________________ टिप्पणपञ्जिकाकुसुमोदगमाविटीकात्रयोपेतम् 293 न्यायकन्दली व्यवस्थापनात् / अतीतस्य जनकत्वेऽनुभवस्यैव स्मृतिहेतुत्वसम्भवे संस्कारकल्पनावैयर्थ्यमिति चेन्न, निरन्वयप्रध्वस्तस्यानुपस्थितस्यापि कारकत्वात्, 'तदुपस्थापकान्वयकल्पनायां तु संस्कारसिद्धिः / तथा चान्त्यवर्णप्रतीतिकाले पूर्ववर्णानां विनष्टानामपि स्मृत्युपनीतत्वादर्थप्रतीतौ निमित्तकारणत्वमस्त्येव / यथेदं तथा समवायिकारणत्वमपि केषाञ्चिद्भविष्यति / यथा च संस्कारसचिवस्य मनसो बाह्ये स्मृत्युत्पादनसामर्थ्यमेवं प्रत्यक्षानुभवजननसामर्थ्यमपि दृष्टत्वादेषितव्यम् / एवं च सति नान्धबधिराद्यभावो बाह्येन्द्रियप्रवृत्त्यनुविधायित्वात् / [पं०] सङ्ख्यां प्रतीति द्रष्टव्यम् / तथाभाव इति (कं.११९.१२) अतीतस्यापि जनकत्वम् / अनुभवस्यैवेति (कं.११९.१३) अतीतत्वविशिष्टस्य। तस्येति-अनुभवस्य / अनुपस्थापितस्येति (कं. 119.14) संस्कारलक्षणं विशेषमनादधतः / (अ) कारकत्वादिति (कं. 119.14) स्मृत्यजनकत्वादित्यर्थः / तदुप[स्थाप] कान्वयकल्पनायां तु संस्कारसिद्धिरिति (क. 119.14) तस्यानुभवस्योपस्थापको दूरस्थस्यासन्नीकर्ता कश्चिद्यदि अन्वयेन-सातत्येनागच्छन् कल्प्यते तदा संस्कारसिद्धिः। संस्कारो हि भावनाख्यो दूरस्थमप्यनुभवमासन्नीकरोति ततश्च स्मृतिरुत्पद्यत इति वाक्यतात्पर्यार्थः / अन्त्यवर्णप्रतीतिकाले इति (कं 119.15) श्लोकादिषु / केषांचिदिति-(कं. 119.17) पिपीलिकादीनाम् / बाह्ये इति (कं. 119.17) च बाह्यर्थे / प्रत्यक्षानुभवजननसामर्थ्यमपि दृष्टत्वादेषितव्यमिति (कं. 119.18) प्रत्यक्षरूपोऽनुभवो विशिष्टद्रव्यगतसयाविषयस्तज्जमनसामर्थ्य ममस एषितव्यम् / शतसङ्ख्या हि प्रत्यक्षा अतस्तदनुभवः प्रत्यक्षोऽनुभव इति भावना। ननु यदि संस्काररुचिवद्धनोऽध्यक्षानुभवमपि जनयेतहि अन्धबधिरादीनामपि जनयिष्यति इत्यन्धबधिराद्यभावप्रसङ्गस्तत्राह एवं च सतीत्यादि (कं. 119.18) / बाह्येन्द्रियप्रवृत्त्यनुविधायित्वादिति (कं. 119.19) अस्य पुरो मनस इति शेषः / क०] स्मृत्योपनीतस्य कारणत्वे दृष्टान्तमाह तथा चेति (कं. 119.15) / नन्वेवमतीतेष्वन्त्यनाशात् सङ्ख्या कथं प्रत्यक्षा इन्द्रियसन्निकर्षाभावादित्यत आह यथेति (कं. 119.17) / केवलस्य [म] नसो बाह्यविषयज्ञानत्वे बधिरोऽपि शब्दं शृणुयादन्धोऽपि रूपं पश्येदित्यत आह एवं चेति (कं. 119.18) / उत्तरस्य परमतत्वं, दृष्टत्वा दि]दोषाद (च) तथा दर्शनदृष्टमर्यादातिक्रमेण चतुर्विशति गुणा इत्यत्रापि सङ्ख्याव्यवहारस्य मुख्यत्वापत्तिः / तत्र गुणानां समवायित्वकल्पनायां द्रष्टव्यापत्ति वमिति तस्य स्मृत्या रजतोत्पत्तिः किन्न कल्प्यते ? तथैवेति वदता ज्ञानेषु सत्यत्वमिथ्यात्व विचाराय जलाञ्जलीयतां सर्वत्र दृष्टाङ्गीकारेण सर्वस्य सत्यत्वात् स्वनिर्वचनीयं सर्वमिति / तदिदमायातं शांतिकर्मणि चेतालोदय इति / तत्र च निरूपणं प्रक्रम्य निर्वचनीयपक्षे पतितोसीति किर(ल) शतं पिपीलिकानां मया निहत]मित्यत्र का बाह्येन्द्रियप्रवृत्तिमनुविधीयमानो बाह्यं विप्रवर्तते च तावद् बाह्येन्द्रियजनितानुभवकार्यसंस्काररूपाम् / अनुभवस्यैबानुदयश्च सन्निकर्षाभावादित्यत उक्तम् अत एव नानुभवरूपामित्यलं विस्तरेण / परमतानुसारेण भाष्यस्य सङ्गतिमाह यत्र विनष्ट इति (कं. 119.19) परमार्थतस्तु स्थित एवाश्रये द्वित्वादिविनाशस्य कारणमुक्तम् / इदानीं द्वित्वविनाशे कारणान्तरं चिन्त्यत इति / 2 प्रतीकमिदं कं. पुस्तके नास्ति / 3 तदुपस्थापना - कं; 1 तदुपस्थापनाकल्पनायो-कं. 1, कं. 2 / तदुपस्थापन - पा. 1 पु.।