________________ 268 न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली तेषां परस्परसंयोगाद् द्वयणुकादिप्रक्रमेण कार्यद्रव्यमुत्पद्यत इति / उत्पन्नेषु घटादिषु येषां तत्साध्ययोः सुखदुःखयोरनुभवो भोगो भविष्यति ते भोगिनः, तेषामदृष्टं धर्माधर्मलक्षणम्, तमपेक्षमाणादात्मपरमाणुसंयोगादुत्पन्नपाकजरूपरसगन्धस्पर्शेषु परमाणुष कर्माण्युत्पद्यन्ते। तेभ्यस्तेषां परमाणूनां परस्परसंयोगास्ततश्च द्वाभ्यां परमाणुभ्यां द्वयणुकं त्रिभिद्वर्यणुकैस्त्र्यणुकमित्यनेन क्रमेण कार्यद्रव्यं घटादिकमुत्पद्यत इति / तत्र च 'कारणगुणपूर्वप्रक्रमेण रूपाद्युत्पत्तिः / परमाणुद्वयरूपाभ्यां द्वयणुके रूपं द्वयणुकरूपेभ्यश्च व्यणुकरूपमित्यनेन क्रमेण घटादौ रूपरसगन्धस्पर्शोत्पत्तिः / सङ्गयादीनां न पाक जत्वं तेषामविलक्षणत्वात् / ननु स्पर्शस्यापि वैलक्षण्यं न दृश्यते, सत्यम्, 'तथापि तस्य पाकजत्वमनुमानात् / तच्च पृथिव्यधिकारे दशितम् / पाकजोत्पत्त्यनन्तरं परमाणुषु क्रिया न तु श्यामादिनिवत्तिसमकालमेवेति रूपादिमत्येव द्रव्ये रूपादिमत्कार्यद्रव्यारम्भ [टि•] वलयभिघातस्य प्रबलत्वात् / तस्मानिरन्तरा एव इति :- ननु यदि निरन्तरास्तहि कथं मध्यक्षिप्तोदकादीनां 'स्रवणम् ? न, तथाविधेन च्छिद्रेण जलस्य सुखप्रवेशत्वात् वह्नस्तु वेगातिशयेन तथाविधे प्रविशतो घटभङ्गहेतुत्वात् तच्छिद्रं सदपि न विवक्ष्यते यथाऽनदरा कन्या इत्यत्र उदरमिति / 'घटे रूपादय इति :-अत्र दष्टान्तार्थमापाकमध्यस्थिते [पं०] [116] 'आत्मोऽणुसंयोगादिति (कं. 108.14) आत्मनो व्यापित्वादण्डभिस्संयोगः / घणुकरूपेभ्य (के. 108.18) इत्यसमवायिकारणेभ्यः / त्रिभिहि द्वयणुकैरेकैकं त्र्यणुकं निष्पद्यतेऽतो ह्यणुकरूपेभ्य इत्यत्र बहुवचनम् त्र्यणुकरूपमिति (कं. 108.18) अत्र एकवचनम् / अविलक्षणत्वादिति (कं. 108.19) पाकावस्थायामप्येकरूपत्वात् / घटादिष्वामक्षणयोर्वर्तमानानां रूपादीनामिव न सङ्ख्यादीनामपि वैलक्षण्यमीक्ष्यते इति भावः / तच्च पृथिव्याधिकारे रशितमिति (कं. 108.21) पार्थिवघटादिस्पर्शः पाकजः एकेन्द्रियग्राह्यत्वे सति पार्थिवगुणत्वात, पथिवीगतरूपा दिवदित्येवं दर्शितम् / न तु श्यामादिनिवृत्तिसमकालमेवेति (कं. 108.21) श्यामादिनिवृत्तिकाले हि ते परमाणवो नीरूपादिका जाता। अस्ति च तदा स्वयमरूपादिकाः सन्तो रूपादिघटादिकार्यद्रव्यारम्भिका क्रियां कथ कुर्वन्ति ? अत: पाकजरूपाद्युत्पत्त्यनन्तरमेव तेषु क्रिया इति हृदयम् / [कु.] [116] उत्पन्नेष्विति (108.12) भोगिनो विशिनष्टि। इदं च लौकिकसम्बन्धनियमप्रयोजक दर्शयितुं कुलालादिप्राच्यप्रयासवैयर्थ्य (पर) परिहर्तुमुक्तमित्यवगन्तव्यम् / पुनर्घटोपत्तौ रूपाद्युत्पतिः प्रमाणं, घटोत्पत्तिरेव यणकाद्यान्तरालिककार्योत्पत्तावित्येवमादि कार्यमेव कारणे प्रमाणं द्रष्टव्यम् / न तु द्वयणुके पक्वं परमाणुरू[पं] परमाणुरूपाद्रूपमुत्पद्यत इत्यसङ्गगतम्, उत्तररूपोत्पत्तेः प्रागेव द्रव्यारम्भकसंयोगानुकूलक्रियोत्पत्तिसम्भवादित्यत आह 1 द्वाभ्यां द्वघणुक - कं. 1; कं.२। 2 कार्य - जे. 1: जे. 2 / 3 कारणगुणप्रक्रमेण - कं. 1; कं. 2 / 4 तथाप्यस्य - कं. 1; कं. 2 / 5 पार्थिवघटादिस्पर्शः पाकजः, एकेन्द्रियग्राह्यत्वे सति पार्थिवगुणत्वात्, पृथिवीगत रूपादिवत् इति दर्शितम्-टिप्पण नं. 1 6 श्रवणम्-अ, ब; 7 तथाविधच्छिद्रे-अ, ब, 8 घटरूपादय - मु. 9 आत्मपरमाणु-कं /