________________ टिप्पणपञ्जिकाकुसुमोद्गमादिटीकात्रयोपेतम् 269 न्यायकन्दली हेतुभूतक्रियादर्शनाद् 'कल्प्यते / परमाणुक्रिया रूपादिमत्येव जायते रूपादिमत्कार्यारम्भहेतुभूतक्रियात्वात् पटारम्भकसंयोगोत्पादकतन्तुक्रियावत् / अथ कथं कार्यद्रव्ये एव रूपादीनामग्निसंयोगादुत्पादविनाशौ 'न कल्प्येते ? प्रतीयन्ते हि पाकार्थ पक्षिप्ता घटादयः सर्वावस्थासु 'प्रत्यक्षतश्छिद्रविनिवेशितचक्षषा, प्रत्यभिज्ञायन्ते च 'पाकोत्तरकालमपि त एवामी घटादय इति, तत्राह-न चेति / उपपत्तिमाह-सर्वावयवेष्विति / अन्तर्बहिश्च सर्वेष्ववयवेष वर्तमानस्य समवेतस्यावयविनो बाह्ये वर्तमानेन वह्निनाऽव्याप्तेापकस्य संयोगस्याभावात् कार्यरूपादीनामुत्पत्तिविनाशयो'रक्लुप्तिरन्तर्वत्तिनामपाकप्रसङ्गादिति भावः / सच्छिद्राण्येवावयविद्रव्याणि / तत्र यदि नाम महतस्तेजोऽवयविनो नान्तःप्रवेशोऽस्ति, तत्परमाणूनां त्वस्त्येव ततो व्याप्तिर्भविष्यति ? [टि०] घटे इति ज्ञेयम् / तत्रापि मुद्ग गभिहतेन केनापि 'सिद्धसाधनतानिरासार्थमेवकारः / परमाणुव्यवच्छेदार्थ कार्यद्रव्येति / द्रव्यशब्दो नमनशब्दो वा स्वरूपकथनार्थः / एवं वक्ष्यमाणेऽप्यनुमाने व्यवच्छेदो ज्ञेयः / / [40] "अय मतमिति है भयौ गोयुवयोः / कार्यद्रव्ये एवेति (कं. 108.25) घटे एवाखंडे इत्यर्थः / उत्पादविनाशौ" किन कल्प्यते (कं. 108.25) किमर्थं परमाणविभागादिकल्पना क्रियते इति पराभिप्रायः / छिद्रनिवेशित"चक्षुषेति (कं. 108.26) छिद्राणि धमनिस्सरणार्थं पवनप्रवेशार्थं च इष्टकापाके रच्यन्ते / व्यापकस्य संयोगस्याभावादिति (कं. 109.2) संयोगस्य प्रवेशवृत्तित्वादिति भावः / कार्ये इत्यादि (कं. 109.3) कार्ये घटे रूपादीनां वत्तिरकल्पना, किन्तु परमाणुष्वेव रूपादीनामुत्पत्तिविनाशयोः कल्पनेत्यर्थः / परः प्राह सच्छिद्राप्येवेत्यादि (कं.१०९.४) सच्छिद्राणीति सान्त राणि खण्डावयवि वात् अवयविद्रव्याणित्यस्मात् (क. 109.4) पुरोवर्तन्त इति क्रियाध्याहारः / यदि नामेति (कं. 109 4) यद्यपि / तत्परमाणूनामिति (कं. 1095) तेजोऽवयविपरमाणूनाम् / [क०] पाकजोत्पत्यनन्तरमिति (कं. 108.21) वायुपरमाणुमनःक्रियाभ्यां व्यभिचारपरिहाराय रूपादीत्यादिविशेषणं, तदेवं पीलुपाकं सिद्धं कृत्वैतत्सर्वमभिहितम् / अतः परं तमसहमानान् पिठरपाकवादिन उत्थाप्य दूषयितुं भाष्यमवतारयति अथेति (कं. 108.24) / "कार्यद्रव्य इति अभ्यन्त रावयवच्छिन्न इत्यर्थः / सच्छिद्राणीति (कं. 109.4) कथ(मथ)मन्यथा घटान्तर्वतिनीनामपां बहिस्यन्दनमिति भावः / / दृश्यते - क. 1; कं. 2 / 2 मतं - जे. 1; जे. 2 / 3 किन्न - जे. 1, जे. 2 / 4 प्रत्यक्षाश्छिद्रविनिवेशितदशा-कं. 1, कं.२। 5 पाकजोतर-कं. 1 / 6 रक्लप्ते-कं. 1; कं. 2 / 7 तत्परमाणनां ततो-कं. 1; कं.२। 8 हितेन -ब, क। 9 सिद्धि-अ, ब, क ! 10 शब्दो गत शब्दो-अ, ब, क / 11 अथ कथं-कं / 12 अत्रास्य सम्बन्धो न दृश्यते / अन्य एव वा पाठ: स्यात् / 13 विनाशो कल्प्येते। 14 दशा-कं.। 15 कार्य-के। 16 कार्य इति -ह. पु।