________________ 272 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली प्राक्तनद्रव्यविनाशः कारण विनाशः, द्रव्यान्तरस्योत्पादः कारणान्तरसद्धावादेवेत्यवतिष्ठते / प्रत्यभिज्ञानं च ज्वालादिवत् सामान्यविषयम् / सर्वावस्थोपलब्धिरपि कार्यस्य विनश्यतोऽपि क्रमेण विनाशात् / नहि घटः परमाणुसञ्चयारब्धो येन विभक्तेषु परमाणुषु सहसैव विनश्येत्, किन्तु द्वयणुकादिप्रक्रमेणारब्धः / 'तस्य स्वतन्त्रेषु परमाणुषु द्वयणुकत्र्यगुकाद्यसङ्घयद्रव्य विनाशपरम्परया चिरेण विनश्यतो यावन्नविनाशस्तावदुपलब्धिरस्त्येव / एकतश्च पूर्वेऽवयवा विनश्यन्ति, अन्यतश्चोत्पन्नपाकरणभिरपूर्व तत्स्थाने एव द्वयणुकादिप्रक्रमेणारभ्यन्ते, तेन पक्वापक्वावयवदर्शनम् / यदा 'चान्त्यावयवानां नाशात्पूर्वावयविनो विनश्यत्ता तदैवापूर्वावयवाना मुत्पादादवयव्यन्तरस्योत्पद्यमानता क्षणान्तरे पूर्वावयवि विनाशोऽवयव्यन्तरस्य चोत्पाद इत्याधाराधेयभावोऽवधारणं च स्यात्, यावन्तः पूर्वस्यावयवास्तावन्त एवोत्तरस्यारम्भकाः (इति) तत्परिमाणत्वं तत्सङ्ख्यात्वं चोपपद्यते / [पं०] शैथिल्यं-पक्वावस्थायां च काठिन्यम् एते च द्वे अपि परस्परविरुद्ध / अतो घटे सत्येव द्वयमिदं शैथिल्यकाठिन्याख्यं जातमिति वक्तुं न युक्तम् / कारणविनाशादिति (कं. 109.22) संयोगविनाशात्। "कारणान्तरसद्भावादिति (कं. 109.23) / संयोगान्तरसद्भावात् / प्रत्यभिज्ञानं च ज्वालादिवत्सामान्यविषयमिति (कं. 109.23) यथाऽभिनवाभिनवोत्पद्यमानेध्वपि ज्वालादिषु न एवामी न एवामी ज्वालादय इति ज्वालादित्य त्वसामान्यविषयं प्रत्यभिज्ञानं तथा अपरथा उत्पन्नेष्वपि घटादिषु सामान्यविषयमिव प्रत्यभिज्ञानमिति भावः / "स्वतन्त्रेष्विति (कं. 109.25) स्वतन्त्रेषु - परस्परविशकलितेषु कर्त्तव्येष्वित्यर्थः / पक्वापक्वावयवदर्शनमिति (कं. 110.3) आपाकान्तर्घटादीनां पक्वाश्चा- . पक्वाश्चावयवा दृश्यन्ते यत्र विनश्यदवस्थास्ते अपक्वा ये चोत्पन्नपाकरणुभिरारभ्यन्ते ते पक्वाः। "अन्त्यावयवानामिति (कं. 110.3) घटारम्भकाणामपक्वखण्डावयविकपालानाम् / पूर्वावयविन इति / (कं. 110.4) आमघटस्य / विनश्यत्तेति (कं. 110.4) आश्रयविनाशलक्षणविनाशकारणसान्निध्यम् / उत्पद्यमानतेति. (कं. 110.5) ? वह्निसंयोगस्योत्पादकारणस्य सान्निध्यम्। अपूर्वावयवानामिति (कं. 110.4) पक्वकपालावयवानाम् / अवयव्यन्तरस्येति (कं. 110.5) पक्वघटस्य / "आधाराधेयभावः आवरणं च स्यादिति (कं. 110.5) उपरि निक्षिप्तशरावधलीकर्परादीनामाधेयता घटस्य चाधारत्वं तैश्च घटानामावरणम् / “अन्यथा तु घटस्य भङ्गे आवरणानामधःपतनं स्यादित्याशयः / / [कु०] क्रमेणोपक्षिप्य प्रतिक्षिपति प्रत्यभिज्ञानमिति (कं. 109.23) / सामान्यविषयमित्यर्थः / क्रमेणेति (कं. 109.24) उत्पत्तिविनाशयोरन्तरालाग्रहणादित्यर्थः / अस्तु तहि यदा विनाशस्तदानपलब्धिरित्यत आह एकतश्चेति ( कं. 1102) / 1 विनाशात् - कं. 1; कं. 2 / 2 कारणसद्भावादे...- कं. 1; कं.२ 3 तस्य द्वयणुक - कं. 1; क. 2 / 4 विनाशात्परम्परया - कं. 1; कं. 2 / 5 यावद-कं. 1; कं. 2 / 6 चान्या-कं. 1; कं. 2 / 7 मुत्पादात् क्षणान्तरे- कं. 1; कं. 2 / 8 विनाशो- कं. 1; कं. 2 / 9 आवरणं च - जे. 1; जे. 2 / 10 कारणसद्भावादिति-कं। 11 विभक्तेषु-कं। 12 तत्र-ब। 13 अन्यावयवाना -कं। 14 आधारभावोऽवधारणं - कं। 15 अन्यथा घटस्य-अ /