________________ 270 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् प्रशस्तपादभाष्यम् [117-118] न च 'कार्यद्रव्ये रूपाद्युत्पत्तिविनाशो वा सम्भवति, सर्वावयवेष्वन्तर्बहिश्च वर्तमानस्याग्निना व्याप्त्यभावात् / अणुप्रवेशादपि च व्याप्तिन सम्भवति, कार्यद्रव्यविनाशादिति / न्यायकन्दली [117] तत्राह-अणुप्रवेशादपोति। न तावत्परमाणवः सान्तराः, निर्भागत्वात् / द्वयणुकस्य सान्तरत्वे 'चानुपपत्तिरेव, तस्य परमाण्वोरसंयोगात् / संयुक्तौ चेदिमौ निरन्तरावेव / सभागयोहि वस्तुनोः केनचिदंशेन संयोगात् सान्तरः संयोगः / निर्भागयोस्तु नायं विधिरवकल्पते / 'स्थूलद्रव्येषु च प्रतीयमानेष्वन्तरं न प्रतिभात्येव, त्र्यणुकेष्वेवान्तरम्, तच्चानुपलब्धियोग्यत्वान्न प्रतीयत इति गुरुयं कल्पना / तस्मानिरन्तरा एव घटादयः / तेषामन्तस्तावदग्निपरमाणूना प्रवेशो भवति यावत्पाथिवावयवानां व्यत्तिभेदो न स्यात् / [टि०] किञ्च इति - पूर्वमित्यामदशायाम, इदानीं तु पाककाले / न च नोदनेति :-यथैकत्र निबिडपाषाणपिण्डे भूमिम'भिहत्य किञ्चिव्व भूम्या सहाधःप्रविश्योर्ध्वमुच्छलिते नोदनाभिघातयोरविरुद्धयोः समावेशो दृष्टस्तथा नात्रेति व्यतिरेकेण दृष्टान्तः / यदा 'चान्त्यावयवानाम् इत्यादि :-अन्त्यावयवा घटारम्भकाः। पूर्वावयवी आमो घटः / [पं०] [117] अगुप्रवेशादपीति (कं. 109.5) अणुप्रवेशादपि, अतस्तेजो व्याप्तिर्न भवतीत्यर्थः / अवयविद्रव्याणां सच्छिद्रत्वमुक्तं परेण तत्क्रयेण खण्डयति न तावत्परमाणव (कं. 109.6) इत्यादिना। सान्तरत्वे इति (कं.१०९.६) सच्छिद्रत्वे अङ्गीक्रियमाणे सति / अनत्पतिरेवेति (कं. 109.7) द्वयणकमत्पद्यते एव नेति प्राप्नोतीत्यर्थः / स्थूलद्रव्येष्विति (कं. 109.9) द्विाणुकादिषु / अन्तरं न प्रतिभात्येवेति (कं. 109.9) अणुत्वात् / व्यणुकेष्विति (कं. 10910) द्वय णुकात्रयनिष्पन्नेषु / अणुकेष्वेवान्तरमिति (कं. 109.10) अत्र व्य गुकग्रहणं चतुरणुकादीनामुपलक्षणम् / ततश्च व्यणुकेष्वेवित्यस्य त्र्यणुकचतुरणुकादिष्वेव स्थूलद्रव्येष्वित्यर्थः सिद्धः / गुर्वीयं कल्पनेति (कं. 109.10) अस[त्] कल्पनैवेयम् / पिठरपाके प्रमाणाऽभावादित्यर्थः / व्यतिभेद इति (कं. 109.12) [कु०] [117] तहि सभागत्वाद् घटादे: सान्तरत्वमस्ति [इत्यत आह स्थू[ल]द्रव्येष्विति (कं. 109.9) / अपां स्यन्दनमध्यवयव विनाशसेवानुमापयति / दृश्यते ह्यम्भः संयोगस्यापि पार्थिव विनश [नाश्य] त्वं, कथमन्यथाम्भसि विनिक्षिप्तस्य लोष्टादेवि(क)लयनं प्रत्यक्ष सद्धानु[भूतं] क्वचित्कम्बलादौ सान्तरता सानुमतैवेति भावः / गुर्वोयमिति (109.10) प्रमाणविरहिणीत्यर्थः / 1 कार्यद्रव्य एव - कं. भा. कि. भा.। 2 चानुत्पत्ति-कं. 1; कं. 2 / 3 स्थूलद्रव्येषु प्रतीयमानेष्वन्तरं-कं. 1 कं. 2 / 4 नास्ति - कं. 1; कं. 2 / 5 हेत्य - अ, ब / 6 मुच्छलति - ड। 7 चान्यावयवानाम् - मु.।।