोभनं युक्तमित्यर्थः / सहानवस्थानलक्षणे विरोधे तु एकस्य ज्ञानस्योत्पादोऽपरस्य विनाश इति पक्षे द्वे द्रग्ये इति ज्ञानानुत्पत्तिप्रसङ्गः, तस्मात् सहानवस्थानलक्षणो न युक्त इत्यभिप्रायः। एतदेवोपपादयति-कथमित्यादिना / सहानवस्थानपक्षे हि द्वित्वसामान्यज्ञानोत्पत्तिकाले एवापेक्षाबुद्धेविनाशाद् द्वित्वस्य विनश्यत्ता, गुणबुद्धिसमकालं च द्वित्वस्य विनाश इति क्षणान्तरे द्वित्वापेक्षस्य द्वे द्रव्ये इति ज्ञानस्योत्पत्तिर्न भवेत् कारणाभावात् / [पं०] द्वितीयं ज्ञानमुत्पद्येति (कं. 120.10 ) प्रथमक्षणे / क्षणान्तरे (कं. 120.10 ) इति द्वितीयक्षणे / सहानवस्थानलक्षणे तु विरोधे (कं. 120.11) इत्यस्मात्पुर एकस्मिन्नेव क्षणे इत्यध्याहार्यम् / गुणबुद्धिसमकालमिति (कं. 120.15) द्वित्वगुगलक्षणसङ्ख्याबुद्धयुत्पादसमकालं द्वे द्रव्ये इति ज्ञानस्योत्पत्तिर्न भवेत् / कारणाभावादिति (कं. 120.16) अयमत्राशयः वध्यघातकपक्षे तु द्वित्वसामान्यज्ञानमेकस्मिन् क्षणे उत्पन्नं सत् द्वितीयक्षणेऽपेक्षाबुद्धिविनाशयितुमारभते / तस्मिभेतत् द्वितीयक्षणे द्वित्वगुणबुद्धिरुत्पन्ना, साप्युसरक्षणे द्वित्वगुणं विनाशयितुमारभते ततो द्वे द्रव्ये इति ज्ञानोत्पत्तिः / ततो द्वित्वगुणस्य विनाशः / [कु०] पक्षान्त रानुपपत्तौ तात्पर्य नाप्रस्तुतप्रशसेति भावः / सहानवस्थानलक्षणे च विरोधे उत्तरज्ञानकारणस्यैव. पूर्वज्ञानविनाशकत्वाङ्गीकारा (न) दहेतुको विनाश इति सन्देहानुपपत्तिः; गुणबुद्धिसमकालमित्यस्य द्वित्वविनाश [इ] त्यनेनान्वयं दर्शयन् व्याचष्टे सहानवस्थानपक्ष इति (कं. 120.11) / 3 द्वित्वप्रकार: - कं. 1; कं. 2 / 4 द्वित्वकाले - 1 क्रमेण - कं.१; कं. 2 / 2 स च - कं. 1, कं. 2 / कं. 1, कं. 2 / 5 विनाशो-जे. 1; जे. 2 /