________________ 287 टिप्पणपञ्जिकाकुसुमोदगमादिटीकात्रयोपेतम 287 न्यायकन्दली च दण्डीति प्रतीतावितरविलक्षण एव पुरुषः संवेद्यते। वैलक्षण्यं चास्य दण्डोपसर्जन त्वमेव / अत एव विशेषणं व्यवच्छेदकमिति गीयते / दण्डो हि स्वोपसर्जनताप्रतिपत्ति पुरुष कुर्वन् पुरुषमितरस्माद् व्यवच्छिनत्ति। अयमेव चास्योपलक्षणाद्विशेषः / उपलक्षणमपि व्यवच्छिनत्ति न तु स्वोपसर्जनताप्रतीतिहेतुः / नहि यथा दण्डीति दण्डोपसर्जनता पुरुषे प्रतीयते तथा जटाभिस्तापस इति तापसे जटोपसर्जनता, दण्डोपसर्जनता पुरुषस्य प्राधान्यं चार्थक्रियायामुपभोगातिशयाऽनतिशयापेक्षया / नन्वेवं तापेक्षिकोऽयं विशेषणविशेष्यभावो न वास्तवः, किं न दृष्टो भवद्भिः कर्तृकरणादिव्यवहार आपेक्षिको वास्तवश्चेति कृतं विस्तरेण संग्रहटीकायाम् / [टि०] विशेषणे उपलक्षणे वा' तुल्यमिति / ननु घटानां विंशतिरित्यत्र न घटानां तावद्विशेषणत्वं व्यधिक रणत्वात् नाप्यूपलक्षणत्वं, ततीयोत्पत्तिप्रसङ्गात् / न उपलक्षणत्वेऽपि सम्बन्धविवक्षया षष्ठ्या अनिवायमाणत्वात् / तत [पं०] अस्येति (कं. 117.20) विशेषणस्य / उपलक्षणादिति (कं. 117.22) जटादिकात्! जटाभिस्तापसमद्राक्षीदित्यादौ। न तु स्वोपसर्जनताप्रतिपत्तिहेतुरिति (कं. 117.22) न पुनः समानाधिकरणतया इतरव्यावृत्तिप्रतीतिहेतुरि (त्य)र्थः / दण्डोपसर्जनतेति (कं. 117.23) दण्डस्य गुणीभूतता। जटोपसर्जनतेति (कं. 117.24) अस्मात्पुरः प्रतीयते इति योज्यम् / उपयोगातिशयाऽनतिशयापेक्षयेति (कं. 117.25) पुरुषस्य प्राधान्यमुपयोगातिशयापेक्षया दण्डस्योपसर्जनता तूपयोगानतिशयापेक्षयेति ज्ञेयम्, न तु यथासङ्ख्यं द्रव्यम् / बौद्धा: प्राहुः नन्वेवमित्यादि (कं. 117.25) श्रीधरः प्राह किन दृष्टमित्यादि (कं. 117.26) / आपेक्षिक इति (कं.११७.२६) य: क्रियायां मुख्यत्वादत्यन्तमुपयोगी स कर्ता ये तु क्रियायां गौणत्वान्नात्यन्तमुपयोगिनस्ते करणादयः इत्यनया अपेक्षया चरति आपेक्षिकः कर्तकरणादिव्यवहार इत्यर्थः / कि०] चेत्, न / विधिनिषेधयोरेकत्वाङ्गीकारे सर्व सर्वात्मकं(त्व) स्यादित्यत आह अत एवेति (कं. 117.20) / व्यवच्छेदकत्वे समाने कुतोऽयं विशेष इत्यत आह नहि यथेति (कं. 117.23) / विशेषणोपलक्षणयोः सामानाधिकरण्ये, वैयधिकरण्याभ्यां विशेष इत्यर्थः / नन प्रणीतो समानायां दण्डादेर्व्यवच्छेदकत्वं परुषादेर्व्यवच्छेद्यत्वं कत इत्यत आह 'दण्डस्येति (क. 117.24) जटानां चेति शेषः / अर्थक्रियाप्रतिपत्तिलक्षणो अतिशयो व्याप्यत्वम / __नन्ववं त_ति (कं. 117.25) आपेक्षिको न च काल्पनिकः / नियत जातीयविषयबुद्धयनुविध-विशिष्ट विशेषणं बद्धिमद्वेद्यत्वे सति बुद्धिरहितरस्य (वे) दादिभिरभेद्यत्वादित्यर्थः / तत्रास्मदादिदिभिरवेद्यत्वादित्युक्ते गुरुत्वादिभिर्व्यभिचार: तन्निवृत्त्यर्थ वेद्यत्वे सति / बुद्धिरहिते ज्ञानमभिप्रेतं तथापि जागराद्यबुद्धि: प्रयत्नाभ्यामबुद्धिजात्यामपि वदन्मानवेद्याभ्यां व्यभिचार अत उक्तं नियतजातीयेति / तथा द्वित्वत्रित्वादयो नियतजातीयामेकैकगुणविषयिणी बुद्धिमनुविधा [य] प्रतीयमानसामान्यविशिष्टतया गृह्यन्ते, यथा वा दृष्टान्तभूताः सुखादयो नियतजातीयनगादिबुद्धिमनुविधाय प्रतीयमानसुखत्वादिसामान्यविशिष्टाः प्रतीयन्ते / नैवं नागराद्यबुद्धिप्रयत्नौ। तद्यथा पिरन्नकूण्डल्यादयो हि नियतजातीयबिषयबद्धिमनविधाय प्रतीयमानाः कण्डलादिविशिष्टतया प्रतीयन्ते न च बद्धिनाः 1 च - ब; 2 अविचार्यत्वात्- अ, ब; 3 द्रष्टव्यं -ब। 4 न दृष्टो-कं / 5 प्रतीतो इत्यर्थं दृष्ट्वा सम्यग् भाति-सं.। 6 दण्डोपसर्जनता-कं. न तु दण्डस्य इति पाठः /