________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् 289 न्यायकन्दली [123) द्वित्वगुणज्ञानं द्वित्वसामान्यज्ञानस्य विनाशकारणं बुद्धेर्बुद्धयन्तरविरोधात् / तथा द्रव्यज्ञानस्यापि कारणम् / अतो गुणबुद्धयुत्पाद एवैकस्योत्पद्यमानताऽपरस्य विनश्यता स्यात् / द्वित्वगुणज्ञानतत्सम्बन्धेभ्य इति / द्वित्वगुणश्च तस्य ज्ञानं च सम्बन्धश्चेति योजना। [टि० [12 1 तदनन्तरं द्रव्य ज्ञानाद् इत्यादिः / ननु निरूढा ताबदियं प्रक्रिया प्रथमे क्षणे 'एकत्वसामान्यज्ञानोत्पादोऽपेक्षाबद्धेश्चोत्पाद्यमानता / / ततो द्वितीयक्षणे अपेक्षाबुबेरुत्पाद: द्वित्वगुणस्योत्पाद्यमानता, एकत्व]सामान्यज्ञानस्य विनश्यत्ता / 2 / ततस्तनीयक्षणे द्वित्वगुणोत्पाद: एकत्वसामान्यज्ञानस्य विनाशः 'द्वित्वसामान्य ज्ञानस्योत्पाद्यमानता च / 3 / ततश्चतुर्थक्षणे द्वित्वसामान्यज्ञानोत्पादः, द्वित्वगुणबुद्धेरुत्पद्यमानता भपेक्षाबुद्धेविनश्यत्ता / 4 / ततः पञ्चमे क्षणे 'द्वित्वगुणज्ञानोत्पाद: [अपेक्षाबुद्धेविनाशः] द्वित्वगुणस्य "विनश्यत्ता, द्वित्वसामान्यज्ञानस्य विनश्यत्ता द्वे द्रव्ये इति ज्ञानस्योत्पाद्यमानता / 5 / ततः षष्ठे क्षणे द्वे द्रव्ये इति ज्ञानस्योत्पादः संस्कारस्योत्पद्यमानता, 'द्वित्वगुणस्य विनाशः, द्वित्वसामान्यज्ञानस्यापि विनाशः द्वित्वगुणज्ञानस्य विनश्यत्ता।६। ततः सप्तमक्षणे संस्कारस्योत्पत्तिः द्वित्वगुणज्ञानस्य विनाशः दे द्रव्ये इति ज्ञानस्य विनश्यत्ता / 7 / ततोऽष्टमे क्षणे द्वे द्रव्ये इति ज्ञानस्य विनाश इति / [पं०] [123-124] एकस्येति (कं.११८.१० ) द्रव्यज्ञानस्य / अपरस्येति (कं. 118.11) द्वित्वसामान्यज्ञानस्य / "तस्य सम्बन्ध इति (कं. 118.12) ग्राह्यग्राहकभावलक्षणः / तदनन्तरं द्वे द्रव्ये इत्यारभ्य इत्येकः काल इति यावत् (कं. 118.12) एतावता सन्दर्भेण योऽर्थ उक्तः स भाष्याक्षरातिरिक्तोऽस्तीति द्रष्टव्यम् / न मोहो कार्य: यद्यपीत्यादि (कं. 118.13) अत्र द्वित्वं नास्तीति विनष्टत्वात द्वित्वस्य विनाश इत्युक्तेः। तदिति (कं. 118.13) द्वित्वम् / अस्येति (कं. 118.13) द्रव्यज्ञानस्य / स इति (कं. 118.16) कार्योत्पत्त्यनुगुणो व्यापार: / नन्वेवं तर्हि म्यापारस्यैव कारणत्वं न तु मौलिक्यं कारणस्येत्याह-न चेवमित्यादि (कं. 118.18) तस्येति (कं. 118.18) द्वित्वस्य / भाक्तमिति (कं. 118.18) औपचारिकम् / स्वव्यापारेण व्यवधानाभावादिति (कं. 118.18) स्वांशम व्यवधायकमिति वचनात् / शरमुक्तिसमकाल (कं. 118.19) इत्यस्मात्पुर: केनचिच्छत्रुणा / (31-2) इत्यध्याहार्यम् / [कु०] [123] कथमनयोरेककालतेत्यत आह द्वित्वसामान्यज्ञानमिति (कं. 118.4) / तत्सिद्भाव इति (कं. 118.6) अपेक्षाबुद्धिविनाशस्य सद्भावे गणयत उत्तरोत्तरसङख्याभिः सह पूर्वसङ्ख्यानपलम्भः प्रत्यक्षसिद्धः / स चानुपलब्धिकारणान्तरेष्वसत्सु भङ्ग विनाशमेव ग[ण] यति / नत्वेवं कारणान्तरेपि उत्पन्नत्वेन रूपादितया सताऽप्यनुपलम्भो द्वित्वादीनां तदुपलब्धिप्रतिबन्धकत्वं गमयतीति भावः / ननु निमित्तविनाशेऽपि कार्यविनाशे कुलालादिविनाशे घटादिविनाशः स्यादित्यत आह दृष्टो हीति (कं. 118.7) / विनाशकान्तराभावे क्वचिन्निमित्तविनाशस्यापि गुणविनाशकत्वमङ्गीकरणीयम् / इतरथा विनाश आकस्मिक: स्यात् / न चातिप्रसङ्गः यथादर्शनं व्यवस्थापनादिति भावः। इति योजनेति (कं. 118.12) न केवलं विशेषण] ज्ञानमेव विशेष्यबद्धेः कारणं किन्तु जायमानं विशेषणमपि इतरथा बहुवचनं नोपपद्यत इति भावः / 1 ज्ञानसम्बन्धेभ्यः-कं. 1, कं. 2 / 2 प्रतिक्रिया-अ, ब। 3 एक-ड। 4 अपेक्षाऽपेक्षाबुद्धरुत्पाद:-अ, ब। 5, 6 द्वि च-अ। 7 [ ] एलच्चिह्नान्तर्गतः पाठः अबकपुस्तकेषु नास्ति। 8 विमीत्ता-अ, ब / 9 द्विगुणस्य - अ। 10 ज्ञानविनाशः - अ, ब, क / 11 तस्य ज्ञानं च सम्बन्धश्व - कं। 12 तत्सद्भावं-कं. / 13 'हि' कन्दल्यां नास्ति। 37