________________ टिप्पणपञ्जिकाकुसुमोद्गमाविटीकात्रयोपेतम् 279 प्रशस्तपादभाष्यम् [121] [122] [123] तस्याः खल्वेकत्वेभ्योऽनेकविषयबुद्धिसहितेभ्यो निष्पत्तिरपेक्षाबुद्धिविनाशाद् विनाश इति / कथम् ? यदा बोद्धश्चक्षुषा समानासमानजातीययोर्द्रव्ययोः सन्निकर्षे सति तत्संयुक्तसमवेतसमवेतैकत्व'सामान्यज्ञानोत्पत्तावे'कत्वसामान्यसत्सम्बन्धज्ञानेभ्य. 'एकगुणयोरनेकविषयिण्येका बुद्धिरुत्पद्यते तदा तामपेक्ष्यकत्वाभ्यां स्वाश्रययोद्वित्वमारभ्यते / ततः पुनस्तस्मिन् द्वित्वसामान्यज्ञानमुत्पद्यते / तस्माद् द्वित्वसामान्यज्ञानादपेक्षाबुद्धेविनश्यत्ता, द्वित्वसामान्यतत्सम्बन्धतज्ज्ञानेभ्यो द्वित्वगुणबुद्धरुत्पद्यमानतेत्येकः कालः / तत इदानीमपेक्षाबुद्धिविनाशाद् द्वित्वगुणस्य विनश्यत्ता, 'द्वित्वगुणबुद्धितः सामान्यबुद्धेरपि विनश्यत्ता, द्वित्वं गुणज्ञानतत्सम्बन्धेभ्यो द्वे द्रव्ये इति द्रव्यबुद्धेरुत्पद्यमानतेत्येकः कालः। न्यायकन्दली ___ अनेकद्रव्या तु द्वित्वादिका परान्तिा। द्वित्वमादिर्यस्याः सा द्वित्वादिका, परार्धान्तो यस्याः सा परार्धान्ता। यस्मिन्नियत्ताव्यवहारः समाप्यते स परार्धः / एकद्रव्यवत्तिन्या 'एकत्वसङ्घयायाः सकाशाद् द्वित्वादेरनेक"वृत्तित्वविशेषप्रतिपादनार्थः 'तु' शब्दः / [रि०] प्यतिदेश: ? नवम्, सलिलं कार्यरूपं, तच्च तदादिभूतपरमाणवश्च "सलिलादिपरमाणवः / अथवा सलिलादयः कार्यरूपाः, ते च प्रत्यासत्तेस्तत् परमाणवश्चेति विग्रहेण द्वयोरपि ग्रहणात् / [पं०] [121] "एकक गुणादिति (115.16) एककलक्षणे सङ्ख्ये द्वे / एकगुणयोरिति (115.18) एकाख्य[कु०] [120] "तस्या भेदमिति (कं. 114.25) गुणान्तरेभ्यो वैधर्म्य दर्शयितुमिति शेषः / सलिलादिपरमाणुरूपादीनामिति (कं. 115.2) भाष्यपदस्यायं विग्रहः, सलिलमादिर्यस्य तत् सलिलादि स चासौ परमाणुश्च सलिलादिपरमाणुः, तस्य रूपमादिर्येषां यणकादिरूपादीनामिति / यस्मिन्नियत्तेति (कं. 115.7) अयमर्थ आगमात्प्रत्येतव्यः / .1 सामान्ये - जे. 1 / 2 'एकत्वसामान्यज्ञानोत्पत्तो' इत्यधिक 'द' पुस्तके। 3 सम्बन्धतज्ज्ञानेभ्यः-कि. भा. व्यो. (457) / 4 एकत्वगुणयोः कि.। 5 तस्मादद्वित्वसामान्यज्ञानादपेक्षाबुद्धिविनाशाद् द्वित्वगुणस्य विनश्यत्ता, द्वित्वगुणबुद्धितः सामान्यबुद्धरपिरपि विनश्यत्ता द्वित्वगुणज्ञानतत्सम्बन्धेभ्यो द्वे द्रव्ये इति द्रव्यबुद्धरुत्पद्यमानतेत्येकः काल: -दे, ततः पुनः-कि. भा.। 6 तज्ज्ञानतत्सम्बन्धेभ्य:- (यो. 457), तत्सम्बन्धज्ञानेभ्यः-जे.। 7 द्वित्वगुणज्ञानं द्वित्वसामान्यज्ञानस्य विनाशकारणम् - कं. 1, कं. 2 / 8 गुणतज्ज्ञानसम्बन्धेभ्यः- कं. 1, कं. 2 / 9 एकसङ्ख्यायाः -ने. 2 / 10 वृत्तिविशेष -जे. 1, जे. 2 / 11 सलिलादिपरमाणवश्र, सलिलादिपरमाणबःअ, ब, क / 12 एकगुणो-कं.। 13 तस्य -इ. पु /