________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् 291 प्रशस्तपादभाष्यम् [125] एतेन 'त्रित्वाद्युत्पनिः व्याख्याता / एकत्वेभ्योऽनेकविषयबुद्धिसहितेभ्यो निष्पत्तिरपेक्षाबुद्धिविनाशाच्च विनाश इति / / न्यायकन्दली [125] एतेन 'त्रित्वाद्युत्पत्तिाख्याता / एतेन द्वित्वोत्पत्तिविनाशनिरूपणप्रक्रमेण त्रित्वादीनामुत्पत्तिाख्याता। तमेव प्रकारं दर्शयति-एकत्वेभ्योऽनेकविषयबुद्धिसहितेभ्यो निष्पत्तिरपेक्षाबुद्धिविनाशाच्च विनाश इति / ___एतेन शतसङ्ख्याद्युत्पत्तिरपि समर्थिता। प्रत्येकमनुभूतेष्वेकैकगुणेषु क्रमभाविनां संस्काराणामन्त्यगुणानुभवानन्तरं शतव्यवहारसंवर्तकादृष्टाद्युगपदभिव्यक्तौ संयोगैकस्वादनेकविषयकस्मरणोत्पादे सत्यनुभवस्मरणाभ्यामपेक्षाबुद्धिभ्यां स्वाश्रयेषु शतसङ्ख्या (टि०] [125-126-127] अनुभवस्मरणाभ्याम् इति :- अत्रानुभवो 'विनश्यदवस्था, सन् कारणं द्वयोनियोरविनश्यदवस्थयो: सहावस्थानायोगात् / स्वाभिप्रायसमाधानं भङ्ग्यन्त रेणाह अपरे तु प्रतीतेः इति / 'समवायिनः भ्वत्याद् इति :-समवायिनः इत्यनेन सम्बन्धस्य श्वैत्यादित्यनेन विशेषणस्य, श्वत्यबद्धिरित्यनेन विशेषणज्ञानस्य च विशिष्टज्ञानं प्रति कारणत्वमुक्तम् / [पं०] [125] एकैकगुणेष्विति (कं. 119.1) एकद्वयादिषु नवनवत्यन्तासु सङ्ख्यासु / अन्त्यगुणानुभवानन्तरमिति (कं. 119.1) अन्त्यगुणोऽगान्त्या सङ्ख्या सा च शतलक्षणा ग्राह्या। युगपदभिव्यक्तादिति (कं. 119.2) युगपदभिव्यक्ती सत्यामित्यर्थः / अनेकविषयकस्मरणोत्पादे इति (कं. 119.2) अनेकशब्देनात्र शतं द्रष्टव्यम् / अनुभवस्मरणाभ्यामपेक्षाबुद्धिभ्यामिति (कं 119.3) ये अनुभवस्मरणे ते अपेक्षाबद्धी। स्वाश्रयेष्विति (कं. 119.3) द्रव्येषु / 'पूर्वद्रव्येति (कं. 119.4) अनेन एकद्वयादयो नवनवत्यन्ता लभ्यन्ते / अन्स्यद्रव्येति (कं. 119.4) भनेन शतं लभ्यते / प्रत्यक्षवेति (कं. 119.4) प्रत्यभिज्ञा प्रत्यक्षव। पर: प्राह यत्र विनष्टेष्वित्यादि (कं. 119.4) अत्र एकीयमतेनोतरमाह नोत्पद्यते (कं. 119.6) इत्यादिना। तत्रेति (कं. 119.7) पिपीलिकासु / शतव्यवहारस्तु रूपादिष्विव गौण इति (कं. 119.7) यथा रूपादिष्वेकं रूपमित्यादि व्यवहारो गौणस्तथाऽत्रापि / रूपादयो हि कि०] [125] एतेनेति (कं. 118.23) विनाशश्च व्याख्यात इति शेषः / तमेवेति (कं. 118.25) विनाशसहितमिति शेषः / इह गुणानां निर्गणतया असमवायिकारणेषु गुणरूपविशेषाभावेऽपि द्वित्वाद्विध स्पत्तिचिन्तावैयर्थ्य भयात्तदतिरिक्तविशेषानङ्गीकारेऽपि अनवस्थावैयर्थ्याभ्यां समवायिकारणेषु द्वित्त्वा (धु) (दु)त्पत्तेः प्राकृतादृशविशेषानङ्गोकारेऽपि निमित्तकारणस्य विषयकृतविशेषाभावेऽपीति तदतिरिक्तपारोक्ष्यादिविशेषस्य द्वित्वमित्वादिसाधारण्येनाप्रयोजकत्वेऽप्यदष्टस्य दृष्टमपाधिमुपादायैव कार्याविशेष प्रयोजकत्वेऽपि अन्यथाख्यातिमये बिलक्षणबीजविरहेण द्वित्वादिबद्धेन्तित्वे वा सम्भवति / द्वित्वत्रित्वादिकार्यविशेषोत्पत्तिनियमोऽपेक्षामद्धेः सहकारिभेदादवगन्तव्यः / 1 त्रित्वाद्यत्पत्तिरपि - कं. कि. दे.। 2 विनाशाद -कि. जे.। 3 द्युत्पत्तिरपि ब्याख्याता-कं. 1, कं. 2 / . 4 विमर्य-अ, ब / 5 समवायिनः समवेताच्छवैत्याद-म.-जे. 1, जे. 3 / 6 सर्वद्रव्य-कं. /