________________ 288 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली द्वित्वसामान्यज्ञानादपेक्षाबुद्धविनश्यता। उभयैकगुणालम्बना बुद्धि रपेक्षाबुद्धि रित्युच्यते / तस्या द्वित्वसामान्यज्ञानाद्विनश्यता विनाशकारणसान्निध्यं द्वित्वसामान्यात् / तस्य द्वित्वगुणेन सह सम्बन्धाज्ञानाच्च द्वित्वगुणबुद्धे रुत्पद्यमानता उत्पत्तिकारणसान्निध्यम् / द्वित्वसामान्यज्ञानमपेक्षाबुद्धविनाशकं गुणबुद्धेश्चोत्पादकम् / तेन तदुत्पत्तिरेवैकस्य विनश्यता परस्य चोत्पद्यमानतेत्युपपद्यते विनश्यत्तोत्पद्यमानतयोरेककालत्वम् / 'तत इदानीमपेक्षाबुद्धि नाशाद् द्वित्वस्य विनश्यत्तेत्यादि अपेक्षाबुद्धि विनाशो द्वित्वविनाशस्य कारणम्, 'तदभावे तस्यानुपलम्भात् / अतोऽपेक्षाबुद्धिविनाशो द्वित्वस्य विनश्यत्ता / दृष्टो गुणानां निमित्त कारणाविनाशादपि विनाशो यथा मोक्षप्राप्त्यवस्थायामन्त्यतत्त्वज्ञानस्य शरीरविनाशात् / [टि०] इदानीमपेक्षाबुद्धि विनाशाद् इति :-नन्वत्र भाष्येऽपेक्षा बुद्धिविनाशाद् द्वित्वस्य विनश्यत्तति किमित्युक्तम्, अपेक्षाबुद्धिनाशस्य द्वित्वगुणनाशं प्रति कारणत्वेन विनश्यतां प्रत्यकारणत्वात् ? सत्यम्, विनाशं प्रति हेतुत्वे नान्यजन्यताख्यापनार्थं द्वित्त्वविनश्यत्तां प्रत्यपेक्षाबद्विनाशस्य कारणत्वमपचर्यत इति / [पं०] अपेक्षाबुद्धेरिति (कं. 117.27) निमित्तकारणभूतायाः द्वित्वसामान्यादिति द्वित्वसामान्यात् / 1 // तथा तस्य द्वित्वसामान्य द्वित्वगुणेन द्वित्वाख्यसङ्ख्यया सह सम्बन्धात् / / तथा तज्ज्ञानादिति (कं. 118.3) द्वित्वसामान्यज्ञानात् / / 3 / एवं त्रिधा द्वित्वसङ्ख्याबुद्धेरुत्सद्यमानता-उत्पत्तिकारणसान्निध्यं भवतीत्यर्थः / एकस्येति (कं. 118.4) अपेक्षाबुद्धिलक्षणस्य वस्तुनः / 'अपरस्येति (कं. 118.5) द्वित्वगुणबुद्धयाख्यवस्तुनः / ननु समवाय्यसमवायिकारणविनाशाद्दष्ट: कार्यस्य विनाशो, न तु निमित्तकारणविनाशात् , अपेक्षाबुद्धिस्तु द्वित्वोत्पत्ती निमित्तकारणमेव, ततोऽपेक्षाबुद्धिविनाशो द्वित्वविनाशस्य कारणमिति न घटते इति परवचनमाशङ्कयाह "दृष्टो हि गुणानामित्यादि (कं. 118.7) / यथा . मोक्षप्राप्त्यवस्थायामिति (कं. 118.8) नवानामात्मगुणानामत्यन्तोच्छेदो मोक्षः तल्लाभकाले। अन्त्यतत्त्वज्ञानस्य शरीरविनाशादिति (कं. 118.8) तत्त्वज्ञानस्य हि निमित्तकारणं शरीरं, शरीरविनाशे च तत्त्वज्ञानस्यापि विनाश इत्यर्थः / कु०] तदर्थमविशिष्टेति पदम् / एवं द्वित्वादयो हि केवलसामान्य विशिष्टा: प्रतीयन्ते न तू विशिष्टविशेषणसम्बन्धितया। घटस्य द्वित्वमित्यत्र यद्यपि घटत्वसामान्य विशिष्टघटशिष्टतया द्वित्वं प्रतीयते तथापि न भागासिद्धिः शङ्कनीया / "द्रष्टव्यस्येति-विशेषगीभूतस्य द्वित्वस्य पक्षीकरणात् / "सर्वावद्यतयेति - नापि बार्घिटादिभिर्व्यभिचारः स्यादत उक्तं तद्बुद्धिरहितरित्यादि / ईश्वरयोग्यापेक्षया योगाविशेष्यासिद्धिपरिहाराय अस्मदादिभिरिति / विदितपरमार्थमिति भावः / "को वै इति न वयमपेक्षा कल्पनां ब्रूमः वस्तु सत एवं प्रतियोगि बुभुत्सानुसारेण प्रतिपिपादयिषामिति भावः / "सामान्यज्ञानादिति / ... ... तत्सान्निध्यस्य तदुत्पत्तिव्यतिरेकेऽपि हेतुत्वं दर्शयितुं पञ्चमी एवमुत्तरत्रापि / 1 तत इदानीमपेक्षाबद्धिविनाशो द्वित्वविनाशस्य कारणम् - कं. 1, कं२। 2 तत्सद्भावे - कं. 1, कं. 2 / 3 कारणादपि - कं. 1, कं. 2 / 4 विनाश-मु. विनाशात्-जे. 1, जे 3 / 5 भाष्योपेक्षा-अ। 6 बद्धित्वस्य विनश्यत्तेति-अ। 7 नान्यताख्यापनार्थ-अ, ब। 8 सम्बन्धाज्ज्ञानाद्-कं। 9 परस्य-कं / 10 दृष्टो गुणानां -कं। 11, 12, 13, 14 इमानि प्रतीकानि कन्दल्यां न सन्ति-सं. /