________________ 280 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् __ न्यायकन्दली [121] तस्याः खल्वेकत्वेभ्योऽनेकविषयबुद्धिसहितेभ्यो निष्पत्तिरपेक्षाबुद्धिविनाशाच्च विनाशः / खल्वित्यवधारणे, तस्या एकत्वेभ्यो निष्पत्तिरेव, न त्वेककगुणसमुच्चयमात्रत्वमित्यर्थः / एकत्वे चैकत्वानि चेति समासाश्रयणम्, अन्यथा द्वित्वोत्पत्तिकारणं न कथितं स्यात् / अनेकविषयबुद्धिसहितेभ्य इति / अनेकशब्द एको न भवतीति व्युत्पत्त्या द्वयोर्बहुषु च द्रष्टव्यः, अनेकेषु विषयेषु या बुद्धिस्तत्सहितेभ्य इति / एतदेव प्रश्नपूर्वकं प्रतिपादयति-कथमित्यादिना / यदा यस्मिन् काले बोद्धरात्मनश्चक्षुषा समानजातीययोर्घटयोरसमानजातीययोर्घटपटयोर्वा सन्निकर्षे 'संयोगे भते सति चक्षःसंयुक्तयोर्द्रव्ययोः प्रत्येकं समवेतौ 'यावेकैकगुणौ तयोः समवेतं यदेकत्वं सामान्यं तस्मिन् ज्ञानमुत्पद्यते / विशेषणज्ञानं विशेष्यज्ञानस्य कारणम् / एकगुणयोश्च विशेष्ययोरेकत्वसामान्यं विशेषणम्, [टि०] [121] एकगुणयोश्च इति :-एकत्व सामान्याश्रयो गुणावेकगुणाविति विग्रहः कार्यः / न च विषय सम्बन्धात् (सम्बन्धम्) इति :- विषयैः सह यः सम्बन्धस्तं नाधितिष्ठति, विषयैः सह मनो न सम्बध्यते इति भावः / ननु तर्हि विषयान्तःकरण सम्बन्धाभावात् कथं मनःसम्बद्धानां ज्ञानहेतृत्वमित्याह चक्षुरधिष्ठानादेव च इति / तस्य मनसः सम्बन्धाश्चक्षुरधिष्ठानद्वारेणैव कार्यहेतवो न तु साक्षाद् विषयाधिष्ठानद्वारेण / [पं०] सङ्ख्ययोः ! तेनादौ तत्र ज्ञानं चिन्त्यत इति (कं. 115.18) तत्रेति एकत्वसामान्येनागृहीतविशेषणाद्विशेष्ये बुद्धिः प्रवर्तते / अतः प्रथमम् एकत्वसामान्यज्ञानं, तत एकगुणज्ञानमिति वाक्यार्थः / न च प्रत्यासत्तिमन्तरेण चाक्षुषं ज्ञानं जायत इति (कं. 11519) सम्बद्धं वर्तमानं च गह्यते चक्षरादिना- इति वचनात् / प्रत्यासत्तिमेव दर्शयतिएकत्वसामान्यस्येत्यादिना (कं. 115.19) / इन्द्रियेणेति (कं. 115.20) चक्षुरिन्द्रियेण सह / संयुक्तसमवेत समवायलक्षण इति (कं. 115.20) चक्षुरश्मिभिः संयुक्तं घटादि, तेन समवेता सङ्ख्या, तया सह समवाय एकत्वसामान्यस्येत्यर्थः / ज्ञानोत्पत्तौ इति (कं. 115.21) सामान्यज्ञानोत्पत्तौ। एकत्वसामान्यादित्यादि (कं. 115 21) [कु०] [121] न त्वेककेति (कं. 115.10) तथा द्वे, द्वित्व त्रित्वव्यवस्थानुपपत्तिरिति भावः / समासग्रहणमतन्त्रेण ग्रहणं तच्च जातो बहुवचननिर्देशात्सिद्धं यथा 'हलोऽनन्तराः संयोग इति भावः / एतदेवेति (कं. 115.14) एकत्वानामसमवायिकारणत्वम्, अनेकैकविषयिण्या बुद्धेश्च निमित्त कारणत्वमित्यर्थः / नत्वनेकैकगुणविषयिणी बुद्धिद्वित्वादेरुत्पादिकेत्यभिप्रायः / एकत्वसामान्यबुद्धिचिन्ता क्वोपयुज्यत इत्यत आह विशेषणज्ञानमिति (कं. 115.17) / 1 विनाशाद्विनाशः-कं. 1, कं.२। 2 मात्रमित्यर्थः-जे. 1, जे. 2 / 3 संयोगे सति- कं. 1, कं. 2 / 4 यावेकगुणौ- कं. 1; कं. 2 / 5 सामान्याश्रयोवेकगुणाविति -अ। 6 सम्बन्धाम् - अ, ब; सम्बन्धात् - क, मु. - जे. 1, जे. 3 / 7 सम्बन्धां कथं -अ। 8 तत्रैव-कं. /