________________ 292 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली जन्यते। सा च 'पूर्वद्रव्यसंस्कारसचिवा अन्त्यद्रव्यसंयुक्तेन्द्रियज्ञानविषयत्वात् प्रत्यक्षव। यत्र विनष्टेषु सङ्ख्येष्वन्ते सङ्कलनात्मकः प्रत्ययो जायते, शतं पिपीलिकानां मया निहतमिति, तत्र कथं शतसङ्घचाया उत्पत्तिः ? आश्रयाभावात् नोत्पद्यत एव तत्र सा, कारणाभावात् / शतव्यवहारस्तु रूपादिष्विव गौण इत्येके समर्थयन्ति / अपरे तु प्रतीतेस्तुल्यत्वादुपचारकल्पनामनादृत्यातीतानामेव द्रव्याणां संस्कारोपनीतत्वादाश्रयतामिच्छन्ति / यदत्यन्तमसत् खपुष्पादि तदकारणम्, निःस्वभावत्वात् / अतीतानां तु वर्तमानकालसम्बन्धो नास्ति, न तु स्वरूपम् , तेषां स्मृतिसन्निहिताना 'तत्कार्यानुगुणसहकारिलाभात् समवायिकारणत्वमविरुद्धम् / न चैवं सति सर्वत्र तथाभावः, यथादर्शनं [पं०] गुणाः सङ्ख्यापि गुणस्ततो निर्गुण इति वचनाद् रूपादिगुणेष्वेकत्वादिकं न युज्यते, औपचारिकं तु भवति तथा पिपीलिकादिष्वपि शतव्यवहार औपचारिक इत्यर्थः / एके इति (कं. 119.7) वैशेषिकैकदेशीयाः / अपरे विति (कं. 119.8) वयं श्रीधरमिश्राः / प्रतीतेस्तुल्यत्वादिति (कं. 119.8) प्रतीतिस्तु विद्यमाने. विनष्टे च तुल्यैव / 'आश्रयतामिति (कं. 119.9) शतसङ्ख्यां प्रति आधारत्वम् / तदकारणमिति (कं. 119.9) काक्वा व्याख्येयम् / बर्तमानका ल] सम्बन्धो नास्तीत्ये (कं. 119.10) तदपि काक्वा / न तु स्वरूपमित्येतदपि (कं. 119.10) काक्वा।। न तु स्वरूपमित्यतः पुरो नास्तीति पूर्वतो योग्यं, न तु स्वरूपं नास्तीत्यर्थः / तत्रेति (कं. 119.11) एवं सतीत्यर्थः / एषामिति (कं. 119.11) अतीतानां द्रव्याणाम् / स्मृतिसन्निहितानामिति (कं. 119.11) स्मृत्या प्रत्यासन्नी- : भूतामाम् / 'तत्कार्यानुग्रहणसहकारिलाभादिति (कं. 119.11) तच्च तत्कार्य शतसंख्यालक्षणम् / तस्यानुगुणमुत्पत्तो [भ] नुकूलं यत्सहकारि अपेक्षाबुद्धिलक्षणं निमित्तकारणं तल्लाभात् / समयायिकारणत्वमिति (कं. 119.11) [कु०] अनुभवस्मरणाभ्यामिति (कं. 119.3) विच्छिन्नेन्द्रियसन्निकर्षे एकोनशतसङ्ख्याधारवत्यनेकैकगणविषयस्मृत्यनन्तरंन्तरभाविन्या शततमामुभवरूपयाऽपेक्षाबुद्धया शतसङ्ख्यया जायते / अविच्छिन्नेन्द्रियसन्निकर्षेषु द्वित्वादिसाम्यमेवेति भावः / नन प्रत्यक्षाप्रत्यक्षवृत्तः शतसङ्ख्याया: प्रत्यक्षत्वं कुत इत्यत आह सा चेति (कं. 119.3) / अवयवी वा आधारैकदेशेन सह शतसङख्या गीत इति भावः / अस्तु विच्छिन्नेन्द्रियसन्निकर्षेषु स्वयं विद्यमानेष समवायिकारणेष्वेवं शतादिसङ्ख्याया उत्पत्तिः नष्टेषु तु समवायिकारणेष्वियं प्रक्रिया न सङ्गच्छत इति तत्र विचारमारभते यत्रेति (कं. 119.4) / सडुलनात्मक इति (कं. 119.5) बहिरिन्द्रियनिरपेक्षेण मनसा संहत्य कलनं सङ्कलनं तत्स्वरूप इत्यर्थः / तत्र कथमिति (कं. 119.6) चतुर्विंशति गुणा इतिवद्भाक्तः, उत नव द्रव्याणीतिबन्मुख्य इति संशयात्प्रश्नः / स्वमतमाह नोत्पद्यत (कं. 112.6) इति / एके (कं. 119.7) वयमिति शेषः / परमतमाह अपरे स्विति (कं. 119.8) / नन्वसतः कारणत्वमनुपपन्नमित्यत आह यदत्यन्तेति (कं. 119.9) गगनकुसुमादेरतीतानां को भेद इत्यत आह अतीतानामिति (कं. 119.10) / 'दग्धैरपि तन्तुभिः पटारम्भप्रसङ्ग इत्यत आह न चैवमिति (कं. 119.12) / तदुपस्थापकेति-स्मृत्यैवानुभवोपस्थापने अन्योन्याश्रयप्रसङ्ग इत्यर्थः / यथादर्शनमतीतस्य 1 सर्वद्रव्य - कं. 1, सर्बद्रव्ये - कं. 2 / 2 गगनकुसुमादि-जे. 1, जे. 2 / 3 तर्कानु - कं. 1, कं. 2 / 4 आश्रयताम-कं। 5 तर्कानगुण-कं / 6 दुग्ध-ह. पु.। 7 तदुपस्थापना-कं.।