________________ टिप्पणपञ्जिकाकुसुमोदगमादिटीकात्रयोपेतम 277 . न्यायकन्दली निबन्धनः संवादो व्यवस्थाप्येत, नापि सदृशाकारोपलम्भ एव सर्वत्र, विलक्षणाकारोपलम्भस्यापि क्वचिद् भावात् / न चार्थजत्वादेव नीलाकारस्याभ्रान्तत्वसिद्धिः, अर्थस्याप्रतीतो तज्जन्यत्वविनिश्चयायोगात्, अन्यतश्च प्रमाणादर्थप्रतीतावाकारकल्पनावैयर्थ्यात्, आकारसंवेदनादेवार्थसिद्धयभ्युपगमे 'चाभ्रान्ताकारसंवेदनार्थसिद्धिः, सिद्धे चार्थे तज्जन्यत्वविनिश्चयादाकारस्याभ्रान्तत्वसिद्धिरित्य'न्योन्यापेक्षत्वम् / अबाधितत्वं च नीलाकारवज्ज्ञानारूढस्य सङ्ख्याकारस्याप्यस्ति, अर्थगतत्वेन च बाधाया असम्भवो नीलादिष्वपि 'दुरधिगमः, तेषां स्वरूपविप्रकृष्टत्वात् / तस्मादाकारमात्रसंवेदनमेव सर्वत्र, 'स चेदेकत्राऽनर्थजोऽन्यत्रापि तथैवेति न नीलादिसिद्धिः / असति बाह्ये वस्तुनि स्वसन्तानमात्राधीनजन्मनो वासनापरिपाकस्य कादाचित्कत्वानुपपत्तौ तन्मात्रहेतो!लाद्याकारस्य कादाचित्कत्वासम्भवानीलादिकल्पनेति चेत्, एक द्विव्याद्याकारस्यापि बाह्यवस्त्वननुरोधिनो न कावाचिकत्वमुपपद्यत इति सङ्घयापि कल्पनीया, उपपत्तेरुभयत्राप्यविशेषात् / [टि०] क्वचिदप्यबाधितत्वान्नीलाकार स्याभ्रान्तत्वमित्याह अबाधितत्वं च इति / ननु नीलाद्याकाराणामर्थगतत्वादभ्रान्तत्वम्, सङ्ख्याकारस्य तु ज्ञानारूढत्वात् भ्रान्तत्वमित्याह अर्थगतत्वेन च इति :- सौत्रान्तिकमते ह्यर्थः स्वरूपविप्रकृष्ट एव / पं०] वैकस्मिन्ज्ञाने नीलाकारो नियतः। विलक्षणाकारोपलम्भस्यापि क्वचिद्धावादिति (कं. 114.10) नीलाकारानन्तरं पीताकारस्याऽनुभूयमानत्वात् / अर्थप्रतीतिस्तदा भवति यदार्थाकारे ज्ञाने सक्रान्तो भवति / न चैवमस्ति [अ] कारस्याद्याप्यप्रतीतत्वात् / अर्थे हि प्रतीते नीलाकारप्रतीतिः। अन्यतश्च प्रमाणादिति (कं. 114.11) .अनुमानात् / तेषामिति (कं. 114.16) नीलादीनाम् / स्वरूपादपकृष्टत्वादिति (कं. 114.16) सौत्रान्तिकमते हि कु०] न च 'प्रत्येक इति (कं. 114.7) एवं हि सादृश्यप्रतिपत्तिर (म) यमनेन सदृश इति / तथा च द्वयो राकारयोरेकज्ञानविषयत्वेन भवितव्यम् / तत्तु [तत्त्वदर्शनेन सम्भवतीति भावः / ननु च पूर्वविदि जानजनिततद्वासनासविदस्योत्तरान्तरस्य विज्ञानस्योत्पत्तेराकारसादृश्यप्रतिपत्तिर्भविष्यतीत्यत आह नापीति (कं. 114.9) / स्वदर्शनश्रद्धातिशयेनोभयोरपि विज्ञानयोः स्वाकारमात्रनिय ते]च्छाविशेषेऽपि नीलादिज्ञानविषयसंवादात् प्रमाणत्वमिति शङ्कां निरस्यति न चेति (कं. 114.10) / आकारकल्पनावैयर्थ्यात् [इति] (कं. 114.12) अन्यस्य स्वाकारं विहायार्थविषयत्वाङ्गीकारे सर्वस्यापि तथात्वेनाकारविलोपप्रसङ्गादित्यर्थः। आकारस्याबाधितत्वकादाचित्कत्वाभ्यां बाह्यार्थसिद्धिरिति शङ्काद्वयं क्रमेणोपन्यस्य तुल्यन्यायतया निरस्यति स्वाकारेत्यादिना (कं. 114.8) उभयत्राप्यविशेषा (कं. 114.20 )दित्यन्तेन / 1 वाऽभ्रान्ता-कं. 1; कं. 2 / 2 न्योन्यापेक्षित्वम् - कं. 1; कं. 2 / 3 दुरवधिगमः - जे. 3 / 4 न- कं.१; कं. 2 / 5 द्विश्याकारस्यापि-कं. 1; कं. 2 / 6 रस्याभ्रान्तित्व -अ, ब; रस्य भ्रान्तत्व-ड; 7 प्रत्येकम् -कं /