________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् 285 न्यायकन्दली [122] ये तु विशेषणविशेष्ययोरेकज्ञानालम्बनत्वमाहुः, तेषां सुरभि चन्दनमित्यत्र का वार्ता? नहि चक्षुर्गन्धविषयं न च घ्राणं द्रव्यमादत्ते / अत एव न ताभ्यां सम्बन्धग्रहणम्, उभयसम्बन्धिग्रहणाधीनत्वात्सम्बन्धग्रहणस्य / यथा संस्कारेन्द्रियजन्यं प्रत्यभिज्ञाप्रत्यक्षमुभयकारणसामर्थ्यात्पूर्वापरकालविषयम्, एवं चक्षोणाभ्यां सम्भय जन्यमानमिदं कारणद्वयसामर्थ्यादुभयविषयं स्यादित्येके समर्थयन्ति / तदपि न साधीयः, निर्भागत्वात् / यदि ज्ञानं सभागं स्यात्तदा कश्चिदस्यांशो घ्राणेन जन्यते कश्चिच्चक्षुषेत्युपपद्यते व्यवस्था, किन्त्विदमेकमखण्डमुभाम्यां जनितं यदि गन्धं द्रव्यं च गृह्णाति, तदा गन्धोऽपि चाक्षुषो द्रव्यमपि घ्राणगम्यं प्रसक्तम्, तज्जनितज्ञानविषयत्वलक्षणत्वात्तदिन्द्रियग्राह्यतायाः। न चाणुत्वान्मनसो युगपदुभयेन्द्रियाधिष्ठानसम्भवः / तस्माद् घ्राणेन गन्धे गृहीते पश्चात्तद्ग्रहणसहकारिणा चक्षुषा [टि०] [122] अत एव न ताभ्याम् इति :-करणे तृतीया, कर्तृतृतीयायां तु न कर्तरि इति निषेधात् सम्बन्धग्रहणमित्यत्र कर्मजषष्ठीसमासो न स्यात् / 'प्रत्यक्षतो सति इति :-यद्यपि पुरुषो दण्डी, पर्वतो वह्निमान् इत्युभयत्राप्येकालम्बनत्वमुभयालम्बनत्वं वा तुल्यं तथापि सुरभिचन्दनमित्यत्र बाधवशादेकालम्बनत्वसिद्धावन्यदपि विशिष्ट [पं०] [122] ये त्विति (कं. 116.25) यौमादयः (योगादयः?)। सुरभिचन्दनमित्यत्र का वार्तेति (कं. 116.25) सुरभीति विशेषणं हि घ्राणज्ञानालम्बनमिति, विशेष्यं तु चक्षर्ज्ञानालम्बनमतः कथंचिद्विशेषणविशेष्ययोरेकज्ञानालम्बनता स्यादिति भावः / एतदेवोपपादयति न हि चक्षुरित्यादिना (कं. 116.26) / ताभ्यामिति (कं. 116 26) करणे तृतीया / उभयसम्बन्धिग्रहणाधीनत्वादिति (कं. 117.1) गन्धो द्रव्यं च सम्बन्धिनौ तयोश्च नैकेन ग्रहणमित्यर्थः / एके समर्थयन्तीति (कं. 117.3) नैयायिकैकदेशीयाः। तज्जनितेत्यादि (कं. 117.7) अत्र तदिति शब्देनेन्द्रियम् / यद्यदिन्द्रियजनितज्ञानविषयं तत्तदिन्द्रियग्राह्यमिति वाक्यार्थः / तद्ग्रहणसहकारिणति (कं. 117.8) गन्धग्रहणसहकारिणा। केवलविशेष्यालम्बनमेवेति (कं. 117.9) विशेष्यशब्देनांत्र चन्दनं केवलविशेष्यालम्बनमेवेदं विशेष्यज्ञानं जन्यत इति न पुनरेकज्ञानालम्बने विशेषणविशेष्ये [कु०] [122] ये विति (कं. 116.25) / का वार्ता (कं. 116.26) क: प्रतिकार इत्यर्थः / अत एव न ताभ्यां सम्बन्धग्रहण] मिति (कं. 116.26) परमतानुसारेणोक्तम् / अस्मन्मते समवायस्यानुमेयतया विशिष्टज्ञानं प्रति सत्तया कारणत्वात परमतमाशय निरस्यति यथेति (कं. 117.1) / निर्भागत्वादिति (कं. 117.4) निरवयवस्वादित्यर्थः / निरवयवत्वं च गणत्वादिति द्रष्टव्यम् / नन निर्भागत्वमपि विचित्रकारणजनितत्त्वत] उभयविषयं भविष्यतीत्याशड्याह न चाणुत्वादिति (कं. 117.7) / गन्धग्रहणस्य कारणत्वेन विशिष्टज्ञानोत्पत्तौ सम्भवत्यां तज्जनितसंस्कारस्य चक्षुषे गन्धेऽपि प्रवृत्तिकल्पनायां कल्पनागौरवप्रसङ्ग इति भावः। - अस्तु भिन्नेन्द्रियग्राह्ययोविशेषणविशेष्ययोरेवं मानेन्द्रियग्राह्ययोस्तुतयोविशेष्यज्ञानमुभयालम्बनं भविष्यतीत्यत आह 'तथा सतीति (कं. 117.10) / 'लैङ्गिकज्ञानव्यवच्छेदार्थमिति (कं. 117.12) तस्योभयालम्बनत्वाभावे 1 प्रत्यक्षत्वे सति इति मूलपाठः। 2 मर्थते - ह. पु.। 3 तथा च - कं। 4 लिङ्गिकव्यवच्छेदार्थम्-ह. पु. /