________________ 276 न्यायकन्दलीसंवलितप्रशस्तपावभाष्यम् न्यायकन्दली नन्वयं प्रत्ययो रूपादिविषयः? न, तत्प्रत्ययविलक्षणत्वात् / रूपनिमित्तो हि प्रत्ययो नीलं पीतमित्येवं स्यान्न त्वेकं द्वे 'इत्यादि / अस्तु तहि निविषयो रूपादिव्यतिरिक्तस्यार्थस्याभावात् / कुतोऽस्मिन्नेकदिव्याद्याकारो जातः? 'आलयज्ञानप्रतिबद्धवासनापरिपाकादिति चेत् ? नीलाद्याकारोऽपि तत एवास्तु, नहि ज्ञानारूढस्य तस्य सङ्ख्याकारस्य 'च कश्चिदनुभवकृतो विशेषो येनैकोऽर्थजोऽनर्थजश्चापर इति प्रतिपद्यामहे / अथायं विशेषोऽयमभ्रान्तो नीलाकारः, सङ्घयाकारस्तु विप्लुत इति / तदसारम, नीलाकार'स्याप्यत्राभ्रान्तत्वे प्रमाणाभावात्। न तावत् क्वचिदस्यास्ति संवादः, तदेकज्ञाननियतत्वात् क्षणिकत्वाच्च / अत एव नार्थक्रियापि / न च प्रत्येकं सर्वज्ञानेषु स्वाकारमात्रसमाहितेषु पूर्वापरज्ञानत्तिनामाकाराणां सादृश्यप्रतिपत्तिरस्ति, येन तत्सदृशाकारप्रवाहोपलब्धि न येनैव नीलाकारेण मया पूर्वमर्थक्रिया कृता तेनैवेदानीमपि करोमीत्यर्थक्रिया अभ्रान्तत्वे प्रमाणं भविष्यतीत्याह अत एव नार्थक्रियापि इति / नापि सदशेति :-स्तम्भदर्शनानन्तरं कुम्भदर्शनस्यापि भावात / नन पिं०] सौत्रान्तिक: प्राह नन्वयमित्यादि (कं. 113.22) रूपादिविषय इति (कं. 113.22) न तु सङ्ख्यादिविषय . इति भावः। परः प्राह अस्तु तीत्यादि (कं. 113.23) / अर्थस्येति (कं. 114.1) सङ्ख्यालक्षणस्य। श्रीधरः / पृच्छति कुतोऽस्मिन्नित्यादि (कं. 114.1) / आलयविज्ञानेत्यादि (कं. 114.2) सामान्याकारज्ञानसन्तान आलयज्ञानम् / तस्येति (कं. 114.2) नीलाद्याकारस्य / 'विप्लव (प्लुत) इति भ्रान्तः / क्वचिदस्यास्तीति (कं. 114.6) अस्य नीलाकारस्य / तदेकज्ञाननियतस्वादिति (कं. 114.6) नीलाकारो यस्मिन् स्वमाकारमपितवान् तस्मिन्ने [कु०] भाष्येण दर्शितत्वात् किमपरमवशिष्यते यदर्थमुत्तरं भाष्यमित्यत आह "सर्वलोकेति (कं. 113.17) / दुर्दर्शनं (कं. 112.17) सौगतादिमतम् / सङ्ख्येयस्वरूपादिना सिद्धसाधनतां परिहरन् प्रयोगमारचयति एकं त्रीणिति (कं. 113.19) / न त्वेकं द्वे इति तथात्वे एक नीलं द्वे नीले इति सह प्रयोगो न स्यादिति भावः / कत इति (कं. 114.1) निरालम्बनत्वाविशेषे प्रत्ययानामाकारवैचित्र्यं नोपपद्यत इति भावः / शङ्कते "आलयेति (कं. 114.2) विज्ञानसन्ततावनादि मिथ्या वासना परिपाकः स कोऽप्यस्ति यो बाह्य इव एक दे इति प्रत्ययरालम्ब्यत इति भावः / नीलाकारस्येति (कं. 114.5) उभयोऽपि बुद्धयारूढत्वेनावि(न)शेषादिति भावः। अत एवेति (क. 114.7) क्षणिकत्वादेवार्थक्रियानिर्भासकाले नीलादेस्सत्त्वादर्थक्रियानिर्भासस्य च प्रामाण्यसन्देहता तदवस्थात्वेच्चेति भावः / 1 इति - जे. 1; जे. 2 / 2 त्रीणीत्याद्याकारो-कं. 1; कं. 2 / 3 आलयविज्ञान - कं. 1; कं. 2 / 4 व-कं. 1; कं. 2 / 5 यदभ्रान्ता-जे. 1; जे. 2 / 6 स्याप्यभ्रान्तत्वे-जे.१; जे. 2 / ७-वेदानामप्यर्थक्रिया- अ, ब, क; 8 स्तन्तुनैव नीलाकारेण दर्शनान्तरं-अ, ब; 9 विप्लुत-कं.। 10 यद्यपि प्रतीकमिदं नास्ति कन्दल्यां तथापि सर्वलोकसिद्धेऽपि (कं. 113.17) इति पाठः क्वचित्कन्दल्यां स्यादिति भाति - सं.। 11 आलंबयेति-ह. पु. /