________________ 290 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् प्रशस्तपादभाष्यम् [124] 'तदनन्तरं द्वे द्रव्ये इति द्रव्यज्ञानस्योत्पादः, द्वित्वस्य विनाशः, द्वित्वगुणबुद्धेविनश्यत्ता, द्रव्यज्ञानात् संस्कारस्योत्पद्यमानतेत्येकः कालः / / तदनन्तरं द्रव्यज्ञानाद् द्वित्वगुणबुद्धविनाशो द्रव्यबुद्धेरपि 'संस्कारादिति / न्यायकन्दली [124] तदनन्तरं द्वे द्रव्ये इति द्रव्यज्ञानस्योत्पादो द्वित्वस्य विनाशो गुणबुद्धेविनश्यत्ता, संस्कारस्योत्पद्यमानता द्वित्वसामान्यज्ञानस्य विनाशो गुणबुद्धेविनश्यत्तेत्येकः कालः / यद्यपि द्वे द्रव्य इति ज्ञानोत्पत्तिकाले द्वित्वं नास्ति, तथापि तदस्य कारणम, कार्योत्पत्तिकाले कारणस्थितेरनुपयोगात् / कार्योत्पत्त्यमगणव्यापारजनकत्वं हि कारणस्य कारणत्वम् / स चेदनेन कृतः, किमस्य कार्योत्पत्तिकाले स्थित्या? व्यापारादेव कार्योत्पत्तिसिद्धेः। न त्वेवं सति तस्याकारकत्वम्, व्यापारद्वारेण तस्यैव हेतृत्वात् / न चैवं सति भावतं कारकत्वम् ? स्वव्यापारेण व्यवधानाभावात् / अन्यथा शरमुक्तिसमकालं निष्ठुरपृष्ठाभिघातादभिपतितस्य धन्विनः क्षणान्तरभाविनि लक्ष्यव्यतिभेदे कर्तृत्वं न स्यात् / ___ तदनन्तरं द्रव्यज्ञानाद् गुणबुद्धविनाशः, संस्कारस्योत्पद्यमानता, ततः संस्कारस्योत्पादो द्रव्यबुद्धेविनश्यसा, क्षणान्तरसंस्काराद् द्रव्यबुद्धविनाशः, द्रव्यबुद्धिविनाशकारणत्वं च, संस्कारस्य तद्भावभाबित्वाद'न्यस्याऽसम्भवाच्च / [टि०] ततो द्वित्व गुणज्ञानविनाशकाले संस्कारस्योत्पाद्यमानतेत्यनुपपन्नं द्वित्व गुणज्ञानविनाशसंस्कारयोर्के द्रव्ये इति ज्ञानजन्यत्वेन तुल्यकालभावित्वात् तत्कालो संस्कारस्योत्पाद इति 'तु युक्तम् , द्रव्यनाशोत्पादकाले तु गुणज्ञानविनइयत्तावत् संस्कारस्योत्पद्य मानतेति च वक्तुं युक्तम् / सत्यम्, द्वे द्रव्ये इति "ज्ञान प्रयोजनां द्वित्वोत्पादप्रक्रियां समाप्य शिष्यार्थं तदनन्तरमित्यनपेक्षयव द्रव्यज्ञानकालापेक्षया संस्कारस्योत्पद्यमानतेत्युक्तम् / भाष्यकारेणाप्यत्र अपेक्षाबुद्धिनाशद्रव्यज्ञानोत्पद्यमानतालक्षणस्य द्रव्यज्ञानोत्पाद-गुणज्ञानविनश्यता-संस्कारोत्पद्यमानता क्षणस्य क्षणद्वयात्मकलवाभिप्रायेणैककालतामभिप्रेत्य तदनन्तरं द्रव्यज्ञानाद् गुणबुद्धेविनाश इत्युक्तम् / [पं०] तदनन्तरं द्रव्यज्ञानाद् गुणबुद्धेविनाश इति (कं. 118.20) पूर्व हि विनश्यत्ता उक्ताऽऽसीत् / संस्कारस्योत्पाद इति (कं. 118.21) पूर्व हि उत्पञ्चमानता उक्ताऽऽसीत् / तद्भावभांवित्वादिति ( कं. 118.23) संस्कारभाबे द्रव्यबुद्धिविनाशस्य भावात् / [कु०] [124] कार्योत्पत्त्यनुगुणेति (कं. 118.15) समवायिकारणव्यतिरिक्तस्येति शेषः / इह विशेषणस्य विशेष [ध्य]ज्ञानानुत्पादानुकूलो व्यापारः स्वविषयं ज्ञानमेव कूपस्य खनितुः प्रमादा [त्] पति [त] ब्राह्मणपरनिमित्ते प्रतिमायाभावस्तु तदुद्देशाभावो द्रष्टव्यः / 1 भाष्यमिदं मे दे. पुस्तकयो स्ति, तदनन्तरं द्वे द्रव्ये इति ज्ञानोत्पादः-कि. भा.। 2 द्रव्यगुणबुद्धेः- जे. दे.। 3 संस्कारात - कं. 1, कं.२। 4 पाठोऽयं-कं.१, कं. 2 पुस्तकयो स्ति। 5 विनाशाद् - कि. जे. / 6 दन्यथा-कं. 1, कं. 2 / 7, 8 गुणनाश-क। 9 इति न युक्तम् - अ, ब, क / 10 मानतेव-अ, ब / 11 इति प्रयोजना-अ, ब / 12 मानताक्षणद्वयात्मक-अ, ब, क। 13 द्वयात्मकवाभिप्रा....ड।।