________________ 282 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली सम्बन्धात्, बहिनिर्गमनाभावात्, चक्षुरधिष्ठानादेव च तस्य सम्बन्धा ज्ञानोत्पत्तिहेतवः / एवं च सति युगपदनेकेषु विषयेषु ज्ञानं भवत्येव, कारणसामर्थ्यात् / तच्च भवदेकमेव प्रभवति, आत्मान्तःकरणसंयोगस्यैकस्यैकज्ञानोत्पत्तावेव सामर्थ्यात् / अत एव 'सविकल्पकोत्पत्तिरपि, युगपदभिव्यक्तेष्वनेकसङ्केतविषयेषु संस्कारेषु स्मृतिहेतुष्वात्मान्तःकरणसंयोगस्य सामर्थ्यादेकस्यानेकविषयस्मरणस्योत्पादात् / यदि नामानेकगुणालम्बनका बुद्धि'रुपजाता ततः 'किमित्यत आह ? तदा तां बुद्धिमपेक्ष्यकत्वाभ्यामेकगुणाभ्यां स्वाश्रययोर्द्रव्ययोद्वित्वमारभ्यते / स्वाश्रययोः समवायिकारणत्वम्, एकगुणयोरसमवायिकारणत्वम्, अनेकविषयाया बुद्धनिमित्तकारणत्वम् / यदैकगुणयोरेका [टि०] तदपेक्षणादित्याशङ्कते उभयगुणालम्बनस्य इति / यदि हि इत्यादि :-यदि हि द्वित्वमपेक्षाबुद्धयभिव्यक्तं स्यात्तदा यथा प्रदीपाभिव्यक्तो घट: पुरुषान्तरेणोपलभ्यते तथा द्वित्वमप्यूपलभ्येत, न त्वेवमस्ति, यस्यैव हि उभयैकत्वालम्बना बुद्धिस्तस्यैव द्वित्वप्रत्ययात् / बुद्धिजत्वे तु यस्य इति :-यस्यैव बुद्धया सुखं जन्यते तस्यैव सुखज्ञानं नान्यस्येति पं०] द्वितीयस्येति (कं. 115.24) चक्षुरिन्द्रियस्य / तस्येति (कं. 115.24) चक्षुरिन्द्रियस्य / अन्तःकरणमिति (कं. 115.26) कर्तृभूतं चक्षुरिति / कर्मभूतं विषय सम्बन्धान् इति शसन्तं पदम् / तस्येति (कं. 115.27) मनसः / सम्बन्धा इति (कं. 115.27) कर्तृभूताः / एकज्ञानोत्पत्तावेव सामर्थ्यादिति (कं. 116.1). एकस्मिश्चाक्षषे ज्ञाने अनेकविषयग्रहणं भवत्येव इन्द्रियान्तरज्ञानं तु न भवति तदिति परमार्थः न विकल्पद्वयं सकृदिति / सौगतमतं निरस्यन्नाह अत एवेत्यादि (कं. 116.1) / एकस्यानेकविषयस्मरणोत्पादादिति (कं. 116.3) अनेकविषयत्वेऽपि स्मरणमेकमेवेत्यर्थः / अनेकगुणालम्बनेति (कं. 116.3-4) अनेकसङ्ख्यालम्बना पृथग् द्रव्यद्वयाश्रितकैकसङ्ख्याश्रिता इति यावत् / एका बुद्धिरिति (कं. 116.4) द्वित्वबुद्धिः। स्वाश्रययोरिति (कं. 116.5) द्रव्ययोः / एकगणयोरिति (कं. 116.6) एकाख्यासख्ययोः / क्षणद्वयात्मकलवाख्यकालाभिप्रायेणेति (कं. 116.8) प्रथमक्षणे बुद्धिरुत्पद्यते, द्वितीयक्षणे तामपेक्ष्य द्वित्वमुत्पद्यतेऽजो बुद्धिः कारणं द्वित्वं कार्यम् / कार्यकारणयोरिति [कु०] चक्षुष एकत्वं समर्थ्य प्रतिविषयं मनसम्बन्धस्य भेदं विचारयति तत्रेति (कं. 115.26) / तहि विषयभेदे ज्ञानं भिन्न(न)त्वित्यत आह तच्च भवदिति (कं. 115.28) / तत्र तर्कमाह अत एवेति (कं. 116.1) / यदि विषयभेदो ज्ञानं भिन्द्यात् समूहालम्बनं सविकल्पकं न स्यादिति भावः। "लवात्मकेति (कं. 116.8) अवच्छेदकतपनपरिस्पन्दसमुदायस्यैकत्वं, विवक्षया तदवच्छिन्नस्याप्येकत्वमविरुद्धमित्यर्थः / [अलौकिकमिति (कं.११६.९)] “लोक्यतेऽनेनेति 1 भवति-जे. 1, जे. 2 / 2 सविकल्पो-कं. 1, कं. 2 / 3 रुत्पन्ना-जे. 1, जे. 2 / 4 किमेतावताकं. 1, कं. 2 / 5 तदेतां-कं. 1, कं. 2 / 6 सम्बन्धाद् - कं। 7 क्षणद्वयात्मलवाख्यकाल इति कन्दल्याम् / 8 अत्र [अलौकिकमिति] प्रतीकेन भाव्यम्-सं / (3 . ह. पु.)