________________ टिप्पणपञ्जिकाकुसुमोदगमादिटीकात्रयोपेतम् 281 __न्यायकन्दली तेनादौ 'तत्रैव ज्ञानं चिन्त्यते / न च प्रत्यासत्तिमन्तरेण चाक्षुषं ज्ञानं जायत इत्येकत्वसामान्यस्येन्द्रियेण संयुक्तसमवेतसमवायलक्षणः सम्बन्धो दर्शितः / एवं ज्ञानोत्पत्ती भूतायामेकत्वसामान्यात् तस्यैकत्वस्यैकगुणाभ्यां सम्बन्धाज्ज्ञानाच्च एकगुणयोरनेकविषयिण्युभयक गुणालम्बिन्येका बुद्धिरुत्पद्यत इति, एकं चक्षुरिन्द्रियमन्तःकरणेन युगपदुभयोरधिष्ठानासम्भवादेकस्यैव सर्वदा विषयग्राहकत्वे द्वितीयस्य कल्पनावैयर्थ्यात् / तस्योभाभ्यां गोलकाभ्यां रश्मयो 'निस्सरन्ति विषयैश्च सह सम्बध्यन्ते, प्रदीपस्येव गृहान्तर्गतस्य गवाक्षविवराभ्याम् / तत्रान्तःकरणं साक्षाच्चक्षुरधितिष्ठति न विषय [टि०] नन्वेकस्मादात्म[म]नःसंयोगादस्त्वेकस्यैव निर्विकल्पस्योत्पत्तिः युगपदनेकसङ्केतस्मरणाभावात्, सविकल्पक 'त्वनेकमेवास्तु इत्याशङ्कयाह - अत एव 'सविकल्पकेति। - ___ननु द्वित्वे सामान्यविशेषरूपे नित्येऽप्यङ्गी क्रियमाणेऽपेक्षाबुद्धयन्वयव्यतिरेकानुविधानं भविष्यति स्वाभिव्यक्त्यर्थ [पं०] अत्र एका बुद्धिरुत्पद्यत इति "त्रिषु स्थानेषु सम्बध्यते / तद्यथा एकत्वसामान्यादेका बुद्धिरिति द्वित्वबुद्धिरुत्पद्यते / तथा तस्यैकत्वस्यैकगुणाभ्यामिति (कं. 115.21) एकाख्या सङ्ख्याभ्यां सम्बन्धादेका बुद्धिरुत्पद्यते / तथा तज्ज्ञानाच्चेति (कं. 115.21) एकत्वज्ञानादेका बुद्धिरुत्पद्यते / एकगुणयोरिति (कं. 115.22) एकाख्यासङ्ख्ययोः / उभयैकगुणा लम्बनवतीति (कं. 115.22) उभयरूपौ द्रव्यद्वयस्थौ यो एकगुणौ एकाख्यौ द्वे सये ते आलम्बनम् आश्रयोऽस्यास्तीति उभयकगुणालम्बनवती एवं विधा द्वित्वधीरुत्पद्यत इति वाक्यार्थः / अथ किम् तया उभयगुणालम्बनया (लम्बिन्या) एकबुद्धया (द्वि) विधं य चक्षुर्गोलकयुगाधिष्ठानचक्षुरिन्द्रियद्वयेनापि युगपदनयोर्गुणयोर्गृहीतत्वात् तत्राह एक चक्षुरिन्द्रियमित्यादि (कं. 115.22) / अथवा एवमापातनिका क्रियते न तु द्वित्वं द्वयोर्वस्तुनी गुह्यमाणयोर्भवति तत्कथमनेकविषयं ज्ञानं युगपदुत्पद्यते इत्याशङ्कयाह एकं चक्षुरिन्द्रियमित्यादि / एकं चक्षुरिन्द्रियमिति कोऽर्थः ? गोलकद्वयं दृष्ट्वा द्वे चक्षुरिन्द्रिये इति मा मंस्था, उभाभ्यामपि गोलकाभ्यामेकमेव चक्षुरिन्द्रियमित्यर्थः / [कु०] ननु प्रतिविषयं भिन्ना एव बुद्धयः, विषयावच्छेदस्यैव बुद्धिभेदहेतुत्वात् / किञ्च कारणभेदादपि चाक्षुष्यो बुद्धयो न नि[प] द्यन्त इत्याशङ्कां चक्षुरेकत्वे साधने दूषयति एकं चक्षुरिति (कं. 115.22) / अन्तःकरणेनेति . (कं. 115.23) अणुत्वादिति शेषः। एकस्येति (कं. 115.23) रूपोपलब्धितृष्णापूर्वकं कर्म एकेनैव स्वकार्य निर्वर्तयितुमीष्टे यथा रसनेन रसोपलब्धितृष्णापूर्वकं कर्म / ततश्च द्वितीयकल्पनायां प्रमाणाभाव इत्यर्थः / ननु यद्येक चक्षुः कथं तहि द्वित्वमुपलभ्यत इत्यत आह तस्येति (कं. 115.24) / न तावच्चक्षुः प्रत्यक्षं येन तद्वित्वमुपलभ्यते किन्तु अधिष्ठाने चक्षुत्वभ्रमः ततश्च द्वित्वमपि तदीयमेवेति भावः / 1 तत्र ज्ञानं-जे. 1, जे. 2 / 2 गुणालम्बनवती- जे. 1, जे. 2 / 3 निश्चरन्ति - जे. 1, जे. 2 / 4 त्वेक-ड। 5 सविकल्पे- मु. सविकल्पके-जे. 1, जे. 3 / 6 क्रियमाणोपक्षा-अ, क्रियमाणोपेक्षा-ब / 7. द्विषु-अ। 8 तथा-कं. पुस्तके नास्ति / 9 गुणालम्बिनी-कं /