________________ टिप्पणपञ्जिकाकुसुमोदगमादिटीकात्रयोपेतम् 295 प्रशस्तपादभाष्यम् शोभनमेतद्विधानं वध्यघातकपक्षे, सहानवस्थानलक्षणे तु विरोधे द्रव्यज्ञानानुत्पत्तिप्रसङ्गः। 'कथम् ? गुणबुद्धिसमकालमपेक्षाबुद्धिविनाशाद् द्वित्वविनाशे तदपेक्षस्य द्वे द्रव्ये इति द्रव्यज्ञान स्यानुत्पत्तिप्रसङ्ग इति न्यायकन्दली ज्ञानमुत्पद्यते, क्षणान्तरे 'कर्मणा चावयवान्तराद्विभागः क्रियते, एकत्वसामान्यज्ञानादपेक्षाबुद्धे श्चोत्पत्तिः, यस्मिन्नेव कालेऽवयविविभागाद् द्रव्यारम्भकसंयोगविनाशस्तदापेक्षाबुद्धेद्वित्वमुत्पद्यते, ततः संयोगविनाशाद् द्रव्यस्य विनाशः, द्वित्वसामान्यबुद्धेश्चोत्पाद इत्येकः कालः / ततो यस्मिन् काले द्वित्वसामान्यज्ञानादपेक्षाबुद्धेविनाशस्तदैवावयविविनाशाद् 'द्वित्वस्य विनाशः, न 'त्वपेक्षाबुद्धिविनाशस्तस्य कारणम्, सहभावित्वात् / अत्र यद्यपि द्वे द्रव्ये इति ज्ञानमकृत्वैव प्रणष्टस्य द्वित्वस्योत्पत्त्या न किञ्चित् प्रयोजनम्, तथापि कारण सामर्थ्य भावी कार्योत्पादो न प्रयोजनापेक्ष इति तदुत्पत्तिचिन्ता कृता / [पं०] विनाश इति (कं 119.27) छिद्यमानावस्थायामेतत् द्रष्टव्यम् / अपेक्षाबुद्धे द्वित्वमुत्पद्यत (कं. 120.1) इत्यत्रापेक्षाबुद्धेरिति पञ्चम्यन्तं पदम् / द्वित्वसामान्यबुद्धिरिति (कं. 120.1) द्वित्वसामान्यज्ञानस्य / "तस्य तस्य कारणमिति (क. 120.3) तस्य द्वित्वविनाशस्य / सहभावित्वादिति (कं. 120.4) सहभाविनो हि सव्येतरगोविषाणयोरिव न कार्यकारणभावः / अत्रेति (कं. 120.4) आश्रयविनाशाद्वित्वविनाशे। द्वे द्रव्ये इति ज्ञानम कृत्वैवेति (कं. 120.4) द्वितीयावयवस्य विनष्टत्वात् कथं द्वे द्रव्ये इति ज्ञानमुत्पद्यते इति भावेन / ..] कश्चिदुपभोग: कर्तव्यः / स च विशिष्टज्ञानमकृत्वैव विनश्यता न क्रियत एवेत्यत आह तत्रेति (कं. 120.4) / सर्वप्रयोजनस्यास्माभितित्वादुत्पत्तिसिद्धौ किञ्चित्प्रयोजनमपि कल्प्यमिति भावः। द्वित्वाद्युत्पत्तिविनाशव्युत्पत्तिप्रशंसायाम, अप्रस्तुतत्वशङ्कापरिहरणसङ्गति करोति इह खल्विति (कं. 120.6) / विशेषविधेः शेषनिषेधपरतया 1 'कथम्' इति जे. व्यो. पुस्तकयो स्ति / 2 स्याभावप्रसङ्ग इति -जे., दे। 3 कर्मणावयवान्तराद - कं. 1, कं.२। 4 अवयवद्रव्य - कं. 1, कं.२। 5 द्वित्वविनाशः-कं.१; कं. 2 / 6 त्वपेक्षाबुद्धेविनाशस्तत् - कं. 1; कं. 2 / 7 तत्कारणमिति-कं / 8 मकृत्यैवेति-क। 9 अत्र - कं.।।