________________ 278 न्यायकन्वलीसंबलितप्रशस्तपावमाष्यम् प्रशस्तपादभाष्यम् J120] सा पुनरेकद्रव्या चानेकद्रव्या च। तत्रैकद्रव्यायाः सलिलादिपरमाणुरूपादीनामिव नित्यानित्यत्वनिष्पत्तयः / अनेकद्रव्या तु द्वित्वादिका परार्द्धान्ता। न्यायकन्दली . यदपि द्रव्यव्यतिरिक्ता सङ्घया न विद्यते, भेदेनाग्रहणादित्युक्तम्, तदप्ययुक्तम्, परस्परप्रत्यासन्नानां वृक्षाणां दूरादेकत्वाद्यग्रहणेऽपि स्वरूपग्रहणस्य सम्भवात् / एवं रूपादिव्यतिरेकोऽपि व्याख्यातः, दूरे रूपस्याग्रहणेऽपि द्रव्यप्रत्ययदर्शनात् / {120] एवं सिद्धे सङ्ख्यास्वरूपे तस्या भेदं प्रतिपादयति-सा पुनरेकद्रव्या चानेकद्रव्या चेति / एक द्रव्यमाश्रयो यस्याः सा एकद्रव्या ! अनेक द्रव्यमाश्रयो यस्याः सा अनेकद्रव्या। 'च' शब्दावेकद्रव्यानेकद्रव्ययोरन्योन्यसमुच्चयं प्रदर्शयन्तौ प्रकारान्तराभावं कथयतः / तत्रैकद्रव्यानेकद्रव्ययोर्मध्ये एकद्रव्यायाः सलिलादिपरमाणुरूपादीनामिव नित्यानित्यत्वनिष्पत्तयः यथा सलिलपरमाणौ रूपरसस्पर्शा नित्यास्तथैकत्वसङ्ग्यापि / यथा च कार्य सलिलस्य रूपादयोऽनित्या आश्रयविनाशाद्विनश्यन्ति कारणगुणप्रक्रमेण च निष्पद्यन्ते, तथैकत्वसङ्घयापि। [टि०] [120] सलिलादिपरमाणुरूपादीनामिति-ननु सलीलादिपरमाणुरूपादीनां नित्यत्वेन तत्कथम'नित्यत्वस्या [पं०] नीलाकारं में ज्ञानं तस्माद् हि नीलेन भाव्यमित्युल्लेखवेद्या नीलादयः स्वतः स्वरूपविप्रकृष्टा एवेति भावः / सर्वत्रेति (कं. 114.17) सङ्ख्यायां नीलादी अर्थे च / एकत्रेति (कं. 114.17) सङ्ख्यादौ / अन्यत्रापीति (कं. 114.17) नीलादावपि / बाह्यवस्त्वननुरोधिन इति (कं. 114.20) सौत्रान्तिकमतापेक्षया / [120] कार्यस लिलरूपादय इति (115.4) जलावयवारब्धावयविनः / [कु०] एवं रूपादिव्यतिरेक इति (कं. 114.23) रूपादिभ्यः सङ्ख्याया व्यतिरेक इत्यर्थः। द्रव्यप्रत्ययदर्शनादिति (कं. 114.24) सङ्खयाविशिष्टस्य द्रव्यस्य प्रत्ययो दृश्यत इत्यर्थः / एतेन स्वरूपाभेद एकत्वं स्वरूपाभे [दो] द्वित्वादिकमिति प्रत्युक्तं, स्वरूपाभेदस्य प्रतिवस्तुनियतत्वादेकत्वस्य चानुवृत्तत्वात् / स्वरू[प] भेदस्य च द्वित्वादिषु परार्धान्तेषु साधारण्येन द्वित्वत्रित्वादिसङ्करप्रसङ्गादिति / तद्वदसमुच्चय एकत्वं समुच्चयो द्वित्वादिकमिति प्रत्युक्तं द्वित्वादेरेव समुच्चयत्वात् भिन्नानामभिन्नबुद्धयग्रहमात्रस्य समुच्चये द्वित्वादिविलोपप्रसङ्गाच्चेति / न च सामान्य विशेषा एकत्वादयः सन्त्विति वाच्यं पृथिवीत्वादिभिः सह सङ्करप्रसङ्गादिति / एकादिव्यवहार इति च गणनामात्रस्य विवक्षितत्वात प्रत्येक भागासिद्धिः / समुदायस्य स्वरूपासिद्धिरिति भावे बक्तव्यं गणनाहेत्वेकस्यैकत्वादिपरार्धान्तसर्वसङ्ख्या साधारणत्वादिति / 1 एकद्रव्या-जे. 1, जे. 2 / 2 सलिलरूपादय-जे. 1, जे. 2 / 3 मनित्यस्याप्य-ब, क / 4 सलिलस्य-कं. /