________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् 283 न्यायकन्दली बुद्धिरुत्पद्यते तदैकत्वाभ्यां द्वित्वमारभ्यत 'इत्येककालतानिर्देशः क्षणद्वयात्मकलवाख्यकालाभिप्रायेण / क्षणाभिप्रायेण तु कालभेद एव, कार्यकारणयोः पूर्वापरकालभावात् / ज्ञानादर्थस्योत्पाद इति नालौकिकमिदं सुखादीनां तस्मादुत्पत्तिदर्शनात् / बाह्यार्थस्योत्पादो न दृष्ट 'इति न वैधर्नामात्रम्, तदन्वयव्यतिरेकानुविधायित्वस्योभय'त्राप्यविशेषात् / 'उभयगुणज्ञानालम्बनस्य द्वित्वाभिव्यञ्जकत्वे 'सिद्धे द्वे इति ज्ञामस्य तदा नानन्तर्यनियमोपपत्तिरिति चेन्न, अनियमप्रसङ्गात् / यदि हि द्वित्वमबुद्धिजं स्याद्पादिवत्पुरुषान्तरेणापि प्रतीयेत, नियमहेतोरभावात् / बुद्धिजत्वे तु यस्य बुद्धया यज्जन्यते तत् तेनैवोपलभ्यत इति नियमोपपत्तिः / प्रयोगस्तु द्वित्वं बुद्धिजं नियमेनैकप्रतिपत्तवेद्यत्वाद्, [टि०] बुद्धिकार्यत्वपक्षे तु न दृष्टान्त इति भावः / तदेवं प्रतिबन्धसिद्धाबनुमानयन्ति द्वित्वं बुद्धिजं इत्यादि / एकानेकप्रतिपतृवेद्यघटव्यवच्छेदार्थ नियमेनेत्युक्तम् / ननु तथापि प्रयत्नस्तावन्न बुद्धिजः तस्येच्छाजन्यत्वात्, न च कर्णकोटराध्यासीना शब्दव्यक्तिः, तस्याः पूर्वशब्दजन्यत्वात् ; नापि जागराद्यज्ञानं प्रथमाक्षसन्निपातजं वा स्मृतिर्वा तेषामात्ममन: [पं०] (कं. 116.8) कार्य द्वित्वं कारणमेका बुद्धिस्तयोः कार्यकारणयोः / ज्ञानादिति (कं. 116.9) अपेक्षाबुद्धिलक्षणात् / अर्थस्थेति (कं. 116.9) द्वित्वस्य / ननु ज्ञानात् सुखादीनामा [भ्य]न्तराणामेवार्थानामुत्पत्तिर्दृष्टा न बाह्यानाम्, स्वपेक्षा 'बुद्धिलक्षणज्ञानात्तु द्वित्वस्य बाह्यार्थस्योत्पत्तिविद्भिरुच्यते इति / सुखादीनां तस्मादुत्पत्तिदर्शनादिति (कं. 116.9) असिद्धो हेतुर्वैषम्यादिति / परवचनमाशङ्कयाह - बाह्यार्थस्योत्पादो न दृष्ट इति (कं. 116.1.) / वैधघमात्रमिति (कं. 116.10) वैधय॑मात्रमिति कोऽर्थः ? असदुपालम्भा जातिदूषणमात्रमे [त]दिति यावत् / तदन्वयव्यतिरेकानुविधायित्वस्योभयत्रेति (कं. 116.10) द्वित्वे सुखादौ च। द्वित्वाभिव्यञ्जकत्वेपीमि(ति) (कं. 116.11) निमित्तभावेन जनकत्वं विनापि द्वित्वाभिव्यञ्जकत्वमात्रणव / उभयगुणालम्बनं च ज्ञानान्तरं द्वे इति प्रत्ययं नियमेन करिष्यति, अलं द्वित्वस्योभयगुणालम्बनज्ञानजन्यत्वकल्पनयेत्यर्थः / तदाऽनन्तर्यनियमोपपत्तिरिति (कं. 116.12) उभयगुणालम्बनज्ञानानन्तरभावित्वनिश्चयोपपत्तिः / नियमहेतोरभावादिति (कं. 116.13) जन्यजनकभावो हि नियामकः / [कु०] लोकः प्रमाणं तत्र विहितं लौकिकम् / ततोऽन्यदलौकिकं प्रमाणादिकमित्यर्थः / वैधघमात्रमिति (कं. 116.10) सामान्यव्याप्तिमदूषयित्वा “पक्षे साध्यानङ्गीकारे विवक्षितपर्वतवतिनोऽपि धुमस्य वह्निपूर्वकत्वं न दृष्टमित्यादेऽपि सुवचत्वादनुमानमात्रोच्छेदप्रसङ्ग इत्यर्थः / ज्ञानान्वयव्यतिरेकानुविधायित्वं न द्वित्वस्य किन्तु तज्ज्ञानस्येति शङ्कते उभयगुणेति (कं. 116.11) / नियमेनकप्रतिपतृवेद्यत्वादिति (कं. 116.15) अभिव्यक्तिपक्षे नित्यानित्यत्वादि 1 इत्येककालनिर्देश:-कं. 1, कं. 2 / 2 इति वैधर्म्यमात्रम्-जे. 1, जे. 3 / 3 उभयत्राविशेषात्-कं. 1, कं. 2 / 4 उभयगणालम्बनस्य-कं.१, कं.२। 5 सिद्धे सति-कं. 1, कं. 2 / 6 तदाऽनन्तर्य-जे. 1. जे. 2 / 7 तदा नानन्तर्य-कं 8 पे. (ह. पु.)।