________________ 271 टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् न्यायकन्दली स्पर्शवति द्रव्ये तथाभूतस्य द्रव्यान्तरस्य प्रतीघाताद् व्यतिभिद्यमानेषु चावयवेषु क्रियाविभागादिन्यायेन द्रव्यारम्भकसंयोगविनाशादवश्यं द्रव्यविनाश इति कुतस्तस्याणुप्रवेशा'दपि व्याप्तिः / न च कार्यद्रव्येष्वाश्रयविनाशादन्यतो रूपादीनां विनाशः कारणगुणेभ्यश्चान्यत उत्पादो दृष्टः, तेनापि घटवह्निसंयोगाद्पादीनामुत्पत्तिविनाशौ न कल्प्यते / घटरूपादय आश्रयविनाशादेव नश्यन्ति कार्यद्रव्यगतरूपरसगन्धस्पर्शत्वाद् मुद्गराभिहतनष्टघट रूपादिवत् / तथा घटरूपादयः कारणगणेभ्य एव जायन्ते कार्यद्रव्यगतरूपादित्वात् 'पटगतरूपादिवत् / किञ्च, पूर्वमवयवानां 'प्रशिथिलः संयोग आसीदिदानी काठिन्यमुपलभ्यते, न च नोदनाभिघातयोरिव शैथिल्यकाठिन्ययोरेकत्र समावेशो युक्तः, परस्परविरोधात् / तस्मात् पूर्वव्यहनिवृत्तौ व्यूहान्तरमेतदुपजातम् / 'तथा सति च [टि०] विनश्यता विनाशकारणसान्निध्यं विनश्यदवस्थत्वमित्यर्थः / उपरिनिक्षिप्त'शरावधलीकर्परादीनामाधेयता, घटस्य चाधारत्वं तैश्च घटाना माधरणम् / अन्यथा तु घटस्य भङ्गो आधरणानामधः पत्तनं स्यात् / [पं०] विशकलितत्वम् / द्रव्यान्तरस्येति (कं. 109.13) तेजसः / द्रव्यारम्भकसंयोगविनाशादिति (क. 109.14) अत्र द्रव्यं द्वयणुकादि / अणुप्रवेशादिति (कं. 109.14) तेजोऽणुप्रवेशात् / कारणगुणेभ्य इति (कं. 109.15) परमाणुगतरूपादिभ्यः तेनापीति (कं. 109.16) तेनापि कारणेन / 'घटे सत्येव वह्निसंयोगाद्रूपादीनामुत्पत्तिविनाशी न कल्प्यते इति / (क. 109.16) आश्रयस्य तदवस्थत्वेन आश्रयविनाशाभावादिति भावः / ... 'अत्र प्रयोगं दर्शयति घटे रूपादय (कं. 109.17) इत्यादि। कार्यद्रव्यगतरूपरसगन्धस्पर्शत्वादिति (कं. 109.17) परमाणुव्यवच्छेदार्थ कार्यग्रहणम् / “घटे इति (कं. 109.18) (आपाकमध्यस्थिते) कारणगुणेभ्य इति (कं. 109.18) परमाणुरूपादिभ्यः / पटगतरूपादिवदिति (कं. 109 19) यथा पटगता रूपादय कारणगुणेभ्य एव, कोऽर्थः ? तन्तुगतरूपादिभ्य एव जायन्ते न च नोदनेत्यादि (कं. 109.20) यावेकत्र निबिडपाषाणपिण्डे भूमिमभिहत्य किञ्चिच्च भूम्या सहाधः प्रविश्योर्ध्वगुच्छलिते नोदनाभिघातयोरावरुद्धयोः समावेशो दृष्टस्तथा नेकत्र वस्तुनि शैथिल्यकाठिन्ययोः समावेशो दष्ट / घटे सत्येव पाक आङ्गीकारे तु स्यात् / इदमत्र तत्त्वम्-आमावस्थायां हि [कु०] कारणगुणेभ्यश्चेति (कं. 109.15) अवयव्यारम्भसमयवतिभ्य इति शेषः / तेनावतिष्ठमान एव पूर्वस्मिन्नवयविन्युत्पन्नपाकजानामवयवानां रूपादीनि रूपाद्यन्तरमेवारम्भत इति नाशङ्कनीयम् / शैथिल्यकाठिन्ययोरिति (कं. 109.21) संयोगावान्तरजातिविशेषयोरित्यर्थः / परेण] पूर्वावयविनोऽविनाशे यानि प्रमाणानिन्यावक्ष्यंते तानि 1 दभिव्यक्ति-कं.१; कं. 2 / 2 पटरूपादिवत - जे. 1, जे. 2 / / 3 प्रशिथिलता - कं. 1; कं. 2 / 4 तथा सति - कं. 1; कं. 2 / 5 शिराव - अ, ब। 6 आवरणम् - अ, ब, ड। 7 आवरणना- अ, ब, ड / 8 पातनं - अ, ब, क 9 घटवह्निसंयोगाद् - कं। 10 घटरूपादय - कं / 11 घटरूपादय - कं /