________________ 294 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् प्रशस्तपादभाष्यम् [126] क्वचिच्चाश्रय विनाशादपि / कथम् ? यदैकत्वाधारावयवे कर्मोत्पद्यते तदैवैकत्व'सामान्य ज्ञानमुत्पद्यते, कर्मणा चावयवान्तराद्विभागः क्रियते, अपेक्षाबुद्धेश्चोत्पत्तिः / ततो यस्मिन्नेव काले विभागात् संयोगविनाशस्तस्मिन्नेव काले द्वित्वमुत्पद्यते / 'संयोगविनाशाद् द्रव्यविनाशः, सामान्यबुद्धेश्चोत्पत्तिः। ततो यस्मिन्नेव काले सामान्यज्ञानादपेक्षाबुद्धेविनाशस्तस्मिन्नेव काले आश्रयविनाशाद द्वित्वविनाश 'इति / न्यायकन्दली ___ यत्र विनष्ट एव 'आश्रये स्मृत्युपनीते द्वित्वमुत्पद्यते, तत्र स्मृतिलक्षणापेक्षाबुद्धिविनाशावास्य विनाशः, यत्र त्वाश्रये विद्यमाने तदुत्पन्नं तत्र न केवलमपेक्षाबुद्धिविनाशादस्य विनाशः, क्वचिदाश्रयविनाशादपि स्यात् / [126] एकस्य द्रव्यस्य द्वयोर्चा द्रव्ययोरभावाद् द्वे इति प्रत्ययाभावादित्याह-क्वचिच्चाश्रय विनाशादपोति / कथमित्यज्ञेन पृष्टस्तदुपपादयन्नाह-यदेति / यस्मिन् काले एकगुणाश्रयस्य द्रव्यस्यावयवे क्रियोत्पद्यते तस्मिन् काले एकगुणवतिन्येकत्वसामान्ये [पं०] "आश्रय (कं. 119 19) पिपीलिकादौ / अस्येति (कं. 119.20) द्वित्वस्य / तदिति (कं. 119.21) द्वित्वम् / [126] एकस्य द्रव्य[स्य] द्वयोर्वा द्रव्य[यो] रभावे इति (कं. 119.22) एकस्य द्रव्यस्याभावे द्वयोरपि द्रव्ययोरभाव इत्यर्थः / एकगुणाश्रयस्येति (कं 119.24) एकसङ्ख्याधारस्य / द्रव्यस्येतिः (कं. 119.24) अगुल्यादेः / अवयवे इति (कं. 119.24) खण्डे / कर्मणोति (कं. 119.26) क्रियया। ‘अपेक्षाबुद्धिरिति (कं. 119.26) एकगुणयोरनेकविषयिणी एका बुद्धिरपेक्षाबुद्धिः / ततो यस्मिन्काले अवयवविभागाद्व्यारम्भकसंयोग [कु०] [126] आश्रयनाशस्य गुणविनाशकारणतायामविप्रतिपत्तेः कथमित्याक्षेपः / कथमित्यत आह कथमित्यज्ञेनेति (कं. 119.23) / यस्मिन्काल इति (कं. 119.28) एकत्वसामान्यज्ञानं-क्षणमारभ्य पञ्चमे क्षणेऽपेक्षाबुद्धिविनाशः / अवयवे कर्मोत्पत्तिक्षणमपि चतुर्थक्षणे भवता द्रव्यनाशेनाऽप्यपेक्षाबुद्धिविनाशसमकाल एव द्वित्वविनाश इति प्रक्रियासक्षेपाः। "समभावित्वादिति (कं. 120.4) नन्वदृष्टस्य भोगार्थ सर्वोत्पत्तिकारणत्वाङ्गीकार (1) उत्पन्नेन पुरुषस्य 1 विनाशादिति - कं. 1, कं. 2 / 2 सामान्य - कं. 1; कं. 2 / 3 ततः संयोगविनाशात् - कि. भा.। 4 'इति' जे पुस्तके नास्ति / 5 पराश्रये - कं. 1, कं. 2 / 6 विनाशादिति- कं. 1, क. 2 / 7 पराश्रय - कं.। 8 अपेक्षाबुद्धेः / 9 यस्मिन्नैव -कं। 10 सहभावित्वात्-कं. /