________________ न्यायकन्दलीसंवलितप्रशस्तपादभाष्यम् न्यायकन्दली शरावादयो गृह्यन्ते / आमद्रव्यस्येत्यपक्वद्रव्यस्येत्यर्थः / पाकार्थमग्निना सम्बद्धस्य परमाणुष कर्माण्युत्पद्यन्ते, आमद्रव्यस्य घटादेः संयोगिनोऽप्युदकपरमाणवः सन्ति, तन्निवृत्त्यर्थमाहतदारम्भकेष्विति / तस्य घटादेरारम्भकेष्वित्यर्थः / घटाद्यारम्भकाश्च परमाणवः पारम्पर्येण कर्मणां कारणमित्याह-अग्न्यभिघातान्नोदनाद्वेति / पार्थिवस्य परमाणोरग्निनाऽभिघातो नोदनं वा संयोगविशेषः, स च कर्माधिकारे वक्ष्यते / तेभ्यो 'विभागास्तेभ्यः कर्मभ्यः परमाणूनां विभागाः। विभागेभ्यः द्वय गुकारम्भकसंयोगविनाशाः संयोगविनाशेभ्यश्च कार्यद्रव्यं विनश्यति, विभागेभ्यो द्वयणुकलक्षणं कार्यद्रव्यं विनश्यति / ___तस्मिन् विनष्टे स्वतन्त्रेषु परमाणुष्वग्निसंयोगादग्निगतोष्ण्यापेक्षाच्छयामादीनां पूर्वरूपरसगन्धस्पर्शानां विनाशः / पुनरन्यस्मादग्निसंयोगात् पाकजा जायन्ते / [दि०] प्रागेव रूपं दृष्टं न तु पटावरोधे सति पश्चात् / आरभ्यमाणरूपत्वाद् इति :- सलिलपरमाणुगतरूपेऽपि रूपत्वमस्ति परं द्रव्येषु भवनं नास्ति तस्य नित्यत्वाद् अत उक्तमारभ्यमाणेति / रूपादि [विनाशोत्पादत्वाद इति :पूर्वशब्दविनाश उत्तरशब्दोत्पादश्च] एकेनैव मध्यशब्देन क्रियते इति तन्निरासार्थ रूपादि इत्युक्तम् / [पं०] अग्निगतोष्ण्यापेक्षादिति (कं. 107.25) मन्त्रादिप्रतिबन्धकाऽभावादग्ने रोष्ण्यम् / पाकजा इति (कं. 108.1) रूपादयः / कार्याऽनवरुद्ध एव द्रव्ये इति (कं. 108.2) अद्यापि कारणावस्थेष्विव परमाणुषु, न तु कार्यप्रवृत्तेषु / आरभ्यपरमाणुरूपादिवदिति तन्त्वादिरूपे एव द्रव्ये इत्यर्थः / अनारब्धकार्यकारणभावापन्ने केवलपरमाणुरूपे एव द्रव्ये इत्यर्थः / कार्यानवरुद्धेष्विति (कं. 108.3) कारणावस्थेष्वेव / आरभ्यमाणरूपादित्वादिति (कं. 108.3) आरभ्यमाणा रूपादयः यः / कार्यद्रव्ये इति समासः / कार्यरूपत्वादित्यर्थः / तन्त्वादिरूपादिवदिति (कं. 108.6) तन्त्वादौ [कु०] आप्यानामपि निमित्ततयाऽरम्भकत्वात् / ननु कथं परमाणूनां घटारम्भकत्वं? द्वयणुकव्यतिरेकेण परमाणूनां कार्याभावादित्यत आह घटादीति (कं. 107.20) / ननु कार्यविनाशे किं प्रमाणमित्यत आह स्वतन्त्रेष्विति (कं. 107.25) / अवयविरूपस्य कारणपूर्वकत्वनियमात् परमाणरूपस्यारम्भसिद्धिः / इदं 'चाप्यादिपरमाणरूपादिव्यवच्छेदीयविशेषणम् / यद्यप्येकस्यैव मध्यशब्दस्य (ज) कजातीयं प्रति व्यक्तिभेदेन पूर्वस्य विनाशकत्वमुत्तरस्योत्पादकत्वं च दृष्टम् , उपान्त्यस्यैकमेव व्यक्ति प्रति कालभेदेनोत्पादकत्वं विनाशकत्वं च दृष्टं तथा च रूपादीनां नैवमित्याह न च[य] देवेति (कं. 108.7) अत्र तर्कः, उत्पद्यमानपाकजावयवाविनाशे कार्यरूपादिविनाशस्याश्रयविनाशहेत्वभावादकारणत्त्वप्रसङ्गः / 1 तेभ्यो विभागा विभागेभ्यः संयोगविनाशा:- कं. 1; कं. 2 / 2 मारणरूपत्वाद् - ब; माणरूपादित्वाद् - मु. 3 [ ] एतच्चिह्नान्तर्गतः पाठः डपुस्तके नास्ति / 4 चाप्पी-ह. पु. /