________________ टिप्पणपञ्जिकाकुसूमोदगमादिटीकात्रयोपेतम 267 प्रशस्तपादभाष्यम् [116] तदनन्तरं भोगिनामदृष्टापेक्षादात्माणु'संयोगादुत्पन्नपाकजेष्वणुषु कर्मोत्पत्तौ तेषां परस्परसंयोगाद् द्वयणुकादिक्रमेण कार्यद्रव्यमुत्पद्यते / तत्र च कारणगुणपूर्वप्रक्रमेण रूपाद्युत्पत्तिः / न्यायकन्दली स्वतन्त्रेषु परमाणुषु पाकजोत्पत्ती कार्यानवरुद्ध एव द्रव्ये सर्वत्र रूपाद्युत्पत्तिदर्शनं प्रमाणम् / परमाणुरूपादयः कार्यानवरुद्धष्वेव द्रव्येषु भवन्ति, आरभ्यमाणरूपादित्वात्, 'तन्त्वादिरूपादिवत् / पूर्वरूपादिविनाशेऽपि रूपाद्यन्तरोत्पत्तिः प्रमाणम् / रूपादिमति रूपाद्यन्तरारम्भासम्भवाद् रक्तादिरूपादयो रूपादिमत्सु नारभ्यन्ते रूपादित्वात् तन्त्वादिरूपादिवत् / एवं परमाणुषु पूर्वरूपादिविनाशे सिद्धे वह्निसंयोग एव विनाशहेतुरवतिष्ठते, तद्भावभावित्वादन्यस्यासम्भवात् / न च यदेव रूपादीनां विनाशकारणं तदेव तेषामुत्पतिकारणमित्यवगन्तव्यम्, तन्तुरूपादीनामन्यत उत्पत्तेरन्यतश्च विनाशदर्शनात् / तेन परमाणुषु रूपादीनामन्यस्मादग्निसंयोगादुत्पत्तिरन्यस्मादग्नि संयोगाच्च विनाश इत्यवसीयते / परमाणुरूपादिविनाशोत्पादावेककारणको न भवतः, रूपादिविनाशोत्पादत्वात् / तन्तुरूपादिविनाशोत्पादवत् / [116] 'तदनन्तरं भोगिनामदष्टापेक्षादात्माणुसंयोगादुत्पन्नपाकजेषु परमाणषु कर्मोत्पत्तौ [116] गुर्वीयं कल्पना इति :-'पिठरपाके प्रमाणाभावादिति भावः / ननु विवादाध्यासितं "पिठरं पच्यते पृथीवित्वात् परमाणवदिति प्रमाणमस्ति, न, औष्णापेक्षाग्निसंयोगस्य प्रयोजकत्वात् "पिठरनाशे च कारणस्य पिं० हि पटोत्पत्तेः प्रागेव रूपं दृष्टम् न तु परविरोधे पश्चात बौद्धानां मते विनाशोत्पत्त्यारेकमेव कारणमतस्तान तान्प्रतिक्षिपन्नाह न च यदेवेत्यादिना (कं. 108.7) / तेषामिति (कं. 108.8) रूपादीनाम् / रूपादिविनाशोत्पादत्वादिति (कं. 108.11) मध्यशब्दो हि पूर्वशब्दस्य विनाशमत्तरशब्दस्योत्पादं च करोति अतो रूपादिग्रहणम् / [कु० पूर्वरूपाद्यविनाशे चानेकरूपादिप्रसङ्गः, वह्निसंयोगस्य विनाशोत्पादकारणत्वा(वं)ङ्गीकारे कारणान्त रासम्भवे न तयोरकारण 'कत्वप्रसङ्गः / एकस्मादेवोत्पत्तिविनाशाङ्गीकारि (रे) वरम |न्त्य ] संयोगस्योत्पादकविनाशकत्वे द्वयणुकादे रूपादिमत्त्वप्रसङ्ग इति / 1 संयोगेभ्यो-दे। 2,3 प्रक्रमेण -दे; गुणप्रक्रमेण - कं.१; कं.२। 4 तन्त्वादिरूपवत - कं.१; कं. 2 / 5 रूपान्तरोत्पत्तिः - कं. 1; कं. 2 / 6 परमाणुषु रूपादिनाशे-जे. 2 / 7 °संयोगाद्विनाश - कं. 1; कं. 2 / 8 तदनन्तरमित्यादि - कं. 1; कं. 2 / 9, 10, 11 विवर - अ: 12 °कत्वे -ह. पु।