________________ 284 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली यनियमेनैकप्रतिपत्तृवेद्यं तद् बुद्धिजं यथा सुखादिकम् / नियमेनैकप्रतिपत्तवेद्यं च द्वित्वं तस्मादिदमपि बुद्धिजम् / एवं द्वित्वस्योत्पन्नस्य प्रतीतिकारणं निरूपयति-ततः पुनरिति / ततो द्वित्वोत्पादादनन्तरं द्वित्वसामान्ये तस्मिन् ज्ञानमुत्पद्यते / अत्रापि संयुक्तसमवाय एव हेतुः / एकत्वसामान्यापेक्षया पुनरिति वाचोयुक्तिः। द्वित्वसामान्यं द्वित्वगुणस्य विशेषणम्, न चागृहीते विशेषणे विशेष्ये बुद्धिरुदेति, अतो 'विशेष्यज्ञानकारणत्वेनादौ सामान्यज्ञानं निरूपितम् / भस्य सद्भावेऽपि द्वित्वसामान्यविशिष्टा द्वित्वबुद्धिरेव प्रमाणम् / तस्याः सद्भावेऽपि 'द्वे द्रव्ये इति ज्ञानं प्रमाणम् / द्वे द्रव्ये इति ज्ञानं विशेषणज्ञानपूर्वकं विशिष्टज्ञानत्वाद् दण्डीति ज्ञानवदित्यनुमिते गुणज्ञाने तस्यापि विशिष्टज्ञानत्वेन विशेषणज्ञानपूर्वकत्वमनुमेयम् / ' [वि.] संयोगविषयेन्द्रियसंयोगसंस्कारादिजन्यत्वात् / 'न च तथा ऽऽत्मा तस्य नित्यत्वात्, तत एतेषु बुद्धिजत्वाभावेन विपक्षेषु नियमेनैकप्रतिपतृवे द्यत्वम्य गतत्वादनकान्तिकत्वम् ? सत्यम, तद् व्यवच्छेदार्थ प्रयत्न-शब्द-ज्ञान-ज्ञानाधारान्यत्वे सतीति विशेषणीयम् / [पं०] द्वित्वसामान्ये (कं. 116.18) द्वित्वसामान्ये ज्ञाते सतीत्यर्थः / तस्मिन्निति (कं. 116.18) द्वित्वे / अत्रापोति (कं. 116.19) न केवलमेकत्वे द्वित्वेऽपीत्यर्थः / संयुक्तसमवेतसमवाय एवेति (कं. 116.19) चक्षुःसंयुक्ते द्वे द्रव्ये तयोः समवेतं द्वित्वं, तत्समवेतं द्वित्वसामान्यम् / न चागहीते विशेषणे विशेष्ये बुद्धिरुदेतीति (कं. 116.20) अयमत्र भावः, द्वित्वसामान्ये ज्ञाते एव हि द्वित्वं ज्ञायते / विशेषणज्ञानपूर्वकत्वाद्विशेष्यज्ञानस्य / विशेषणज्ञानपूर्वकमिति (कं. 116.23) द्रव्ये इति विशेषणे ज्ञाते द्वि इति ज्ञायते इत्यर्थः / गुणज्ञाने इति (कं. 116.24) द्वित्व 'सङ्ख्या [ज्ञा] ने। तस्यापीति (कं. 116.24) गुणज्ञानस्यापि / विशेषणज्ञान पूर्वक [त्व] मिति (कं. 116.24) अत्र विशेषणं द्वित्वसामान्यम् / [कु०] विकल्पपराहतत्वात्काकतालीयन्यायेनापेक्षया बुद्धिमतां ज्ञायमानं द्वित्वं सामग्रीभेदादन्यदेवेति विशेष्यासिद्धिश्व नाशङ्कनीयेति / अपेक्षाबुद्धिः द्वित्वजननी, अभिव्यञ्जकत्वानुपपत्तौ सत्यां वुद्ध्या नियमेनानुविधीयमानत्वात् शब्दं प्रति संयोगवदिति चापेक्षाबुद्धेद्वित्वोत्पादकत्वसिद्धिः / न चागृहीतेत्यादिना (कं. 116.21) प्रबन्धेन गृह्यमाणं विशेषणं विशिष्टबुद्धेः कारणमित्युक्तो विशेषविधिः शेषनि [षेध] पर इति न्यायादालम्बनत्वं निषिद्धं भवति / अस्य च प्रयोजनं द्वित्वविनाशकाले तद्विशिष्टबद्धरुत्पत्त्यविरोध इति प्रतिपादनम् / अतस्तद्विवक्षमानानत्थाप्य दूषयति / 3 चन-ड। 4 चात्मा तस्य - ड / 1 विशेष्यविज्ञानं-कं. 1, कं. 2 / 2 द्वे इति ज्ञानं-जे. 2 / 5 वेद्यस्य- अ, ब, क / 6 संयाने -पं.। 7 पूर्वकत्व - कं. /