________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् 273 न्यायकन्दली [118] प्रक्रिया तु द्वयणुकस्य विनाशः, त्र्यणुकस्य विनश्यत्ता, श्यामादीनां विनश्यता, सक्रिये परमाणौ विभागजविभागस्योत्पद्यमानता, रक्ताद्युत्पादकस्याग्निसंयोगस्योत्पद्यमानतेत्येकः कालः / ततस्त्र्यणुकविनाशः, तत्कार्यस्य विनश्यत्ता, श्यामादीनां विनाशः, विभागजविभागस्योत्पादः, संयोगस्य विनश्यत्ता, रक्ताद्युत्पादकाग्निसंयोगोत्पादः, रक्तादीनामत्पद्यमानता, श्यामादिनिवर्तकाग्निसंयोगस्य विनश्यत्तेत्येकः कालः / ततस्त्र्यणुककार्यविनाशः, तत्कार्यस्य विनश्यत्ता, विभागजविभागात्संयोगस्य विनाशः, उत्तरस्य संयोगस्योत्पद्यमानता, रक्तादीनामुत्पादः, श्यामागुच्छेदकाग्निसंयोगस्य विनाशः, द्वितीयपरमाणौ द्रव्यारम्भकक्रियाया उत्पद्यमानतेत्येकः कालः। ततस्तत्कार्यस्य विनाशः, तत्कार्यस्य विनश्यत्ता, उत्तरसंयोगस्योत्पादः, क्रियाविभागविभागजविभागानां विनश्यत्ता, [टि०] [118] एकत्र परमाणौ द्वयणुकनाशक्रियाविभागादिन्यायेन श्यामे दूधणुके विनष्टे यया रीत्या यावद्भिः 'क्षण रक्तं द्वयणुकमुत्पद्यते तद्दर्शयति प्रक्रिया तु इत्यादि / विभागजविभागस्य इति :- यः कर्मणा घणुकारम्भस्य सक्रियस्य परमाणोर परेण परमाणुना विभागो जनितस्तेन द्रव्यनाशानन्तरं द्रव्यनाशविशिष्ट कालं स्वतन्त्रं [पं०] [118] एकत्र परमाणौ द्वयणुकनाशकक्रियाविभागादिन्यायेन श्यामे द्वयणुके विनष्टे यया रीत्या यावद्भिः क्षण रक्तं द्वयणुकमुत्पद्यते तद्दर्शयति / प्रक्रियेत्यादि (कं. 110.7) द्वयणुकस्य विनाशस्त्र्यणुकस्य विमश्यत्तेति (कं. 110.7) त्रिभिद्वर्यणुकस्त्र्यणुकं तत एकस्य परमाणोविघटनात् द्वयणुकस्य विनाशस्तद्विनाशात्त्र्यणुकस्य विनश्यत्तेत्यर्थः / सक्रिये परमाणौ विभागजविभागस्योत्पद्यमानतेति (कं. 110.8) अत्र परमाणाविति निर्वहते" द्वयणुकविनाशादेकत्वम् / इह हि आद्यो विभागः कर्मजस्ततो विभागादेव विभाग इति स्थितिः / ततो यः कर्मणा व्यणुकारम्भकस्य सक्रियस्य परमरणोरपरेण परमाणना सह विभागो जनितस्तेन द्वयणकद्रव्यनाशानन्तरं द्वयणकनाशविशिष्टं कालं स्वतन्त्रं वावयवमपेक्ष्य द्वयणकावस्थिताकाशादिदेशेनापि सह विभागः कर्तव्य इति द्वयणुकनाशकार्यविभागजविभागस्योत्पद्यमानता / एवमन्यत्रापि यत्र यत्र विभागजविभाग इति दृश्यतेऽत्राधिकारे, तत्र तत्रेति शेयम् / प्रथमं द्रव्यविभागस्ततस्तदवच्छिन्नाकाशादिदेशेन सह विभागः / तत्कार्यस्येति (कं. 110.9) त्र्यणककार्यस्य मण्डावयविनः / श्यामादीनामिति [कु०] [118] प्रक्रियात्विति (कं. 110.7) शिष्यबुद्धिवेशद्यायेति शेषः / “अत्रेति प्रक्रियापरिशुद्धिः / अग्निना नोदनाविधातयोरन्यतरस्माक्रियाविभागादिन्यायेन द्वयणकविनाशः। ततः स्वतन्त्रे परमाणौ श्यामादिनिवृत्तिः। ततो रक्ताद्युत्पत्तिः / ततः पक्वे परमाणौ द्रव्योत्पा(त)दकक्रियोत्पादः / तत आकाशादिदेशाद्विभागः / ततः पूर्वसंयोगनाशः, द्रव्योत्पादकसंयोगः / ततो नवमकारणप्रक्रमेण रक्ताद्युत्पत्तिः / तत्तत्सहभवां तु कीर्तनं सम्पातायातं तत् क्षणगणनायां 1 ततस्तत्कार्यविनाशः, तत्कार्यविनश्यता, उत्तरस्यसंयोगस्योत्पाद्यमानता-कं. 1: कं. 2 / 2 रक्ता-अ, ब, क / 3 कर्मणो - ड। 4 परपरेण - ब। 5 नात्वान्तरं - अ। 6 कालकालं - अ, ब, कालं कालं - क / 7 विघटिते - ब। 8 प्रतीकमिदं कन्दल्यां नास्ति तत्र तु एवं सर्वत्र (कं. 110.25) इति दृश्यते /